सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 134, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 134

॥ विशिष्टराजप्रशंसा ॥ १११


पालप्रतिलसदपकीर्तिश्या मले विश्वजाले । भगवति भज-
माने कृष्णता शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न
विद्मः ॥ १२२ ॥ अघाक्षीन्नो लङ्कामयमसुदुन्वन्तमतर-
द्विशल्यं सौमित्रेरयमपनिनायौषधिवनम् । इति स्मारं स्मारं
त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो
राक्षसगणः ॥ १२३ ॥ यदि क्षुण्णं पूर्वैरिति जहति रामस्य
चरितं गुणैरेतावद्भिज्जगति पुनरन्यो जयति कः । स्वमा-
त्मानं तत्तद्गुणरणिगमग्मीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुप-
करिष्यन्ति कवयः ॥ १२४ ॥ जगति जगतीमाग-
च्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः
समजायत । अथ कथमसौ सुस्वेदेन न चेदवगाहते रघु-
पतिगुणग्रामश्लाघासुधामयदीर्घिकाम् ॥ १२५ ॥ लज्जा
कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया
मेजिरे रामचन्द्रम् । अन्त्या पाणिग्रहणसमये ज्यायसी
जातकोपा भूपैः सार्धं खलु गतवती मध्यमाऽथो दिग-
न्तान् ॥ १२६ ॥ गेहे गेहे सुभग भवतो रामभद्र
क्षितीश त्वामालिख्य खमपि सविधे सस्पृहं भावयन्त्यः ।
तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्वं चाप तव
करतले वेपमाना लिखन्ति ॥ १२७ ॥ अहो रघुशिरोमणे-
रभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्रयम् ।
सुराधिपतिरम्बुदान्कमलमन्दिरा सेवते हिमांशुरपि चन्द्रमाः
सततमम्बुधौ मज्जति ॥ १२८ ॥ कीर्तिः श्रीरघुवंशरत्न भवतः
स्वर्वाहिनीगाहिनी दिक्पालानखिलानिरीत्य दधती पाण्योः
प्रतापानलम् । सप्ताम्भानिधिमण्डलान्यधिगता त्वय्येकपत्नी-
व्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षा-
ण्यपि ॥ १२९ ॥ कीर्तो व्यासिववेत्य वैरिवनिताबाष्पो-
दधेः साधनाडुत्तुङ्गे पृथिवीसुजा परिवृढे शश्वद्वि-
पक्षे स्थितम् । सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र
प्रभो चित्रं पश्य तेव प्रतापदहनं जानन्ति सत्ता-
र्किकाः ॥ १३० ॥ श्रीराम त्वदनेकचित्रचरितप्रोद्दामकी-
र्तिश्रुतिप्रागल्भ्याद्वैधूतमुर्ध्नि सकलत्रैलोक्यलोकेऽपि यत् ।
अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहित्वामिना व्याधूते
शिरसि क्क भूः क गिरयः कामी दिशामीश्वराः ॥ १३१ ॥
श्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता
ब्रह्माण्डोदरगमवशात्तया तत्र गर्मिण्यभूत् । पश्य स्वर्ग-
तरङ्गिणीपरिसरे कैन्दावदातं तया मुक्त भाति विशाल-
मण्डकमिदं शीतद्युतेर्मण्डलम् ॥ १३२ ॥ ये मजन्ति
निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे बाधौं वीर तरन्ति
वानरभटांस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधि-
गुणा नो वानराणा गुणाः श्रीमद्दाशरथे प्रतापमहिमा
सोऽय समुज्जृम्भते ॥ १३३ ॥ कीर्तिः श्रीरघुवंशदीप
भवतो दूती मुरारेः प्रियां यत्सान्त्व्यमदात्तदादि गिरिशो-
ऽमूर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं
दधौ स्कन्दो मन्दमतिश्चकार न करस्पर्शं स्त्रियाः शङ्कितः
॥ १३४ ॥ एकं काञ्चनभूधरं सुवलयं वासः सुधैावारिधिं
तारं तॉरॅकरालमण्डलमिरं संप्राप्य सत्कुण्डलम् । देरै-
स्थापि च तेन तेन सदृशं त्वा भूषणं चापरं स्त्री मँर्न-
ग्रहिलेव यैाँचतितरा श्रीराम कीर्तिस्तव ॥ १३५ ॥ संग्रामे
दिवैर्सायते तव भुजः पूर्वाचलेन्द्रायते त्वत्कोधो ऽप्यरुणा-
यते तव लसच्छौर्यं प्रैकोशायते । त्वद्वैरी तिमिर्रायते तद-


