स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)
Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary
आचार्य वसुगुप्त / क्षेमराज द्वारा
पृष्ठ 104, कुल 519 में से
संदर्भ में पढ़ें[२] सूत्रों की अनुक्रमणिका
संख्या सूत्रार्थ
१. अगाधसंशयाम्भोधि समुत्तरणतारिणीम् ॥
२. अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा ॥
३. अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ॥
४. अतो बिन्दुरतो नादोरूपमस्मादतो रसः ॥
५. अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ॥
६. अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः ॥
७. अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ॥
८. अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः ॥
९. अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ॥
१०. अवस्थायुगलञ्चात्र कार्यकर्तृत्वशब्दितम् ॥
११. अहं सुखी च दुःखी च रक्तश्चेत्यादि संविदः ॥
१२. इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ॥
१३. इयमेवाप्राप्तिरयमेवात्मनो ग्रहः ।
१४. एक चिन्ता प्रसक्तस्य यतः स्यादपरोदयः ॥
१५. कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते ॥
१६. गुणादिस्पन्दनिष्यन्दाः सामान्यस्पन्द संश्रयात् ॥
१७. ग्लानिर्विलुम्पिका देहे तस्याश्चाज्ञानतः सृतिः ॥
१८. जाग्रदादि विभेदे तदभिन्ने प्रसर्पति ।
१९. तत्रैव संप्रलीयन्ते शान्तरूपा निरंजनाः ॥
२०. तथा यत्परमार्थेन यदा यत्र यथास्थितम् ॥
२१. तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् ॥
२२. तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥
२३. तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे ॥
२४. तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः ।
२५. तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना ॥
२६. तमधिष्ठातृभावेन स्वभावमवलोकयन् ॥
२७. तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी ॥
२८. तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि ॥