सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 152, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 152

कीर्तिवर्णनम् १३७

कैरवीयति कुलं नीलोत्पलाना वने । कर्पूरीयति कज्जलं
पिककुलं लीलामरालीयति स्वे कुम्भीयति कुम्भिनामपि घटा
त्वत्कीर्तिसङ्घट्टतः ॥ ५४ ॥ पूर्णेन्दुः करकन्दुको हिमगिरिः
क्रीडाविहारस्थली क्षीराब्धिर्गृहदीर्घिका प्रियसखी वाचा पति-
र्देवता । शय्या दिग्गजराजदन्तवलभी त्वत्कीर्तिकन्याकृते
पाञ्चालीमिथुन व्यधाथि विधिना गौरीगिरीशावपि ॥ ५५ ॥
शत्रुक्षत्त्रकलत्रनेत्रसलिलैर्जम्बालजालस्पृशि भ्रान्त्वा भूपति
भालभूषण भवत्कीर्तिर्भुवो मण्डले । यद्यान्ती विबुधा-
लयं प्रति सुधाकुण्डे सुधाशोर्ध्वपादंक्षिक्षालनमित्ययं किल
मलस्तस्मिन्गत स्मेरताम् ॥ ५६ ॥ एतत्कीर्तिविवर्तधौत-
निखिलत्रैलोक्यनिर्वासितैर्विश्रान्ति. कलिता कथासु जरता
ईयौमै. समग्रैरपि । जज्ञे कीर्तिमयादहो भयमभैरत्साद-
कीर्तिः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया
बबन्ध स्थितिम् ॥ ५७ ॥ त्वत्तेजःप्रतिभाभयादप-
सुताः प्रत्यर्थिभूमृत्स्त्रियः कान्तारे घनकण्टकिद्रुम-
वनव्यस्तप्रयुक्ताम्बरा । आर्याणा पुरतस्त्रपापरवशा
गच्छेयुरेता. कथं क्षौमाकातरया न चेत्परिणमेत्तत्तावकीनं
यश ॥ ५८ ॥ चन्द्रश्चन्दनमिन्दुरिन्दुरमणं पीयूषमीशादयो
विश्वस्योपकृतावनेन महता ते तेऽवतारा धृताः । एतच्चत्र
न विद्यते त्रिभुवने न स्थानमेवविध जाने जङ्गमपारिजात
सगुण ब्रह्मैव पूर्व यशः ॥ ५९ ॥ चन्द्राद्यूक्थमण्डलो-
समुदयद्वैराशुगङ्गाजलैर्ज्योत्स्नाचन्दनचर्चनैर्विकसितैस्ताराप्र-
सूनैरपि । एतद्विष्णुपद किमञ्चति भवत्कीर्तिर्महायोगिनी
पूजामूर्तिविधायि लक्षम तुलसीदान्ना कदाऽन्विष्यति ॥ ६० ॥
गङ्गासागरसगमे कृतशतस्नाना बदर्याश्रमे स्थित्वासौ परि-
धाय तद्गुणमयं श्वेतं दुकूलं पुनः । ब्राह्मं वैष्णवमैन्द्रमैश्वर-
मपि स्थान स्पृशन्ती मुहुः कीर्तिस्ते पतिदेवता युगशत
दीर्घायुराकाङ्क्षति ॥ ६१ ॥ अर्घायम्बुधिरिन्दुमण्डलमपि
श्रीचन्दनं तण्डुलास्तारा बिल्वदल नमः सुरधुनी धूपः
प्रदीपो रवि. । खेटाः पञ्चफलानि किच ककुभस्ताम्बूलमा-
रातिकं मेरु. श्रीजगतीपते तव य॑शोयागेश्वरस्यार्चने ॥६२॥
देव क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलना
कलङ्कमलिनो धत्ते कथं चन्द्रमा. । स्यादेवं त्वदरातिसौध-
वलभीप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तत्साङ्क-
शायी मृगः ॥ ६३ ॥ भोगीन्द्र प्रमोदत्तरङ्गमुरगीसङ्गीत-
गोष्ठीषु ते कीर्ति देव शृणोतु विशतिशती यच्चक्षुषा वर्तते ।
रक्ताभि सुरसुन्दरीभिरभितो गीतं च कर्णद्वयीदु.स्थ-
श्रोष्यति नाम कि स हि सहस्राक्षो न चक्षु श्रवा ॥ ६४ ॥
गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्द्वयं तुष्टा एव
