सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 123, कुल 516 में से
संदर्भ में पढ़ें| १०८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
[वाम-भागः]
मेतदधुना त्वद्दानमदैनयोर्मध्ये क नु विजेष्यतीति विषये
दोलायते मे मनः ॥ १९१ ॥ यः पृष्ठं युधि दर्शयत्यरि-
भटश्रेणीषु यो वक्रतां स्वां प्रत्यैव बिभर्ति यश्च किरति
क्रूरध्वनिं निष्ठुरम् । दोषं तस्य तथाविधस्य भजतश्चापस्य
गृह्णन्गुणं विख्यातः स्फुटमेक एव हि भवान् सीमा गुण-
ग्राहिणाम् ॥ १९२ ॥ देव त्वं जय यस्य राजति महाराष्ट्रीकु-
चोच्चं कुलं लाटीबाष्पृदु नर्म चेदिवनितानाम्भीगभीरं मनः।
आभीरीकटिविस्तृता मतिरसिर्गोडीकचश्यामला कर्णाटीरति-
निष्ठुरो रणरसः कीरीमुखाभं यशः ॥ १९३ ॥ ते कौपीन-
धनास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति
वाजिनिवहास्तैरेव लब्धा $^{४}$क्षितिः । तैरेतत्सैमलं$^{५}$कृतं निज-
कुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन
तुष्टेन वा ॥ १९४ ॥ साशङ्कस्य समाकुलीकृतमतेरत्यन्त-
निस्तेजसरिच्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्दृशम् ।
लज्जां सत्यजतः क्रमं विमृशतो विन्नान्बहून्पश्यतः क्लेशो
योऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १९५ ॥
नो कामः प्रतिहन्यते प्रणयिषु स्वेमेऽपि नाथ त्वया नैवाधः-
कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः । नो बह्वक्षस्तव
मूर्तयो न च तनुर्हित्यं जडानुग्रहव्यग्रा नो विषमा च
दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १९६ ॥ $^{६}$संग्रामाङ्गण-
संगतेन भवता चापे समारोपिते देवाकर्णय येन येन
सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्ते-
नापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च
लोकत्रयम् ॥ १९७ ॥ हारानाहर देव चन्द्रधवलान्रो-
चेतयोश्चेस्तटीं संप्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिरुत्क्षो-
भितम् । सिन्दूरारुणमम्बु मेघपटलीपीतोञ्झितं शुक्तिषु
खल्यैरेव दिनैः करिष्यसि महीमाताग्रमुक्ताफलम्॥१९८॥
कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां विद्युद्दाम
जगाम तावकमर्तिं गर्जिर्भवद्दुन्दुभिम् । वृष्टिस्त्वत्परिपन्थि-
पार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभि-
त्कोदण्डकान्तिः श्रिता ॥ १९९ ॥ नालिङ्गन्ति कुचद्वयं
भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीतिं
तवासिभ्रमात् । भ्रूभङ्गान्नभवदीयदुर्वधरनुर्ग्रान्त्या भजन्ते न
ते वैरिक्षोणिभुजो निजाम्बुजदृशा भूमण्डलाखण्डल ॥२००॥
[दक्षिण-भागः]
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सख्यया$^{१}$ प्रेक्ष-
चक्षुर्वेक्ष्यमाणबधिरश्राव्याः$^{२}$ किलाकीर्तयः । गीयन्ते स्वरम-
ष्टमं कलयता$^{३}$ जातेन वन्ध्योदरान्मूकानां प्रकरेण$^{४}$ कूर्भर-
मणीदुग्धोदधे$^{५}$ रोधसि ॥ २०१ ॥ द्वारं खङ्गिभिरानृतं बहि-
