सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 195, कुल 516 में से
संदर्भ में पढ़ें१८० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा-
वधि । जामाता बहुलार्पितावधि सखा साधुप्रलापावधि
शिष्यो गुह्यनिरूपणावधि परे चैतेऽधनत्वावधि ॥ १०४० ॥
स्त्रीणां यौवनमर्थिनामन्वगमो राज्ञां प्रतापः सतां स्वास्थ्यं
स्वल्पधनस्य संहतिरसद्वृत्तेश्च वाग्डम्बरः । स्वाचारस्य सद्-
र्च्चनं परिणतेर्विद्या कुलसैकता प्रज्ञाया धनमुन्नतेरतिनतिः
शान्तेर्विवेको बलम् ॥१०४१॥ नागो भाति मदेन ¹कं जल-
रुहैः पूर्णेन्दुना शर्वरी शीलेन प्रमदा जवेन तुरगो नित्योत्स-
वैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः
सत्पुत्रेण कुल नृपेण वसुधा लोकत्रयं विष्णुना ॥१०४२॥
एहि स्वागतमाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्ता
³परिदुर्बलोऽसि नितरां प्रीतोज्झि ते दर्शनात् । इत्येव समु-
पागतं द्विजवरं संभावयन्त्यादरात्तेषा युक्तमशङ्कितेन मनसा
गेहेषु गन्तुं सदा ॥ १०४३ ॥ स्यादत्यन्तरनिक्षरः क्षिति-
पति. श्रीकारमात्राश्रयान्मत्री तत्कथितार्थलेखनपरस्तत्सेवको
जायते । अध्येता तदगारमेव भजते विद्वांस्तु तं याचते
यावान्यस्य गिरा समं परिचयस्तावन्विदूरे श्रियः ॥१०४४॥
को लाभो गुणिसंगम. किंसुखं प्रज्ञैतरैः संगति. का हानिः
समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः । कः शूरो विजि-
तेन्द्रिय. प्रियतमा कानुव्रता किं धन विद्या किं सुखमप्र-
वासगमनं राज्यं किमाज्ञाफलम् ॥ १०४५ ॥ सस्यानि स्वय-
मत्ति चेद्वसुमती माता सुतं हन्ति चेद्लेलाम्बुनिधिर्विल-
ङ्घयति चेद्भूमिं दहेत्यावकः । आकाशं जनमस्तके पतति
चेदन्नं विषं चेद्भवेद्न्यायं कुरुते यदि क्षितिपतिः कस्सं
निरोढुं क्षम. ॥ १०४६ ॥ वासः शुभ्रमृतुर्वसन्तसमयः
पुष्पं शरन्मालती धान्युष्क. कुसुमायुधः परिमल. कस्तूरि-
काजं धनुः । वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो
नूतनं मार्गः शाम्भव एव पञ्चमलया गीतिः कविर्बिल्हणः
॥ १०४७ ॥ ⁶रोलम्बैर्न विलैम्बित विवटितं धूमाकुलैः कोकि-
लैर्मायूरैश्ललितं पुरैव रभसात्कीरैर्गैरैर्गीतम् । एकेनापि
सुपल्लवेन तरुणा दावानलोपप्लवः सोढः को न विपत्सु मुञ्चति
जनो मूर्खापि यो लालितः ॥१०४८॥ ⁹क्षोणीशाश्रयिणा परो-
पकरणाभावादैवासश्रिया कार्पण्यात्सुधियामनध्ययनतो यूना
प्रवासाश्रयात् । ज्ञातॄणां जगदीशभक्तिविरहादायुर्वृथा
१ उदकम्. २ वेगेन ३ कृश ४ अत्यन्तदूरे ५ मूर्खे
६ भ्रमरै. ७ विलम्बो न कृत. ८ मयूरसमूहैः ९ शुक्ते
१० राजाश्रयवताम् ११ धनिनाम्
गच्छतीत्येवं काससमुद्भवः प्रतिदिनं नादो वदत्युच्चकै-
॥ १०४९ ॥ मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनः
विप्रता विप्रत्वे बहुविद्यतातिगुणता विद्यावतोऽर्थज्ञता ।
अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता लोकज्ञस्य
समस्तशास्त्रविदुषो धर्मे मतिर्दुर्लभा ॥ १०५० ॥ आयाते
च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो
विषण्णवदनः क्लेशेश्ववादे मुहुः । अन्तर्वेश्मनि वासमि-
च्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपर-
स्तन्मन्दिर न व्रजेत् ॥ १०५१ ॥ बन्दी विन्दति चेद्दमा-
त्यपदवी शिष्टैरलं भूरिभिः पुंभिश्चेत्प्रतिपाद्यते रतिकला कैणी-
दशामादरः । विश्रान्ता यदि वैखरीषु कविता काव्येन
भव्येन कि भूपाले यवने समस्तभुवने वैदग्ध्यमस्तं गतम्
॥ १०५२ ॥ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते
मध्येवारिधि वा वसस्तृणमणिर्धत्ते मणीना रुचम् । खद्यो-
तोऽपि न कम्पते प्रविचलन्मध्येऽपि तेजस्विना धिक्सा-
मान्यमचेतस प्रभुमिवानासृष्टतत्त्वान्तरम् ॥ १०५३ ॥
मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरी धर्मशीलो
दुःस्थो मानी गृहस्थः प्रमुरतिकृपणः शास्त्रबुद्धर्महीन. ।
आज्ञाहीनो नरेन्द्रः शुचिरपि सततं य. परान्नेोपभोजी वृद्धो
रोगी दरिद्र स च युवतिपतिर्धिंग्विडम्बप्रकारान् ॥ १०५४ ॥
ख्यात. शक्रो भगाङ्को विधुरपि मलिनो माधवो गोपजातो
वेश्यापुत्रो वसिष्ठो रतिपतिरतनुः सर्वभक्षी हुताशः । व्यासो
मत्स्योदरीयो लवणजलनधिः पाण्डवा जारजाता रुद्रः प्रेता-
स्थिधारी त्रिभुवनविषये कस्य दोषो न चास्ति ॥ १०५५ ॥
प्राणाघातान्निवृत्ति परधनहरणे सययः सत्यवाक्यं काले
शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतो-
विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशा-
स्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ १०५६ ॥ आविर्भू-
तानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पत्रच्छायैः पुर-
स्तादुपवनतरवो दूरमाश्वेव गत्वा । एते तस्मिन्निवृत्ताः पुन-
रितरककुप्प्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलित-
विमवं स्वामिनं सेवमानाः ॥ १०५७ ॥ मणिना वलयं
वलयेन मणिर्मणिना वलयेन विभाति करः । कविना च
विभुर्विभुना च कविः कविना विभुना च विभाति सभा ।
शशिना च निशा निशया च शशी शशिना निशया च
विभाति नभः । पयसा कमलं कमलेन पयः पयसा कमलेन
विभाति सरः ॥ १०५८ ॥