सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 606, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 606

५०४ गोलाध्याये
सरसम् । सा च कस्य न हरति । त्रिम् । अर्थं हृदयं वा । या । का । नवरतर-
मणी । अपूर्वसुरता युवती । किविशिष्टा । भारती भरतसंबन्धिनी नर्तकस्त्री ।
कथंभूता सती । कामिता । पुनः किविशिष्टा । सानुरागा । किं कुर्वन्तो । सरसम-
भिलपन्ती । विदग्धा ।
मरीचिः--अथ विरहव्यथासंजातोन्मत्ततया पूर्वोक्तं वारं वारं लपन्ती विरहिणी
किमर्थमेवं लपसि । नह्येतावता स आयाति । धैर्यं घेहीति प्रत्युत्तरं ददतीं मातरं प्रति
वसन्ततिलकया वदति--उच्चैर्विरौतीति ।
हे अम्ब । मातश् । अनेन मनुष्या अतिव्यथायां मातुः स्मरणं कुर्वन्ति तन्नाम च
प्रलपन्तीति सूचितम् । यत्पूर्वं निःशब्दं स्थितं तदेतन्मयूरकुलं मयूरपक्षिसमुदायः । कुल-
मित्यनेन पतिकलत्रपुत्रादिसंबन्धिकमयूराः सूचिताः । उच्चैः प्लुतस्वरेण विरौति । मद-
नोत्सवानन्देन शब्दं करोति । हि निश्चयेनान्यदा त्वेतादृशशब्दाकरणादेतत्कालस्य मद-
नोत्सवयोग्यत्वाच्च । विरोतीत्यनेन ते त्वानन्दिताः शब्दं कुर्वन्त्यपि मम रोदनतुल्यमति-
गर्हितं लगति । दुःखिते मनसि सर्वमसह्यमिति सूचितम् । वातः । वायुः । मन्दं शनैः
प्रवाति । प्रकर्षेणातिमन्दं संचरतीत्यर्थः ।
ननु मन्दवायुरयं तव तापं हरिष्यतीत्यत आह-कदम्बमकरन्दकरम्बित इति ।
कदम्बपुष्परसमिश्रित इत्यर्थः । कदम्बानामस्मिन्वर्ष काले प्रफुल्लतादृशकालजमेघमुक्तसीक-
रवहनमपि वायोः स्वतःसिद्धमिति त्रिधा वर्णनानुपपत्तिर्नेति ध्येयम् ।
तथा च भ्रमरोपभुक्तकदम्बकलिकायाः पतिस्मारकत्वात्तदलाभात्तब्दा (द्वद्वा) हिकया
रसगन्धानयमानयतीत्यधिकं मम दाहक इति भावः । चः समुच्चये । एवमस्मिन्ससमये पत्युरपि
मदनोद्दीपनसंभवादधिकविरहपीडया विदेशे स्थातुमशक्यत्वादागमनं संभावितमित्य-
स्मिन्नपि समये पतिर्भर्त्ता एति आगच्छति न । यद्यायातः स्यात्तर्हि प्राणसंभरणेन
प्राणेश्वरः स्यादित्यनागमनेन ममानुरोधाभावात्केवलं पतिर्न प्रियतम इति सूचनार्थं पति-
रित्युक्तम् । तेन कारणेनास्य पत्युर्निर्घ्राणनिर्घृणविकर्णविहृत्त्वम् । निर्घ्राणो गन्धग्राह-
केन्द्रियेण रहितः । निर्घृणो दयारहितः । परहिंसकः । विकर्णः शब्दग्राहकेन्द्रियरहितः ।
विहृत् । हृदयशून्यः । एषां भावस्तत्त्वम् । निर्घ्राणत्वनिर्घृणत्वविकर्णत्वहृदयशून्यत्व-
मित्यर्थः । अहं मन्ये ।
अत्र तादृशवायुगतफुल्लकदम्बरसगन्धाघ्राणेन वर्षाकालं विरहिणीकृतान्तरूपं ज्ञात्वा
मत्संरक्षणार्थमागतः स्यात् । यतो नाऽऽगतोऽतस्तस्य घ्राणेन्द्रियाभावस्तद्गधाज्ञानेऽनागम-
नस्य युक्तत्वात् । अथान्यपदार्थगन्धानभवान्न निर्घ्राणत्वमिति चेत्तर्हि निर्दयः । मृन्मय
(मन्मृत्यु) करकालज्ञानादपि मत्संरक्षणार्थमनागमनात् । अथायं वायुस्तत्र न गत इति
निर्घ्राणनिर्घृणत्वासंभवः । कालाज्ञानेऽनागमनादिति चेत्तर्हि मयूराणामुच्चतरविरावश्रव-
णेनाऽऽगतः स्यादतो विकर्णत्वम् । बधिरतया तच्छ्रवणेन युक्तमनागमनम् ।