सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 136, कुल 516 में से
संदर्भ में पढ़ेंविविधराजप्रशंसा | १२१
न्तिकथा तुरगमकथा कोदण्डदीक्षाकथा । एकैवास्ति परं
पलायनकथा त्वद्वैरिभूमीभुजा देव श्रीरघुनाथ नाथ जगति
त्वमेऽपि नान्या कथा ॥ १५१ ॥ त्वं चेत्कल्पतरुर्वयं सुम-
नसस्त्वं चेत्सुधात्मा कलाः संपूर्णा वयमीश्वरो यदि भवान्
स्वच्छा विभूतिर्वयम् । संपूर्णः कमलाकरो यदि भवान्
श्रीराजहंसा वय स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं कि
न तेऽङ्ग वयम् ॥ १५२ ॥ बालकीडनमिन्दुशेखरधनुर्भ-
ङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवमरुत्या-
र्पथे । आज्ञा वारिधिबन्धनोवधि यशो लङ्केशेनाशावधि
श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षायधि ॥ १५३ ॥
त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः
प्रतिभूस्तदर्थनकृते सैषा दिव धावति । सा लीना तत्र
वाचि रामनृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुका-
वृततनुर्नक्तं समुत्सर्पति ॥ १५४ ॥ अञ्चामास तृण प्रिया-
दुहि तृणामास स्मरारेर्धनुर्द्वारामास सुनेः शिलापि नृव-
रामाम स्वयं पादुका । कुल्यामास महार्णवोऽपि कपयो
योधावभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानु-
षामास्थिता. ॥ १५५ ॥ उसा कीर्तिलता गुणैस्तव विभो
सिक्ता च दानोदकैर्मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता
नभोमण्डलम् । धूपैस्त्वत्प्रतिपक्षलक्ष्मवनितानिःश्वासजैर्धू-
पिता वृक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र
प्रभो ॥ १५६ ॥ यद्वीजानि च मौक्तिकानि करिणा दन्ता
यदीयाङ्कुरा यत्पत्राणि शरद्धना हिमगिरिर्यस्याः प्रकाण्डो
महान् । यत्पुष्पाणि च तारका हिमरुचिर्यस्याः फल सुन्दर
सेय राजति रामकीर्तिलतिका ब्रह्माण्डभाण्डो-
दरे ॥ १५७ ॥ नो ग्लानि भजते दिने न च सुराधीशै
समापीयते नो राहुग्रसते न वा मृगदृशा वक्त्रैः पराजीयते ।
नो मेघैश्च पिधीयते न च कुहूकालेऽपि सक्षीयते श्रीराम-
क्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा ॥ १५८ ॥
आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिणं पुण्ये कर्मणि
भोजने च भवत. प्रागल्भ्यमस्मिन्न किम् । वामान्यः
पुनरब्रवीन्न मम भी पृच्छाम्यहं स्वामिनं छित्त्वा रावणवक्त्र-
पङ्क्तिमथवेत्येकैकमादिश्यताम् ॥ १५९ ॥ अम्भः कई-
मतामुपैति सहसा पङ्गः पुनः पांसुता रेणुर्वारणकर्णतालयु-
गलैर्दिकप्रान्तनीहारताम् । निर्मग्नं गिरेयः समं विषमता
शून्यं जैनाकीर्णता निर्याते त्वयि रामचन्द्रनृपते त्यक्त-
स्वरूपं जगत् ॥ १६० ॥ पाताले मैंञ्जु मूलं फणिपतिरमितः
कीर्तिवल्लेस्त्वैषा स्थूणा कैलासशैलो गगनमिह महाम-
ण्डपः पाण्डुदण्डाः । दन्तीन्द्रस्थूलदन्ता दैैैलततिरतुला
शारदाभ्राणि सारास्ताराः पुष्पाणि चन्द्रः फलमिदममलं
रामराजेन्द्र मन्ये ॥ १६१ ॥ कूर्म पादोऽस्य यैष्टिर्भुजग-
