सामग्री पर जाएँ
सर्वकोश
स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary

आचार्य वसुगुप्त / क्षेमराज द्वारा

DevanagariHindipublished519 पृष्ठ

पृष्ठ 105, कुल 519 में से

संदर्भ में पढ़ें
पृष्ठ 105

४ स्पन्दकारिका
२९. तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः ॥
३०. दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ॥
३१. दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।
३२. न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पन्दम् ॥
३३. न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च ॥
३४. न हीच्छादनोदनस्यायं प्रेरकत्वेन वर्तते ॥
३५. नाभावो भाव्यतामेति न च तत्रास्त्यमूढता ॥
३६. निजाशुद्ध्यासामर्थ्यस्य कर्तव्येष्वभिलाषिणः ॥
३७. परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ॥
३८. प्रबुद्धः सर्वदा तिष्ठेत् ज्ञानेनालोच्य गोचरम् ॥
३९. भुंक्ते परवशो भोगं तद्भावात्संसरत्यतः ॥
४०. यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् ॥
४१. यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् ॥
४२. यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि ॥
४३. यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् ॥
४४. यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ ॥
४५. यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ॥
४६. यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ॥
४७. यामवस्थां समालम्ब्य यदयं मम वक्ष्यति ॥
४८. लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् ॥
४९. शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ॥
५०. स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ॥
५१. सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ॥
५२. ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ॥