श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)
Sri Bhashya of Bhagavad Ramanujacharya with Commentary
भगवद् रामानुजाचार्य (सम्पादक: स्वामी वासुदेवाचार्य) द्वारा
पृष्ठ 181, कुल 696 में से
संदर्भ में पढ़ेंभूतसर्गः इच्छगृहीताभि मतोरुदेहस्संसाधिताशेष जगद्धितोऽसौ”-
तेजोबलैश्वर्यं महाबबोध सुवीर्यशक्त्यादिगुणैकराशिः परः पराणां
सकलानयत्र क्लेशादयस्संति परावरेशे”-“स ईश्वरो व्यक्तिसमष्टि-
रूपोऽव्यक्तरूपः प्रकट स्वरूपः सर्वेश्वरस्सर्वदृक्सर्ववेत्ता समस्त शक्तिः
परमेश्वराख्यः”-“संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मल मेकरूपम्,
संदृश्यते वाप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्”-शुद्धे महा-
विभूत्याख्ये परे ब्रह्मणि शब्द्यते मैत्रेय भगवच्छन्द सर्वकारण
कारणे”-“संभर्तेति तथा भर्त्ता भकारोऽर्थ द्वयान्वितः नेतागमयिता
स्रष्टा गकारार्थः तथासुने”-“ऐश्वर्यस्य समग्रस्य वीर्यस्ययशसश्रियः
ज्ञानवैराग्ययोश्चैव षष्णां भग इतीरणा”--“वसंति तत्र भूतानि
भूतात्मन्यखिलात्मनि, सच भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः”-
“ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः, भगवच्छब्दवाच्यानिविना हे
यैर्गुणादिभिः”--“एवमेव महाशब्दो मैत्रेय भगवानिति, परंब्रह्म
भूतस्य वासुदेवस्य नान्यगः”-“तत्रपूज्यपदार्थोक्ति परिभाषा समन्वितः,
शब्दोऽयंनोपचारेणअन्यत्र ह्युपचारतः”--समस्तशक्तयश्चैतानृप यत्र
प्रतिष्ठिताः तद्विश्वरूपवैरूप्यंरूपमन्यद्धरेर्महत्” समस्त शक्ति
रूपाणि तत्करोतिजनेश्वर देवतिर्यङ् मनुष्याख्याचेष्टावंतिस्वलीलया
जगतामुपकाराय न सा कर्मनिमित्तजा चेष्टातास्याप्रमेयस्य व्यापिन्य
व्याहतात्मिका”--एवं प्रकारममलं नित्यं व्यापकमक्षयं समस्त
हेयरहितं विष्ण्वाख्यं परमं पदम्” परः पराणां परमः परमाऽत्मात्म-
संस्थितः रूपवर्णादिनिर्देश विशेषेण विवर्जितः”-- अपक्षय विनाशा-
भ्यां परिणामद्विजन्मभिः । वर्जितश्शक्यतेवक्तुं यस्सदाऽस्तीतिकेवलम्
— सर्वत्राऽसौ समस्तं च वसत्यत्रेति वैयतः ततस्सवासुदेवेति वि-
द्वद्भिः परिपठ्यते”-- तद् ब्रह्म परमं नित्यमजमक्षरमव्ययम् एक
स्वरूपं च सदा हेयाभावाच्च निर्मलं”--तदेव सर्वमेवैतद्व्यक्ता-