सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 192, कुल 516 में से
संदर्भ में पढ़ेंसामान्यनीतिः १७७
द्रवति च हिमरश्मावुद्गते चन्द्रकान्त ॥ ९७४ ॥ प्रथम-
दिवसचन्द्र सर्वलोकैकवन्द्यः स च सकलकलाभिः पूर्णचन्द्रो
न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानिर्नवनवगुण-
रागी प्रायशः सर्वलोकः ॥ ९७५ ॥ भवति हृदयहारी
कोऽपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धप्रयोगे ।
किसलयितवनान्ते कोकिलारावरम्ये विकसति न वसन्ते
मालती कोऽत्र हेतुः ॥ ९७६ ॥ परीवादस्तथ्यो भवति
वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जन-
रवः । तुलोत्तीर्णस्यापि प्रकटितहुताशेषतमसो रवेस्तादृक्तेजो
नहि भवति कन्यां गतवतः ॥ ९७७ ॥ बहिः सर्वाकार-
प्रगुणरमणीयं व्यवहरणमभ्युत्थानान्यपि तनुतराणि
स्थगयति । जनं विद्वानैकः सकलमभिसंधाय कपटैस्तटस्थः
स्वानर्थान्घटयति च मौनं च भजते ॥ ९७८ ॥ कलारत्नं
गीतं गगनतलरत्नं दिनमणि सभामारत्नं विद्वाञ्श्रवणपुटरत्नं
हरिकथा । निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं
श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ९७९ ॥ नराः संस्कारार्हा
जगति किल केचित्सुकृतिनः समानाया जातावपि वयसि
सत्यामपि धियि । अयं दृष्टान्तोऽत्र स्फुटपरिचयाद्भ्यसनतः
शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ९८० ॥
वरं तुङ्गाच्छृङ्गाद्गुरुशिखरिणः क्वापि पुलिने पतित्वायँ
कायः कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः फणिप-
तिमुखे तीव्रदशने वरं वह्नौ पातस्तदपि न कृतः शील-
विलयः ॥ ९८१ ॥ विदेववर्जं^१ ग्रामं विबुधविधुरा भूपतिसभा
मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम्^२ । अनाचारा-
न्दारानपहरिकथं काव्यमपि च प्रवृत्तत्वापेतं गुरुमपि
सुबुद्धिः परिहरेत् ॥ ९८२ ॥ मणिः शाणोल्लीढः^३ समरविजयी
हेतिनिहतो^४ मदक्षीणो नागः^५ शरदि सरितः श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिना शोभन्ते
गलितविभवाश्चार्थिषु नृपाः ॥ ९८३ ॥ किमासेव्यं पुंसा
सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं
कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्तौ प्रभवति ॥ ९८४ ॥
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लीव्यं^७ पुंसां न च
परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्ये-
ष्वभिरुचिवरं^८ भिक्षाशित्वं न च परधनास्वादनसुखम्
॥ ९८५ ॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न
पुनरविवेकाधिपपुरे^९ वरं प्राणत्यागो न पुनरधमानामुपगमः
॥ ९८६ ॥ दृढः प्रेमा भग्नः संदसिरिव^१ संधिं न भजते
भजेतापि प्रायः स्खलति खलु यत्नैरपि धृतः । स्वनेत्रो
चेत्साम्यं भजति न भजेद्वा न भवति च्युताशङ्कश्चेत्यास्मन्-
तिमुपगतस्तु व्यथयति ॥ ९८७ ॥ इयं प्रीतिर्वल्ली हृदयभुवि
दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला ।
यथा नैना स्फीता पिशुनजनदुर्वाक्यदहनो दहन्त्यन्तः
शोषं व्रजति न पुनः सौहृदनिधेः ॥ ९८८ ॥ न रम्यं
नारम्यं प्रकृतिगुणतो वस्तु किमपि प्रियत्वं यत्र स्यादितरदपि
तद्ग्राहकवशात् । रथाङ्गाहानानां भवति विधुरङ्गारशकटी
पटीरारम्भः कुम्भः स भवति चकोरीनयनयोः ॥ ९८९ ॥
अरण्यं सौरङ्गैर्रिगिरिकुहरगर्भाश्च^२ हरिभिर्दिशो^३ दिर्मातङ्गे^४
सलिलमपिषैं पङ्कजवनैः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यवि-
जितैः सता माने म्लाने मरणमथवा दूरगमनम् ॥ ९९० ॥
नभोभूषा पूषा^५ कमलवनभूषा मधुकरी वचोभूषा सत्यं
वरविभवभूषा वितरणम् । मनोभूषा मैत्री मधुसमयभूषा
मनसिजः संदोभूषा^६ सूक्तिः सकलगुणभूषा च विनयः
॥ ९९१ ॥ कलासीमा काव्यं सकलगुणसीमा वितरणं
मये सीमा मृत्युः सकलसुखसीमा सुवदना । तपः
सीमा मुक्तिः सकलकृतिसीमाक्षितिभृतिः प्रिये सीमाह्लादः
श्रवणसुखसीमा हरिकथा ॥ ९९२ ॥ शशी दिवसधूसरो
गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं
स्वाकृते । प्रभुर्धनपरायणः सततदुर्गतः^७ सज्जनो नृपाङ्गन-
गतः खलो मनसि सप्त शल्यानि मे ॥ ९९३ ॥ प्रसरति
मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयन्नर्थान्मन्त्रो न
गच्छति विप्लवम् । फलति सकलं कृत्यं चित्तं समुन्नतिमश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ ९९४ ॥
सरसि बहुशस्ताराच्छांये क्षणातपरिवञ्चितः कुमुदविटपान्वेषी
हंसो निशासु विचक्षणः । न दशति पुनस्ताराशङ्की दियापि
सितोत्पलं कुहकचकितो लोकः सत्येऽप्यप्रायमपेक्षते ॥ ९९५ ॥
स्फलनिश्चयः शाखाभङ्गं करोति वनस्पतेर्गनममलस वर्हा-
टोपः करोति शिखण्डिनः । चतुरगमनो जाल्यो योऽश्वः
स गौरवं वाब्वते गुणवति जने प्रायेणैते गुणाः खलु दूष-
णम् ॥ ९९६ ॥ कृमिकुलचितं^८ लोलाक्लिन्नं^९ विगन्धि^१० जुगु-
प्सितं^११ निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम्^१२ । सुरैपति-^१३
मपि श्वा पार्श्वस्थं विलोक्य न शङ्कते नहि गणयति क्षुद्रो
जन्तुः परिग्रहफल्गुताम्^१४ ॥ ९९७ ॥ मधुकरगणश्रूंतं
त्यक्त्वा गतो नवमल्लिकां पुनरपि गतो रक्ताशोकं कदम्ब-
१ रहिताम्. २ देशम् ३ निकषपाषाणेनोल्लिखितः ४ आयुधैः कृत-
क्षत ५ हस्ती. ६ शुकः. ७ नपुंसकत्वम् ८ दुष्कीर्तिता. ९ दुर्विवेकिराज्ये-
२३ सु. रं. भां.
१ समीचीनः खङ्ग इव २ मृगै ३ सिंहैः ४ दिग्गनै ५ सूर्य
६ सभा. ७ दरिद्र ८ कीटकसमूहैर्व्याप्तम् ९ लालयार्द्रम् १० आम-
गन्धि ११ गर्हितम्. १२ निर्भासम्. १३ इन्द्रम्. १४ क्षुद्रकत्वम्