सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 21, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 21

६ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्

लोचन इति ख्यातश्रुतिभिः स्तुतो वेदैः पञ्चमुखः षडानन-
पिता सप्तर्षिभिर्वन्दितः । अष्टाङ्गो नवतुल्य आमरणे
वासो दशाशा दधत्स्वैश्चैकादश सोऽवतान्न विजितो यो
द्वादशात्माशुभिः ॥ ६१ ॥ लीलाद्यूतजिता कलाधर-
कला मौलौ दृढं कीलिता स्वीकर्तुं युगमुन्नमय्य भुजयोर्वि-
श्लेषमन्यस्तदा । पार्वत्याः कुचकुम्भपार्श्वयुगले सप्रेमदत्ते-
क्षणः कालक्षेपणिमिन्दुमोचनविधौ देव स नो रक्षतु
॥ ६२ ॥ मृत्यालेपनभूषित प्रविलसन्नेत्राग्निदीपाङ्कुर
कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरित । ईषत्ताम्रज-
टाग्रपल्लवयुतो न्यस्तो जगन्मण्डपे शम्भुर्मङ्गलकुम्भतामु-
पगतो भूयात्सता श्रेयसे ॥ ६३॥ मल्लीमाल्यधिया सुधाकर-
कला कण्ठश्रिय कजलभ्रान्त्या मालविलोचनानलशिखा
सिन्दूरपूराशया । कैलासे प्रतिबिम्बितात्मवपुषो गृह्णन्ह-
सन्त्या मुहुः पार्वत्या प्रतिकर्मकर्मणि चिर मुग्धो हरः पातु
वः ॥ ६४ ॥ दास्येऽह परिंरम्भणानि कितव द्यूते जितानि
त्वया वैर्य वेहि यतः कृतः शतमहोरात्राणि तत्रावधिः ।
इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिक्षयद्रागुन्मेष-
निमेषकोटिघटनाव्यग्रो हर पातु वः॥ ६५॥ मौलौ
कि नु महेश मानिनि जल कि वक्रमम्भोरुह कि नीलाळ
कवेणिका मधुकरी की भ्रूलता वीचिका । कि नेत्रे शफरौ
किमु स्तनयुग प्रेङ्खद्र्थाङ्कद्वय साशङ्कामिति वञ्चयन्गिरिसुता
गङ्गाधरः पातु वः ॥ ६६ ॥ देव्याः प्रारिरम्भणे किल
करौ द्वौ द्वौ पुनस्तत्करौ रोढुं तन्मुखमुन्मुख रचयितु
द्वौ चाधरास्वादने । द्वौ नेत्रान्तपलालकापनयने मोक्तु च
नीवी दृढा द्रावित्य मफलीकृताखिलकरः पायात्स वः श-
करः ॥ ६७ ॥ न क्रोधः क्रियता प्रिये स तु भवन्मौलिस्य-
गङ्गोदरे मुग्धे मानमपूजित त्यज कृत युष्मन्नियोगद्वयम् ।
वक्रे श्लेषमसु निराकुरु कदाश्लिष्टोऽसि वक्रे मया वामा-
ञ्चेति हतोत्तरः स्मरहरः खेरानन पातु वः ॥ ६८ ॥
अङ्ग येन रथीकृत नयनयोर्युग्म रथाङ्गीकृत पत्र म्व रथ-
कर्मसारथिकृत श्वासास्तुरगीकृताः । कोदण्डीकृतमात्मवीर्य-
मचिरान्मौर्वीकृतं भूषण वामाङ्ग विशिखीकृत दिशतु नः क्षेम
स धन्वी पुमान् ॥ ६९ ॥ नृत्यारम्भरसत्रसद्गिरिसुतारिक्तार्थ-
संपूर्तये निर्व्युढभ्रमिविभ्रमाय जगतामीशाय तुभ्यं नमः ।
यच्चण्डामुनुजेश्वरप्रभृतिम्रिस्तादृग्भ्रमन्तीर्दिशः पश्यद्भिर्धन-
घूर्णमाननयनैः शान्तोऽपि न श्रद्दधे ॥ ७० ॥ उद्दामभ्रमिवेग-
विस्तृतजटावल्लीप्रणालीपतत्स्वर्गङ्गाजलैर्दण्डिकावलयित नि-

