सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 146, कुल 516 में से
संदर्भ में पढ़ेंरणवर्णनम्, अरिपलायनम् | १३१
निष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेला-
ञ्चिता । इयं रणधरा भवद्विरददानधाराजलैः किमु व्रण-
तलेऽर्पितं वसनपट्टमासिञ्चति ॥ १११ ॥ कृपाणकिरणानलं
रुधिरनीरपूरच्छटाजटाग्रततिसंकुलं भटतिमिङ्गिलैराकुलम् ।
प्रमथ्य समरार्णवं वरमकषि लक्ष्मीस्त्वया विधाय गदमन्थरं
मथनमन्दरं सिन्धुरम् ॥ ११२ ॥ झणज्झणितकङ्कणक्वाणि-
तकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतो शरानविरतस्फुरत्कुण्डयोर्विचित्रमभिवर्धते
भुवनभीममायोधनम् ॥ ११३ ॥ प्रतीक्ष्यन्ते वीराः प्रतिमु-
खमुरोभिः सरभसं विपक्षाणां हेतिः प्रतिनियतधैर्यानुभवतः ।
विदीर्णत्वग्भारादलितपिशितच्छिन्नधमनिप्रकाण्डस्थास्थ्नायु-
स्फुटतरविलक्ष्याग्रनिवहाः ॥ ११४ ॥ शितैर्बाणैरैके मृध-
भुवि परे तीक्ष्णनखरैः क्रियामातत्यैनाप्यहमहमिकामान्त-
मनसः । मिथो विन्ध्यन्ति स्म प्रबलतमसमर्दविदलक्षिति-
क्षोदपिधातकसुरभिवक्षस्तटभृतः ॥ ११५ ॥ भलैर्भिन्नाः
प्रतिनृपतयः शङ्खनादानुदारान्श्रुत्वा राजन्पुनरपि भुजादण्ड-
कण्डूतिभाजः । आलिङ्गन्यास्त्रिदशसुदृशो भ्रूलता वीक्ष्य
मुग्धा शापभ्रान्त्या चपलमनसो हस्तमावर्तयन्ति ॥ ११६ ॥
मुह्यद्भिर्मदवारि वारणगणैर्मेधायितं कार्मुकैरेतैः शक्रशरास-
नायितमधरूछत्रैः शिलीन्ध्रायितम् । खद्योतायितमस्त्रघट्टन-
समुद्भूतस्फुलिङ्गेः स्फुरन्नाराचैश्चपलायितं रणभुवा सैन्यै-
र्नभस्यायितम् ॥ ११७ ॥ सुयन्नयुगलैः क्षुधा समधिकस्फा-
रारुणाक्षैः क्षणात्स्वेदाम्भःपटलप्रकृतितिलकैर्दष्टाधरोष्ठैरपि ।
दृष्टेमश्मश्रुपतद्भिरमितं संकीर्णमालक्ष्यते त्वद्ग्रस्तास्त्र-
निकृत्तवैरिभटसुश्रेणीशिरोभिर्वियत् ॥ ११८ ॥ श्वेडाभिः
ककुभः पृषत्कनिकरैर्व्योम द्विधाखण्डितैर्देहैर्विद्विषतां धरातल-
मपि प्रच्छादयन्तौ चिरम् । कुर्व्वातेऽश्रुजलाविलेक्षणपथान्ये-
तावकाण्डोच्चरद्रोमाञ्चानि सवेपथून्यपि मुहुर्वर्माणि न पश्य-
ताम् ॥ ११९ ॥ आगुञ्जद्भिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वर-
ज्यानिर्घोषममन्ददुन्दुभिरवैराभासमुज्जृम्भयन् । वेल्लद्भैरव-
भूरिरुण्डनिकरैर्वीरो विधत्ते सुवस्तृप्यत्कालकरालवक्रविधस-
व्याकीर्यमाणा इव ॥ १२० ॥ नो चापाकलनं न पत्रिधरणं
न ज्यासमाकर्षणं नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते ते
रणे । किंतु प्रौढकरीन्द्रकुम्भविगलन्मुक्तागणप्रस्फुरत्प्र-
त्यर्थिक्षितिपालमौलिमणिभिर्विद्योतते भूरियम् ॥ १२१ ॥
वीराणां रुण्डतुण्डप्रविघटनपटुस्फारदोर्दण्डखण्डव्यापारक्षि-
प्यमाणप्रतिमटविकटाटोपवर्षप्ररूढः । कूटः कोऽप्येष