रपि प्रस्विन्नगण्डैर्गजैरन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्या-
सिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां
मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्य-
स्थितिः ॥ २०२ ॥ शौर्यं केसरिणा परोपकरणं कल्पद्रुमे-
णार्पितं लावण्यं मकरध्वजेन च शरच्चन्द्रेण शुभ्रं यशः ।
धैर्यं ते कमठाधिपेन विपुलं गाम्भीर्यमम्भोधिना सौभाग्यं
तु तवैव केवलमिदं तत्केन नो विद्महे ॥ २०३ ॥
कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपे-
णैव महीपते तव धनुःपाण्डित्यमन्यादृशम् । त्वं यस्मिन्वि-
शिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं नुञ्चत्कञ्चुकमुद्गत-
स्पृहदहो धावन्ति देवाङ्गनाः ॥ २०४ ॥ सर्वे लुण्ठित-
मुद्धटैस्तव भटैस्तेन द्विषत्सुभ्रुवक्ष्णाय त्वयि योजि-
ताञ्जलिपुटं काकूक्तिमातन्वते । त्राणं दूरत एव तिष्ठतु
मनस्तासां त्वया लुण्ठितं तद्गम्भीरं वदामि कुप्यसि न
चेत्साधोरयं कः क्रमः ॥ २०५ ॥ कोदण्डस्तव हस्तगो
हृदि वलत्यर्तिस्तव द्विषिणां त्वं दाता रभसेन मार्गणगण-
स्तानेव संसेवते । देव त्वं तु जयस्रमित्रमनिशं ते यान्ति
वैकुण्ठतां सम्ग्रामे तव भूपते महदिदं चित्रं समालोक्यते
॥ २०६ ॥ मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्धटा-
चार्यः श्रीजगतीपतिः कमलदृक्कैर्नाम नो गीयते । शय्यायां
च रणाङ्गणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च
विरोधिनश्च शतशो येनामुना खण्डिताः ॥ २०७ ॥ दोर्दण्ड-
द्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुगध्वस्तोद्दण्डविपक्षमण्डल-
मथ त्वा वीक्ष्य मध्यैरणम् । वलगद्भाण्डिवमुक्तकाण्ड-
वलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न
क्षितीशः स्मरेत् ॥ २०८ ॥ को दण्डं न ददाति देव भवते
कोदण्डमातन्वते को नारातिरुपेति पारमुदधेः कोणारुणे
लोचने । का कुक्षान्तरमेत्य वैरतरुणी काकुं न वा भाषते
राजन्नार्जित वारणे तव पुरः को वा रणे वर्तताम् ॥२०९॥
दृष्ट्वा मण्डलमध्यलग्नमधुलिड्डेतण्डलक्षस्फुरत्तत्कोदण्डल्सह-
तेषु लहरीः को न क्षमाखण्डले । खारात्ताण्डवभागकाण्ड-
वनमुग्धाराज्वलत्खण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्ड-
[पाद-टिप्पण्यः / Footnotes]
[वाम-पादटिप्पणी]
१ कौपीनमेव धनं येषाम्, पक्षे, -कौ पृथिव्यां पीनधनाः पुष्ट-
धना २ आमलकीफलम्, पक्षे,-पृथ्वीफलम्, राज्यमित्यर्थः ३ न
दन्ति पदच्छेदः गजाश्वसमूहाः; पक्षे,-वाजिनिवहा अश्वसमूहा
नदन्ति हेषितं कुर्वन्तीत्यर्थः . ४ क्षयं, पक्षे,-भूमिः ५ समलं
सदोषं कृतम्; पक्षे,-सम्यगलंकृतम्. ६ युद्धभूमिम्. ७ धनुषि
८ सज्जीकृते.
[दक्षिण-पादटिप्पणी]
१ परार्थसंख्यामतिक्रान्तया. २ अन्ध.. अस्य राज्ञोऽकीर्तिरेव
नास्तीति भावः ३ स्वीकुर्वता. ४ समूहेन. ५ तीरे ६ खड्गधारिभिः,
पक्षे,-गण्डकैः ७ द्वारपालैः, पक्षे,-सर्पै.. ८ पट्टाभिषिक्तस्त्रीभिः,
पक्षे,-महिषीस्त्रीभिः..