सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 186, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 186

सामान्यनीतिः १७१


सुखमरो गी । उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः
॥ ७७४ ॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति
विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति
॥ ७७५ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियाम्
लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः
॥ ७७६ ॥ विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ ७७७ ॥
दुरधिगमः परंभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति
तुलामधिरूढो भास्वानपि जलदपटलानि ॥ ७७८ ॥
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ७७९ ॥
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी
भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ७८० ॥
पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्तिं व्यर्थे मनुजो हि पापभागभवति ॥ ७८१ ॥
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधु-
रापि हि मूर्च्छयते विषैविटपिसमाश्रिता वैल्ली ॥ ७८२ ॥
सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ७८३ ॥
कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् । अक्षारता
पयोधाववनिपालेषु पाण्डित्यम् ॥ ७८४ ॥ वस्तुनि
चिराभिलषिते कथमपि दैवात्प्रसक्तसंघटने । प्राक्त्रासान्यपि
बहुशो दुःखानि परं सुखानि जायन्ते ॥ ७८५ ॥ विसंस्थ-
घातदोषः स्ववधाय खलस्य वीरकोपकरः । नपतरुभङ्ग-
ध्वनिरिव हरिनिद्रातस्करः करिणः ॥ ७८६ ॥ सत्यपि
च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव । तैलेः सदो-
पयुक्तां दीपशिखां दलति बावालिः ॥ ७८७ ॥ उपचारः
कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः । उत्पन्नसौहृदानामु-
पचारः कैतवं भवति ॥ ७८८ ॥ स्नेहो हि वरमघटितो
न वरं संजातविघटितस्नेहः । हृतनयनो हि विषादी न
विषादी भवति जात्यन्धः ॥ ७८९ ॥ नलिनीदलगतजल-
वत्तरलं किं यौवनं धनं चायुः । के शशधरकरनिकरानु-
कारिणः सज्जना एव ॥ ७९० ॥ किं क्रूरं स्त्रीहृदयं किं
गृहिणः प्रियहिताय दारगुणाः । कः कामः संकल्पः किं
दुष्करसाधनं प्रज्ञा ॥ ७९१ ॥ वितरति यावद्दाता ताव-
त्सकलोऽपि भवति र्कलभाषी । विरते पयसि घनेभ्यः
शाम्यन्ति शिखण्डिनां ध्वनयः ॥ ७९२ ॥ व्यसने मित्र-


परीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये भृत्यपरीक्षा
दानपरीक्षा च दुर्भिक्षे ॥ ७९३ ॥ आलसं स्त्रीसेवा सरो-
गता जन्मभूमित्वात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता
महत्त्वस्य ॥ ७९४ ॥ अप्येकवंशजनुषोः पश्यत पूर्णत्व-
तुच्छताभाजोः । ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि
भर्ता ॥ ७९५ ॥ अन्धत्वमन्धसमये बधिरत्वं बधिरकाल
आलम्ब्य । श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः
॥ ७९६॥ नियतैः पदैर्निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ७९७ ॥
सम्यगनिष्पन्नः सन् योऽर्थस्त्वरया स्फुटीक्रियते । स व्यङ्ग्य
एव भवति प्रथमो विनतातनूज इव ॥ ७९८ ॥ अधरस्य
मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् । कवितायाः
परिपाकानुभवरसिको विजानाति ॥ ७९९ ॥ सविता विधु-
वति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामि-
नयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ ८०० ॥
निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति
पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ ८०१ ॥
राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ८०२ ॥
वाप्यो भवन्ति विमलाः स्फुरन्ति कमलानि वापीषु । कम-
लेषु पतन्त्यलयः करोति संगीतमलिषु पदम् ॥ ८०३ ॥
संनिहितेऽपि दुरापे वस्तुनि मनसोऽनवासविषयस्य ।
भवति न संशयनाशो बहुशोऽध्याश्वास्यमानस्य ॥ ८०४ ॥
स्ववशः करोति कर्म प्रमादयुक्तस्तु परवशो भवति ।
स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ८०५ ॥
भोगाक्षमस्य रक्षां ह्यन्त्रात्रेणैव कुर्वतोऽनभिमतस्य । वृद्धस्य
प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ८०६ ॥ सर्वथा
सहितमाचरणीयं किं करिष्यति जनो बहुजल्पः । विद्यते
नहि स कश्चिदुपायः सर्वलोकपरितोषकरो यः ॥ ८०७ ॥
कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम्
॥ ८०८ ॥ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणी-
यम् । रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम्
॥ ८०९ ॥ जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः
किमु पुंसाम् । ज्ञानविक्रमकलाकुलजात्यागभोगरहितं
विफलं यत् ॥ ८१० ॥ लोक एष गतलोचनत्रपः कस्य
वा न विवृणोति वाच्यताम् । लोचनोत्सवमशेषजीवनं
यत्कलङ्कयति चन्द्रमण्डलम् ॥ ८११ ॥ यः परस्य विषमं


पादटिप्पण्यः :
१ गुणोत्कर्षः. २ विषवृक्षाश्रिता. ३ लता. ४ विश्वस्तः.
५ निद्राहारी. ६ मिष्टभाषिणः.

१ स्वदेशलोभः.