सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 607, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 607

अथ मयूरशब्दश्रवणेऽपि व्यासङ्गान्तरवशान्नाऽऽगत इति चेत्तर्हि सिद्धं विहृदयत्वम् ।
सहृदयत्वे विरहव्यथासहत्वाक्षमतया महत्कार्यमुपेक्ष्यापि शीघ्रं धावित्वैवाऽऽगतं स्यात् । अत्र
विरहिण्याः क्रोधाविर्भावाच्छ्रुतिकटुपदगुम्फनागुणो न दोष इति ध्येयम् ।
अनेन त्वयाऽहमस्मै सम्यक्परीक्ष्य न दत्तेति तव दोषो मम विरहव्यथात्वेन फलित
इति व्यञ्जितम् । अत्र विप्रलम्भः शृङ्गाररसः पतिरेति नेत्यनेन व्यञ्जितः । प्रसाद-
माधुर्योदारता गुणाः । मयूरमित्यादौ वैदर्भी रीतिः । अनुप्रासोऽलंकारः ॥६॥
अथोक्तं हृदि गतेन प्रियतमेन श्रुतं भविष्यत्यत एव तदागमनविलम्ब इति भयादिव
हृदि स्थितं प्रियतमं प्रति पुनर्वसन्ततिलकया वदति—एवंविधं विरहिणीति ।
वर्षाणां विना मेघागमनासंभ वाद्घनतौ वर्षाकाले इत्यर्थः । ननु मेघानामन्यदाऽपि
दर्शनाद्घनतौविति कथमुक्तमत आह—भिन्नाञ्जनच्छविघने गगने इति । आकाशे भेदं
प्राप्तं यत्कज्जलं तस्य कान्तिर्येषामेतादृशमेघा यस्मिंस्तस्मिन् सतीत्यर्थः ।
तथा चान्यदा मेघा विरलाः श्वेताः कदाचिदायान्त्यस्मिन्काले तु नित्यं जलपूर्णतया
श्यामा मेघनिकरा आकाशे तिष्ठन्तीति भावः । विरहिणी । प्रोषितभर्तृका युवती ।
मत्वा । उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लव इत्युन्मत्तीभूयेत्यर्थः ।
किंचिद्रक्ति करोति हासमसकृन्निर्याति संतिष्ठते
बाष्पं मुञ्चति किंच रोषकलितां शोणां विधत्ते दृशम् ।
मुग्धाक्षीति नमन्त्यकाण्डकुपितेत्याभाषते निष्ठुरे
त्यालिङ्गत्यधुना स मन्मथशरैर्नीतः परां दुर्दशामित्यादि तद्व्यञ्जकम् ।
नन्व कस्मादुन्मत्तता कथं संजातेत्यतो विरहिणीविशेषणमाह—विरहेण खिन्नेति ।
विरहेण प्रियतमवियोगेन । एवंविधम् ।
दृष्टिप्रेम पुरा भ्रमोऽथ मनसि प्रोक्तोऽथ संकल्पको
निद्रोच्छित्तिरतः शरीरतनुता लज्जाविनाशस्ततः ।
वैराग्यं विषयेष्वथो निगदिते उन्मादमूर्च्छे ततो
मृत्युः स्यादिति पण्डितैः स्मरदशा उक्ता दशैव क्रमाद् ॥ इति ।
दशावस्थाः क्रमेणेत्यर्थः । खिन्ना उन्मादावधि दुःखितेत्यर्थः । अत एव—
दयिते परदेशसंस्थिते शशिपङ्केरुहचन्दनादिभिः ।
परितप्यत एव यद्वपुः कथिता सा कविभिर्वियोगिनी ॥
इति लक्षणाद्विरहिणीत्यनेन विरहखिन्नत्वसिद्धावपि विरहेण खिन्नेति पुनरुपादानं
मूर्च्छान्तरितमरणावस्था निकटाऽस्तीति सूचनायेति ध्येयम् । तथा च क्रमेणैवोन्मत्तता
संजातेति भावः । तं प्रति प्रतीत्यर्थः । प्रियं मनोहरं ब्रूते वाक्यं वदतीत्यर्थः ।
ननु देशान्तरस्थं प्रति कथं ब्रूते इत्यत आह—हृदयमिति । स्वमानसं प्रति प्रविष्ट-
मागतं संस्मृतमित्यर्थः । ननु मनस्यणुरूपे महाकायप्रवेशेऽत्यन्तमस्या दुःखं संभावितम् ।