युद्धाजिरभुवि जरठश्वित्रकूटानुकारी लीयन्ते यत्र शत्रुप्रपतन-
विवशाः कोटिशः शूरकीटाः ॥ १२२ ॥ ग्रासप्रोतप्रवीरो-
ल्बणरुधिरपरामृष्टबुक्खाजिघत्साधावद्व्याघ्राजिराप्रतिमतनुरुह-
च्छायया वारितोष्णा । विश्राम्यन्ति क्षणार्थं प्रधनपरि-
सरेष्वेव मुक्ताभियोगा वीराः शस्त्रप्रहागव्रणभररुधिरोद्गार-
दिग्धाखिलाङ्गा ॥ १२३ ॥ जीवाकृष्टिं स चक्रे मृधभुवि
धनुषः शत्रुरासीद्गतासुर्लक्ष्यात्तिर्मार्गणानामभवदरिवले तद्यश-
स्तेन लब्धम् । मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः
प्रतिष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपतिर्नाप सख्यान्तरं स
॥ १२४ ॥ युष्मद्दोर्दण्डमण्डल्यवनमितरणचण्डकोदण्ड-
दण्डोन्मुक्तेषुच्छिन्नमूर्द्धव्यतिनुपतिभुजाखण्डमुण्डावकीर्णा ।
गायन्नृत्यत्प्रवल्गद्रजनिचरवधूदत्ततालैः करालैर्वैतालैरुद्धहास-
प्रकटितदशनैर्युद्धभूर्भाति भीमा ॥ १२५ ॥
अरिपलायनम्
सोलकानननुक्तापि सोलकाननवर्जिता । हारावरुद्ध-
कण्ठापि विहाराविरधुस्तव ॥ १ ॥ विचरन्ति विलासिन्यो यत्र
श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ॥ २ ॥
स्वकान्तदवकान्तारो यद्वैरिसुदृशामभूत् । जघनस्तनमुच्चैय
व्यलिखत्कण्टकैनखैः ॥ ३ ॥ काठिन्यं कुचयोः सृष्टं वाञ्छ-
न्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीध्वरि-
योषितः ॥ ४ ॥ वनेऽखिलकलामुक्ताः परिहृत्य निजस्त्रियः ।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ॥ ५ ॥ वीर
त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति
वनभुवि निजकररुहरुचिखैचितानि पाण्डुपत्रधिया ॥ ६ ॥
त्वद्वैरिणो वीर पलायितस्य प्रकाशयञ्चत्कमरण्यमार्गान् ।
कृशानुरासीदभिनन्दनीयस्तुङ्गेषु लग्नो रिपुमन्दिरेषु ॥ ७ ॥
राजन्द्रिपूस्ते भयविद्रुतस्य भालस्थलं कण्टकिनो वनान्ता ।
अद्यापि किं वाऽनुभविष्यतीति व्यपाटयन्ध्रुमिवाक्षराणि ॥८॥
इतश्चसद्विद्रुतवैरिभूभृत्प्रियाथ दृष्ट्वा वनमानवीजनैः । शशंस
पृष्ठाद्भूतमात्मदेशे शीतद्विषः शीतलशीलता किल ॥ ९ ॥
समस्तावनिनाथमौले भवत्तः परास्ता द्विषः पद्माविस्तारि-
नेत्रा । नितान्तं विहस्ता स्वहस्तारविन्दैर्विधत्ते पुरस्ता-
दुरस्ताडनानि ॥ १० ॥ अलसमुजलताभिर्नाहतो नागरीभि-
र्भवनदमनकानां नातिधिर्या बभूव । त्वदरिनगरमध्ये
सचरेन्नैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ॥ ११ ॥
त्वदरिनृपतिमाशावाससं धूलिधाराधवलमहह मिश्रं वीक्ष्य
भर्गभ्रमेण । सुरभिदुदधिवेलाकाननं गाहमानो दिशति कुसुम-
बाणं दूरतो निर्गमाय ॥ १२ ॥ त्वदरिनृपतिकेलीसौध-
सरूढदूर्वाङ्कुरकवलविलोले वीक्ष्य रँङ्कु सुधांशोः । उपवन-
१ वृक्षयुक्तमरण्यम्
२ अलकेन युक्तमाननं यस्या
३ पद्मा गतिर्यस्या
४ व्याप्तानि.
५ वायुः
६ मृगम्