पतिरसौ भाँजनं भूतधात्री तैलापूरः समुद्राः कनकगिरि-
रयं वृत्तैवर्तिप्ररोहः । ज्योतिष्ण्णडांशुरीचिर्र्गगनमलिनिमा
कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्र-
तापप्रदीपः ॥ १६२ ॥ शक्तिः सर्वतिरिक्ता विलसति न
च ते पीलुपाकप्रियत्वं वाक्यं धर्मे प्रमाणं स्वयमपि चरितं
नान्य ईशोऽस्ति कश्चित् । नो वार्य भेद आस्ते क्वचिदपि
विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्गहसि रघुपते गौत-
माद्यैरतर्क्यम् ॥ १६३ ॥ पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणे-
ऽप्यस्ति तेऽल्पप्रयलो यः कश्चिन्नैव लोप भजति बहुतरा-
पेक्षिणोऽप्यन्तरङ्गाः । नो वा बाध परेण क्वचिदपि विषये
नापवादो गुणाना वृद्धीना वर्णमात्रं सदनमिति नवो राम-
साधुत्वमार्ग ॥ १६४ ॥ प्रौढि धंत्ता कलासु प्रयैयतु
कुमुदे सत्पथे ॰संचरेद्वा नेत्रा्रनन्दं विंधेत्तौ भैवैतु च विबुधा-
नैर्स्तु राजा तथापि । दोषैन्वेषी कँलकी सँहँजजडतनुः
सँक्षयः पक्षपाती नैैक्षत्रेर्शः कथं वा कलयतु तुलना राम-
चन्द्रेण चन्द्रः ॥ १६५ ॥ मायद्वैतैैण्डगण्डच्युतमद-
मदिरासचर्र्चैञ्चरीकीझाकारानन्दगीता' कविभवनभुवस्ता'
पुरस्ताद्भवन्ति । पश्चाद्भ्वन्ति येषामुपरि करुणया राम-
१ यतोऽम्भसो द्रवत्वेऽपि भवदीयाश्वाथूत्यापितरज संपर्कात्तस्य कर्दमता जातेति भाव
२ घोटकखुरक्षुण्णा सन्त
३ त्वत्सेवया वने प्रवेशादरण्यमपि जनपदवद्भवति.
४ मनोहरम्.
१६ सु. र. भां.
१ स्तम्भ
२ श्वेतयष्टिका
३ पर्णसतति
४ अवष्टम्भहेतु'
५ दीपद्ण्ड
६ दीपाधारपात्रम्
७ मध्यवर्तित्वादङ्गुल्दशाङ्कुर
८ चन्द्रपक्षे,-तथा कलास्वशेषु प्रौढि प्रागल्भ्य धत्ता विभर्तु, रामपक्षे,-यथा कलासु विज्ञानेषु प्रौढि धत्ते
९ चन्द्रपक्षे,-तथा कुमुद प्रकाशं प्रययतु विस्तारयतु, रामपक्षे,-यथा को पृथिव्या मुद हर्ष जनयति
१० चन्द्रपक्षे,-तथा सता देवाना पन्था सत्पथ आकाशस्तस्मिन्संचरेत्, रामपक्षे,-यथा सत्पथे सता योग्ये मार्गे संचरति
११ चन्द्रपक्षे,-तथा नेत्राणा लोचनानामा्रनन्दं विधत्ता कुरुताम्, रामपक्षे,-यथा नेतॄणा रक्षकाणा्रमानन्द जनयति
१२ चन्द्रपक्षे,-तथा विबुधान्देवानवतु रक्षतु, रामपक्षे,-यथा विबुधान्पण्डितानवति
१३ चन्द्रपक्षे,-तथा च राजा शोभितोऽस्तु, रामपक्षे,-तथा नाज्ञा क्रियया गुणैश्च राजा
१४ चन्द्रपक्षे,-दोषा रात्रिस्तामन्वेषते तच्छील, रामपक्षे,-न दोषमन्वेषते कितु गुणान्
१५ चन्द्रपक्षे,-कलङ्कवान्, रामपक्षे,-कलङ्की न
१६ चन्द्रपक्षे,-सहजतो जलमयी तनुर्यस्य स रामपक्षे,-निसर्गतो मूढस्वभावो न
१७ चन्द्रपक्षे,-कृष्णपक्ष एकैककलाक्षयात्सक्षय ; रामपक्षे,-न कदाचन तस्य क्षय, किंतु सर्वदा वृद्विरेव
१८ चन्द्रपक्षे,-पक्षेऽतीतेऽमाया पतनशील , रामपक्षे,-पक्षपाती न
१९ चन्द्रपक्षे,-नक्षत्राणा तारकाणामीशः स्वामी; रामपक्षे,-न च नक्षत्रेर्श ; कितु सर्वेषा क्षत्राणामीशः;
२० इस्ती.
२१ भ्रमरी.