शिवज्ञानबोध (मेय्कण्डार - शैव सिद्धान्त का आधारभूत दार्शनिक सूत्र ग्रन्थ)

शिवज्ञानबोध (मेय्कण्डार - शैव सिद्धान्त का आधारभूत दार्शनिक सूत्र ग्रन्थ)
Sivajnanabodham of Meykandar (Shaiva Siddhanta)
आचार्य मेय्कण्डार / मेयकण्ड देव द्वारा
DevanagariSanskritpublished176 पृष्ठ
पृष्ठ 38, कुल 176 में से
संदर्भ में पढ़ेंपृष्ठ 38
xxii SIVAGNANA BOTHAM.
नाचिच्चित्सन्निधौ किंतु न वित्तस्ते उभे मिथः ।
प्रपंचशिवयोर्वेत्ता यस्स आत्मा तयोःपृथक् ॥ ७ ॥
स्थित्वा सहेन्द्रियव्याधैः त्वां न वेत्सीति बोधितः ।
मुक्त्वैतान् गुरुणानन्यो धन्यः प्राप्नोति तत्पदम् ॥ ८ ॥
चिद्दशात्मनिदृष्टेशं त्यक्त्वा वृत्तिमरीचिकाम् ।
लब्ध्वा शिवपदच्छायां ध्यायेत्पंचाक्षरीं सुधीः ॥ ९ ॥
शिवेनैक्यं गतस्सिद्धस्तदधीनःस्ववृत्तिकः ।
मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ॥ १० ॥
दृशोर्दर्शयितश्चात्मा तस्य दर्शयिता शिवः ।
तस्मात्तस्मिन्परां भक्तिं कुर्यादात्मोपकारके ॥ ११ ॥
मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयं ।
एवं विद्याच्छिवज्ञानबोधे शैवार्थनिर्णयं ॥ १२ ॥