र्माय तत्पञ्जरम् । सन्नाम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हुसायि-
तस्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगन्नायताम् ॥ ७१ ॥
यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृश मेरौ पार्श्वनिवा-
सिवासरनिशाचित्रे परिभ्राम्यति । तैजस्यसदितो भवन्तु
शतशो दृष्टा हि तास्ताः कथ तामसोऽपि स वः पुनातु
जगतामन्त्येष्टियज्वा विभुः ॥ ७२ ॥ तत्कालौग्मटीविजृम्भ
णपरिवासादिव भ्व्य्रता वामार्धेन तदैकशेषकरण बिभ्रद्वपु
भैरवम् । तुल्य चास्थिभुजङ्गभूषणमसौ भोगीन्द्रकङ्कालकै-
र्बिभ्राणः परमेश्वरो विजयते कल्पान्तकर्मान्तिकः ॥ ७३ ॥
चञ्चच्चन्द्रिकचन्द्रचारुकुसुभो माय्य जटापटवो टप्यत्तारुण-
दन्दशूकमणिमास्तत्यक्षशाखालयः (१) । स्थाणुर्मे फलदो भव-
त्वतितरा गोरीमुखेन्दुद्रवत्पीयूषद्रवदोहदादिव ढंप्रहेवद्रुमत्व
सदा ॥ ७४ ॥ वक्राम्भोरुहि विस्मिता सवकिता वक्षो
रुहि स्फारिताः श्रोणीसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुननि
स्रुता । पार्वत्या प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि
वो विद्बसान्तिकपुष्पसायकशरैरीशस्य दृग्भङ्गय ॥ ७५ ॥
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चाविविसष्ठु
लाखिलविविव्यासङ्गमङ्गाकुल । आ शेत्य तुहिनाच-
लस्य करयोरित्युच्चिवान्सस्मित शैलान्त.पुरमत्रिमण्डल-
गणैर्दृष्टोऽवताद्वः शिवः ॥ ७६ ॥ दिक्कालात्मसमैव यस्य
विभुता यंस्तत्र विद्योतते येनामुष्य युधीभवन्ति किरणा
राशेः ^१सें यैर्यामभूत् । ^२यैस्तैैर्वतैरैत्तैमुपु सु ^७योऽस्यै हविषे
येय्स्यैस्य जीवांतवे वोढा यैहूर्णमेर्षै मन्मथरिपोस्ताः पान्तु
नो मूर्तयः ॥ ७७ ॥ जीर्णेऽप्युत्कटकूटकालकूटगरले पुष्टे
तथा मन्मथे नीते भासुरभालनेत्रनुता कल्पान्तदावानले ।
यः शक्त्या समलकृतोऽपि शशिन शैलात्मजा मूर्धनी धत्ते
कौतुकराजनीतिनिपुण. पायात्स व. शकरः ॥ ७८ ॥ कि
गोत्र किमु जीवन किमु धन का जन्मभूः कि वयः कि
चारित्रममुष्य के सहचराः के वशजाः प्राक्तनाः । का
माता जनकः शिवस्स क इति ^२१प्रैहेण पृथ्वीभृता पृष्टाः
सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः ॥ ७९ ॥
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रकषैः स्रोतोभि. परिवा-
रिता दिशि दिशि द्वीपः समन्तादयम् । यस्य स्फारफणा-
वलीमणिचये मज्जत्कलङ्काकृतिः शेष. सोऽयगमद्यदङ्गनपद
तस्मै नमः शभवे ॥ ८० ॥ तारानायकशेखराय जगदा-


१ कुर्वन्निति शेषः २ अक्षद्यूतैः ३ चक्रवाक ४ आलिङ्गने ५ सर्पं ६ बाणीकृतम् ७ समाप्त ८ भ्रमणम् ९ जलस्य निर्गमनमार्गे मकरमुखादिरूपा १० दण्ड
१ कर्बुरवर्ण २ तमोमया ३ नाश्यभेद ४ सर्व ५ दीयमानम् ६ आकाशस्य ७ सूर्ये. ८ चन्द्रे ९ सूर्यस्य १० चन्द्र ११ अपाम् १२ अनि . १३ अपाम् १४ शुचि रुदकम् १५ यजमान १६ अग्रे . १७ वायु . १८ यजमानस्य १९ पृथिव्या २० वायु २१ नभ्रेण २२ ईश्वराय