परंतु चेतसि चमत्कारोऽयमारोहति । तासा तादृशभाव-
भङ्गचलनासंस्थानसंदर्शिनि व्यालेन्द्रेऽप्यवधूतमुर्धनि मही-
चक्रं पुनर्ब्राम्यति ॥ ६५ ॥ यद्गन्धद्विपदानवारिभिरभूत्स-
ङ्ग्रामभू पङ्किला तस्या वैरिकरीन्द्रमौक्तिकमय बीजं च
येनाहितम् । तस्मात्प्रादुरभूद्यशस्तरुर्य तस्योद्गता. कोरका-
स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ६६ ॥
यत्कीर्तिर्वलय भुवः सुविमलं सप्ताद्य सञ्चारतः क्रान्त्वा मेरु-
गिरि विधाय सरितानाथस्य सख्यं दृढम् । आराध्यामृत-
भानुशेखरमलं सप्ताद्य तद्रूषूता गच्छन्ती त्रिदशालय द्रुत-
गति. शीताशुना स्पर्धते ॥ ६७ ॥ शैलूषी तव कीर्तिरङ्गु-
तकरी दृष्ट्वा समस्ता दिशो मेरु वशवर परीत्य परितस्तूर्ण
समारूढ तम । भ्राम्यन्ती परित. प्रनर्तिततनुर्मुक्तावलीमौ-
क्तिकैस्ताराभिस्तरलीकरोति गगन भूमण्डलाखण्डल ॥६८॥
त्वत्कीर्तिं शशिन. समीपमगमत्कान्तिप्रतिस्पर्धया दृष्ट्वा तं
च कलङ्किनं पुनरसौ स्नातुं जगताम्बुधिम् । श्रुत्वा तं च
घटोद्भवेन मुनिना पीतोज्झितं तत्पय. पुण्यं ब्रह्मकमण्डलु
कलपितु ब्रह्माण्डमन्य ययौ ॥ ६९ ॥ कैलासीयति
केतकीयति हसत्कुन्दीयति प्रोच्छलत्क्षीरोदीयति चन्दनी-
यति लसत्कर्पूरीयति । पीयूषीयति शर्करीयति शरच्चन्द्री-
यति क्ष्मापते स्वर्गङ्गीयति शकरीयति भवत्कीर्तिः करी-
न्द्रीयति ॥ ७० ॥ विश्वासो भवता यशस्सपि निजे कार्यो
न शौर्याधिके मा कोषादिवशान्नपुसकमिति ज्ञात्वावहेला
कृथाः । यज्ञद्वालधुरधरेण धरणीनाथ द्विधा कुर्वता
ब्रह्माण्ड विद्धेऽमुना भवदरिक्षोणीभुजा निर्गम. ॥ ७१ ॥
रिङ्गत्तुङ्गतारङ्गसुन्दरसुधासिन्धु तरत्युज्ज्वला रागाच्छर्वपुर -
सरानभिसम देवान्मुदालिङ्गति । क्रूराहीश्वरमाश्लिषत्यधि-
गृह याति ध्रुव भूपते साध्वीशब्दरता तथापि कुतुक
कीर्तिं प्रमक्ता क्षितौ ॥ ७२ ॥ कस्तूरी सितिमानमागतव-
ती शौक्ल्य गताः कुन्तला नील चोलमभूत्सित धवलिमा
जातो मणीना गणे । ध्वान्तं शान्तमभूत्सम नरपते
त्वत्कीर्तिचन्द्रोदये त्रैलोक्येऽप्यभिसारसाहसरस. शान्त.
कुरङ्गीदृशाम् ॥ ७३ ॥ स्नातु वाञ्छसि कि मुधैव धवल-
क्षीरोदपूरोदरच्छायाहारिणि वारिणि द्युसरितो दिक्पूरवि-


१ जले 'जीवनं भुवन वनं' इति कोश
२ ऐरावणमिवाचरति
३ हस्तिनाम्
४ सरस्वती
५ त्वत्कीर्तिरेव कन्या तदर्थम्
६ पुत्रिका-युगलम्
७ वैरिराज
८ कर्दम
९ अत्रायं भाव — यच्चन्द्रान्त कालुष्यमवलोक्यने तत्पदिल्भूभ्रमणेन कर्दमाङ्कितचरणाया त्वत्कीर्त्या चन्द्रासृतकुण्डे स्वमलिनपादक्षालनतो जनितमिति अन्योऽपि हि यो देवालयथं याति स जलपूर्णकुण्डे चरणौ प्रक्षाल्य याति तथेयमपीति
१० विलासे
११ निष्कासितै
१२ वृद्धानाम्
१३ श्यामवस्तुभि
१४ वस्त्रम्
१५ यशोरूपस्य यागेश्वरस्य शिवस्य
१८ सु. र. भा.