सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 188, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 188

सामान्यनीतिः १७३

तुराणा न भयं न लज्जा । विद्यातुराणा न सुखं न निद्रा।
क्षुधातुराणा न रुचिर्न वेला ॥ ८४५ ॥ विवाहकाले ऋतु-
सप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेऽप्यनृतं
वदेयु पञ्चानृतान्याहुरपातकानि ॥ ८४६ ॥ यत्रास्ति लक्ष्मी-
र्विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मी. । उभौ च
तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसन्निपातः ॥ ८४७ ॥
द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभु स्मेरमुखस्ततः
किम् । कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता
यदि जाठरीया ॥ ८४८ ॥ सुपात्रदानाच्च भवेद्धनाढ्यो धन-
प्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी पुन-
र्धनाढ्य. पुनरेव भोगी ॥ ८४९ ॥ कुपात्रदानाच्च भवेद्दरिद्रो
दारिद्र्यदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति पुन-
र्दरिद्रः पुनरेव पापी ॥ ८५० ॥ प्रभुर्विवेकी धनवांश्च दाता
विद्वान्विरागी प्रमदा सुशीला । तुरंगम. शस्त्रनिपातधीरो
भूमण्डलस्याभरणानि पञ्च ॥ ८५१ ॥ स्वदेशजातस्य
नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजाङ्गना यद्यपि
रूपराशिरस्तथापि लोकः परदारसक्त. ॥ ८५२ ॥ गन्ध.
सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान्ध-
नाढ्यो न तु दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत्
॥ ८५३ ॥ सर्पस्य रत्ने कृपणस्य वित्ते सत्या. कुचे केसरि-
णश्च केशे । मानोन्नताना शरणागते च मृतौ भवेदन्यकर-
प्रचारः ॥ ८५४ ॥ श्रुतिर्विभिन्ना स्मृतयश्च भिन्ना नैको
मुनिर्यस्य वचोऽप्रमाणम् । धर्मस्य तत्त्वं निहितं गुहाया
महाजनो येन गतः स पन्थाः ॥ ८५५ ॥ प्रागल्भ्यहीनस्य
नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पाद-
यते शरीरे वृद्धस्य दारा इव दर्शनीयाः ॥ ८५६ ॥ राजा-
श्रयस्तस्करताश्वपण्यमाथर्वणं चापि समुद्रयानम् । एतानि
सिध्यन्ति महाफलानि विपर्यये प्राणहराणि पञ्च ॥ ८५७ ॥
स्वर्गच्युतानामिह भूमिलोके चत्वारि चिह्नानि वसन्ति देहे ।
दानप्रसङ्गो मधुरा च वाणी सुरार्चनं ब्राह्मणतर्पणं च
॥ ८५८ ॥ निरक्षरं वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा
न हेया । रत्नावतंसाः कुलटाः समीक्ष्य किमार्थनार्यः
कुलटा भवन्ति ॥ ८५९ ॥ गीर्भिर्गुरूणा परुषाक्षराभस्तिर-
स्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोल्लकषणा नृपाणा
न जातु मौलौ मणयो वसन्ति ॥ ८६० ॥ किमिष्टमन्नं खर-
सूकराणा किं रत्नहारो मृगपक्षिणा च । अन्धस्य दीपो
बधिरस्य गीतं मूर्खस्य किं शास्त्रकथाप्रसङ्गः ॥ ८६१ ॥
ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः स्त्रीविषये
निवृत्ताः । प्रतिग्रहे सकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं
समर्थाः ॥ ८६२ ॥ पतिव्रताया. कुचकुम्भयुग्ममप्युग्रशार्दूल-
नखावलिश्च । वीरस्य शस्त्रं कृपणस्य वित्तं लभ्यानि
चत्वारि तदन्तकाले ॥ ८६३ ॥ देशाटनं पण्डितमित्रता
च वाराङ्गना राजसभाप्रवेश । अनेकशास्त्रार्थवलोकनं च
चातुर्यमूलानि भवन्ति पञ्च ॥ ८६४ ॥ न वेत्ति यो यस्य
गुणप्रकर्ष स त सदा निन्दति नात्र चित्रम् । यथा किराती
करिकुम्भजाता मुक्ता परित्यज्य बिभर्ति गुञ्जाम् ॥ ८६५ ॥
गिरौ मयूरा गगने पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्मम् ।
इन्दुद्विलक्षे कुमुदस्य बन्धुर्या यस्य मित्रं नहि तस्य दूरम्
॥ ८६६ ॥ सुभाषितज्ञेन जनेन साक सभाषणं सुप्रभुसेवनं
च । आलिङ्गन तुङ्गपयोधराणा प्रत्यक्षसौख्यं त्रयमेव लोके
॥ ८६७ ॥ अर्थो नराणा पतिरङ्गनाना वर्षा नदीनामु-
तुराद तरूणाम् । स्वधर्मचारी नृपति. प्रजाना गतं गतं
यौवनमानयन्ति ॥ ८६८ ॥ जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ॥ ८६९ ॥ सम्पूर्णकुम्भो न
करोति शब्दमर्धो घटो घोषमुपैति नूनम् । विद्वान्कुलीनो
न करोति गर्वं जल्पन्ति मूढास्तु गुणैर्विहीनाः ॥ ८७० ॥
धिग्जीवितं शास्त्रकलोर्जितस्य धिग्जीवितं चोद्यमवर्जितस्य ।
धिग्जीवितं व्यर्थमनोरथस्य धिग्जीवितं ज्ञातिपराजितस्य
॥ ८७१ ॥ रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरु-
षाभिमानम् । यात्रा गुरुत्वं गुणमात्मपूजा चिन्ता बलं
हन्त्यदया च लक्ष्मीम् ॥ ८७२ ॥ शुष्केन्धने वह्निरुपैति
वृद्धिं बालेषु शोकश्चपलेषु कोपः । कान्तासु कामो निपुणेषु
वित्तं धर्मो दयावत्सु महत्सु धैर्यम् ॥ ८७३ ॥ निर्वाणदीपे
किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते
किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८७४ ॥
त्रिविक्रमोऽभूदपि वामनोऽसौ स शूकरश्चेति स वै नृसिंहः ।
नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम्
॥ ८७५ ॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोध-
मुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या दहन्त्यमी
वह्निमृते शरीरम् ॥ ८७६ ॥ अल्पीयसामेव निवासभूमि-
त्यागाद्विपत्तिर्महतां न जातु । रत्नाकरातन्मणयोऽभियान्ति
राज्ञां शिरः काकमुखानि भेकाः ॥ ८७७ ॥ अनेकशास्त्रं
बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं
तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ ८७८ ॥
अनन्तपार किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः ।
सार ततो ग्राह्यमपास्य फल्गु हंसी यथा क्षीरमिवाम्बु-
मध्यात् ॥ ८७९ ॥ क्रोधो हि शत्रुः प्रथमो नराणां देह-