सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 150, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 150

कीर्तिवर्णनम् १३५


पीत हासक्षीर व्यक्तीकृतमश्रुनीर च ॥ ७ ॥ कुचकलशेष्व-
बलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्त-
यस्ते हारन्ति हरन्ति हीरन्ति ॥ ८ ॥ रजनीषु विमलभानोः
करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डल-
मखिलं तव कीर्तिसंततिः सततम् ॥ ९ ॥ दूरेऽपि श्रुत्वा
भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे । तयोर्वि-
वाद परिहर्तुकामः समागतोऽहं तव दर्शनाय ॥ १० ॥
आकर्ण्य भूपाल यशस्त्वदीय विधूनेयन्तीह न के शिरांसि ।
विश्वंभराभङ्गमयेन धात्रा नाकारि कर्णौ भुजंगेश्वरस्य ॥११॥
यस्याञ्जनश्यामलबद्धपट्टजातानि जाने धवलत्वमापुः ।
अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाथशसि ॥१२॥
यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशा मुखानि ।
तत्कीर्तिभिः क्षालयति स्म शश्वत्खण्डतारापतिपाण्डुरा-
भिः ॥ १३ ॥ इयं यशांसि द्विषतः सुधारुचः किमुङ्कमेतद्वि-
षतः किमाननम् । यशोभिरस्याखिललोकधाविभिर्विभूषिता
धावति तामसी मसी ॥ १४ ॥ अदः समित्सुम्लवीरयौवत-
त्रुटद्गजाकैम्बुमृणालहारिणी । द्विषद्वणस्रैणदगम्बुनिर्झरे यशो-
मरालावलीरख खेलति ॥ १५ ॥ अनिसरन्तीमपि देहगर्भा-
त्कीर्तिं परेषामसती वदन्ति । स्वैरं चरन्तीमपि च त्रिलोक्यां
त्वत्कीर्तिमाहुः कवयः सती नु ॥ १६ ॥ करवालकरालवारि-
धारा यमुना दिव्यतरङ्गिणी च कीर्तिः । तव कामद तीर्थ-
राज दूरादनुबध्नाति सरस्वती कवीनाम् ॥ १७ ॥ त्रिजग-
दञ्जनलङ्घनाजाङ्गिकैस्तव यशोभिरतीव पवित्रिताः । प्रथम-
पार्थिवपुङ्गवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥ १८ ॥
त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः संदर्शितुं विबुधवाम-
दृशः प्रवृत्ताः । नान्तो गुणेषु न च कीर्तिषु रन्ध्रलेशो हारो
न जात इति ताश्च मिथो हसन्ति ॥ १९ ॥ पृथ्वीपते
शुभ्रमते भवतो भवस्य ब्रूमो वयं सुयशसा कियदन्तरं
वा । गौरीं चकार गिरिशो निजमर्धमङ्गं गौरीकृतं च
भवता भुवनं समस्तम् ॥ २० ॥ कीर्तिस्तव क्षितिप याति
भुजङ्गगेहं मातङ्गमगमकरी च दिगन्तकेषु । त्यक्त्वैौम्बरं
भजति नन्दनमर्थ्यगम्यं किं किं करोति न निर्र्गल्रता गता
स्त्री ॥ २१ ॥ निर्मुक्तशेषधवलैरचलेन्द्रमन्थसङ्क्षुब्धदुग्धमय-
सागरगर्भगौरैः । राजन्र्भिदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्व-
लैस्तव यशोभिरशोभि विश्वम् ॥ २२ ॥ प्रतिनगरमटन्ती
प्रत्यगारं व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती । गिरि-
गरिममितम्बाच्छादने सावधाना तदपि च तव कीर्तिर्निर्म-
लैवेति चित्रम् ॥ २३ ॥ त्यजसि यदपि लक्ष्मीं कीर्तिमा-
साथ दानैर्व्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः । कथय
क इह हेतुर्नरेश त्वदीये वसति हृदयपद्मे नन्दसूनुःसु-
रारिः ॥ २४ ॥ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया
प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी । इयं नियतम-
र्थिषु प्रतिदिनं वितीर्णा रमा जहाति न त्वान्तिकं द्वितय-
मेतदद्भुतम् ॥ २५ ॥ समुन्नतघनस्तनस्तबकचुम्बितु-
म्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रुवा । त्वदीयमु-
पगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दलीकिरणपूरगौरं
यशः ॥ २६ ॥ वनेषु वनदेवता दिवि दिवौकसां वल्लभा
भुजंगकुलकन्यका भुजंगलोकलीलावने । यशः समरसंचितं
नरमगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुता-
डम्बरम् ॥ २७ ॥ अपायि मुनिना पुरा पुनरमार्थि मर्या-
दयाप्यतारि कपिना पुरा पुनरदाहि लङ्कारिणा । अमन्थि
मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव
यशोम्बुधिः काम्बुधिः ॥ २८ ॥ महाराज श्रीमञ्जगति
यशसा ते धवलिते पयःपारावारं परमपुरुषोऽयं मृगयते ।
कपर्दी कैलासं सुरपतिरपि स्वं करिवरं कलानाथं राहुः
कमलभवनो हंसमधुना ॥ २९ ॥ कुविन्दस्त्वं तावत्पटयसि
गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नम्रास्तव
विभो । शरञ्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि
त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ ३० ॥ पतत्येतत्ते-
जोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्गीकृततम-
पतङ्गापदुदयः । यशोऽमुष्यैवापार्जयितुमसमर्थेन विधिना
कथञ्चित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ ३१ ॥
इन्दोर्लक्ष्मे त्रिपुरजयिनः कण्ठमूलं सुरारिर्दिङ्नागानां मद-
जलमषीमञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक-
श्यामालिम्नानुुलिसान्याभासन्ते वद धवलितं किं यशोभिस्त्व-


पादटिप्पणी (Footnotes)

[वाम भाग]
१ कम्पयन्ति २ पृथ्वी ३ शेषस्य. ४ युवतिसमूह ५ शङ्खव-
ल्यानि ६ गुम्फितुम् ७ देवाङ्गना ८ नागलोकम्, पक्षे,-गणिका-
पतिगेहम् ९ ऐरावतादीनामष्टदिग्गजानां समागमकरी, पक्षे,-
चण्डालासङ्गमकारिणी १० दिक्पर्यन्तेषु, पक्षे,-विजनप्रदेशेषु.
११ व्योम, पक्षे,-वस्त्रम् १२ सुरालयवनम् पक्षे,-पुत्रम्. १३ गन्तुं
शक्यम्, पक्षे,-गमनानर्हम् १४ निष्प्रतिबन्धत्वम्

[दक्षिण भाग]
१ पीतं २ अगस्तिना ३ मितं ४ तीर्ण ५ हनुमता
६ मथितः ७ बद्धः ८ क्षीरसमुद्रम् ९ विष्णुः १० शिवः
११ इन्द्रः १२ ऐरावतम् १३ चन्द्रम् १४ विधिः १५ यतः सर्वेषां
समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छ्वेतकीर्त्या
श्वेतत्वात्क्षीराब्ध्यादीनामन्वगमस्तेषामतस्ते तान्सर्वत्रावलोकयन्तीति
भावः १६ तन्तुवायः, पक्षे,-कुं पृथिवीं विन्दति लभते सः १७ पटं
वस्त्रं करोषि, पक्षे,-पठं करोषि १८ तन्तुः; पक्षे,-सद्गुणः
१९ नम्राः, पक्षे,-स्तुतिपाठकाः २० कलङ्कः २१ दिग्गजजानाम्
२२ युक्तानि. २३ नीलिम्ना