१ स्वसतीत्वव्रतस्थापनार्थ दिव्यकरण युक्तमेव अत्राय भाव -या
हि स्त्री दिव्यं कर्तुमिच्छति सा पूर्वं गङ्गा गाहते, अपर देवताः प्रद-
क्षिणीकृत्य पाण्योरनलं दधती सप्तमण्डलान्यतिक्रामति, ततो विष्णुपद
स्पृशति; तथा सर्प कर्षति, तद्वदिय त्वत्कीर्तिरपि जलाभिरास्पद विष्णू
पदसर्पस्पर्शनारूयानि पञ्च दिव्यानि स्वसतीत्वनिर्वाहाय विधत्त इति.
२ उत्कटा. ३ कम्पितः. ४ शेषशिरोवधूतन्वे भूमेः पात एव स्यात्तत-
स्तेषा गिर्यादिवस्तूना क्वावस्थान भवेत्ततस्तेषा भूम्याश्रितत्वात्तस्याश्च
शेषाश्रितत्वादित्यर्थं

१ इस २ तीरे ३ कुन्दवदुज्ज्वलम् ४ लक्ष्मीम् ५ तदाप्रभृति.
६ महेश्वरेणेत्थ तर्कितम्-यदद्यसुमा स्वपार्श्वे न स्थापयिष्यामि तदैवं
कीर्तिदूती लक्ष्मीमवापह्नत्य मम कामिनी गौरीमपि रामाय प्रदास्यतीति
धिया स्वाङ्ग एव गौरी स्थापिता तत्प्रभृत्यर्धनारीश्वरो हर इति
ख्याति. ७ ब्रह्मणा स्वपत्नीरक्षणार्थ चतसृष्वपि दिक्षु मुखानि
निर्मितानीति भाव ८ यतो बहूनि चक्षूषि मम चेद्भविष्यन्ति तदा
स्वाप्सरसः प्रलोभ्यापहर्तुमागच्छन्ती कीर्तिदूतीमवलोकयिष्यामीति
भाव ९ मन्दा विवाहैलसा मतिर्यस्य स १० यतश्चेद्ह कृच्छ्रेण
प्राक्स्त्रिय परिणेष्यामि तथापि तदपहरणे मम तस्या वियोग एव भावी,
ततः किमनेन परिणयनारम्भेणेति विचारादिति भाव. ११ ममैकः
काञ्चनगिरिर्दक्षिणे करे कटकोऽस्ति, वामे तु न किमपीत्येकनेत्राञ्जनवन्नै
शोभेते पाणी, अतोऽपर तादृश वलयाख्य भूषणं मह्यं देहीति प्रार्थयते
१२ यतो न ह्येक वास उपर्यधश्चाने परिधातु शक्यते १३ उज्ज्वलम्
१४ इदमेक तारकाणां राजा चन्द्रस्तस्य मण्डलं सत्कुण्डलमेक-
स्मिन्कर्णे संप्राप्य तत्सममपरकुण्डल द्वितीयकर्णार्थं याचति १५ दि-
कृपर्यन्त प्राप्तापि १६ स्त्रिया यो मान • खपतिसौभाग्यसुरुपत्वा-
दिगर्वस्तेन ग्रहीला ग्रहमृहीता. १७ अन्यापि या मानिनी मानग्रह-
गृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णु तत्तद्वस्तु याचते
यद्भूखण्डलेऽपि नाप्यते तथैय कीर्तिरप्यपर भूषण याचत इत्यर्थं .
१८ यथा दिवसे सूर्य प्रभाप्रगल्भतामुपैति तथा त्वत्खड्गभानुरपि
संग्रामे स्वस्पष्टता प्रकटयतीत्यर्थं १९ यथा भानुरुदयाचले भासते
तथा चासौ त्वद्भूजे-भासत इत्यर्थं २० यथारुणो रक्तवर्णोऽग्रे प्रादु-
र्भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थं २१ यथा
सूर्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खड्गभानोरुदये तव शौर्य
स्पष्टमुदेतीत्यर्थं २२ यथा सूर्योदये तमांसि नाशमायान्ति तथा
त्वत्खङ्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थं.