स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)
Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary
आचार्य वसुगुप्त / क्षेमराज द्वारा
पृष्ठ 134, कुल 519 में से
संदर्भ में पढ़ेंप्रथमः निष्यन्दः ३३
'कुलसारमजानन्तो हृद्द्रये विपतन्ति ये ।
स्वचित्तोत्थविकल्पान्धा निरये निपतन्ति ते ॥
तथा—येन येन निबध्यन्ते जन्तवो रौद्रकर्मणा ।
सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥
'शक्तिचक्र'— आगम प्रसिद्ध देवों के रागद्वेष विकल्पादि प्रत्यय ग्राम एवं
देहाश्रित तत्तद्देवता परमार्थ नाना धातुवादि गण ।
'विभव'— उपनिषदों में वर्णित सिद्धिज प्रभाव विशेष ॥
(५) 'भूचरी'— भूः रूपादिपञ्चात्मकं मेयपदं, तत्र चरन्ति तदाभोगमय्य आश्या-
नीभावेन तन्मताम् आपन्ना भूचर्यः, इतरेषां सर्वतो व्यवच्छेदकतां दर्शयन्त्यः ।
इत्येवं वामेश्वरी शक्त्या प्रसारितानि आन्तराणि अपर-परापर-पर प्रथा हेतुत्वात्
अघोर-घोर-घोरतर नाम निरुक्तानि चत्वारि खेचरी-गोचरी-भूचरी दिक्चरी चक्राणि तथा-
विध वीरव्रातसहितानि तानि । यथोक्तं श्रीपूर्वशास्त्रे—
विषयेष्वेव संलीनानधोधः पातयन्त्यणून ।
रुद्राणून्द्याः समालिंग्य घोरतर्येऽपराः स्मृताः ॥
मिश्रकर्मकलासक्तिं पूर्ववज्जनयन्ति याः ।
मुक्तिमार्ग निरोधिन्यस्ताः स्युर्घोराः परापराः ॥
पूर्ववज्जन्तुजातस्य शिवधामफलप्रदः ।
पराः प्रकथितास्तज्जैरघोराः शिवशक्तयः ॥
एतद् वामेश्वरी अधिष्ठितान्ति एव— खेचरी, भूचरी, गोचरी, दिक्चरी चक्राणि ।
(क) तत्र— आकाशे चरन्त्योऽशरीराः खेचर्यः, यदिच्छामात्राधिष्ठित मिथुनं
संप्रयोगजः प्रबुद्धशुद्धविद्योदयो योगिनीगर्भोद्भूतो भवति । यथोक्तं श्रीतन्त्रालोके—
अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः ।
अनन्तदेहाः क्रीडन्यस्तैस्तैर्देहेरशंकितैः ।
प्रबोधित तदिच्छाके तज्जं कौलं प्रकाशते ॥
(ख) 'गोचरी'— गोचर्यस्तु गोशब्दवाच्य पशुहृदयसाराहरणरताः तेनैव क्रमेण
स्वात्मनः पशूनां च तत्तत्सिद्धिसाधनप्रवण एकजन्मनः प्रभृति सप्तजन्मानमपि पशु-
माहरन्त्यः ॥
'शक्तिचक्र' की निम्नांकित रूप से भी व्याख्या की गई है—'शक्तिचक्र' =
'स्वतन्त्राद्वय निजमहाप्रकाशानुप्रवेशकारि स्वमरीचिनिचय' (स्पन्द प्र०) ।
'विभव'—'स्वामोदजृंभात्मकविभव' (स्पन्द प्र०)
'शक्तिचक्रे'—खेचरी, गोचरी, दिक्चरी, भूचर्यादि बाह्यान्तरताभेदभिन्न योगिनियों
का समूह एवं तदुपलक्षित वीरव्रात । 'विभव'—उनका विभव । अर्थात् 'अतीतानागत-
स्पं० ३