सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 604, कुल 723 में से
संदर्भ में पढ़ें५०२ गोलाध्याये
नन्वहं दूरस्थितस्तवां कथं सिञ्चामि कथं वा मम सुखदुःखाश्रुजलसंभव इत्यत आह-
एत्येति । मन्निवासगृहं तत आगत्येत्यर्थः । तथा चाऽऽगतस्य तव मद्दर्शनान्मदवस्थाज्ञान-
जनितदुःखाश्रुणः संभवात्सम्पग्हमागतो नो चेदनया मृतं स्यादित्यादिप्रियतमादर्शनजसुख-
जनिताश्रुणः संभवाच्च तज्जलसेचनेनैतत्कालान्तकाक्रान्तां मां सुखयेति भावः ।
ननु तप्तस्य सेचनमुचितं न तवेत्यतः स्वविशेषणमाह-मदनदहनखिन्नामिति । मदन-
रूपाग्निना पीडिताम् । तथा चास्मिंस्तद्वियोगसमये मदनरूपोऽग्निरत्यन्तं मम दाहं करो-
तीति युक्तं सेचनमिति भावः । केचित्त्वात्मदृग्वारिणेत्यस्य स्वदर्शनरूपजलेनेत्यर्थमाहुस्तन्न ।
स्वदर्शनेन तस्या दृष्टिरस्मिन्पततीति तस्यां सेचनासंभवात् । नहि तस्यां तद्दृष्टिः पत-
तीति युक्तं सेचनमिति वाच्यम् । तद्दर्शनलालसायास्तददर्शनेऽपि तद्दृष्टिपातेन विरहव्यथा-
पगमापत्तेः । नहि दर्शनं विना व्यथापगमः संभवति । अत एव विरहबाधाव्याकुलया
मूर्च्छितया च प्रथमं त्वं द्रष्टुमशक्य इति सेचनोत्तरं मया त्वं द्रष्टव्यः सेचनेन मूर्च्छापगम-
द्वारा प्रबोधसंभवादिति सूचितम् ।
अङ्गानि मे दहतु कान्तवियोगवह्निः संरक्ष्यतां प्रियतमो हृदि वर्तते यः ।
इत्याशया शशिसुखी गलदश्रुवारिधाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥
इति प्रसिद्धवर्णनादश्रुणा सेचनमविरुद्धम् । ननु त्वया स्वतापेस्तत्कालजशीतलमालतीपुष्पै-
रपनेयस्त्वन्निमित्तं ममाऽऽगमनासम्भवादित्यतः स्वविशेषणमाह-मालतीनामिति । मालती
इनः सूर्यो यस्याः सा मालतीना । तां मालतीनाम् । यमके निहतार्थो न दोषः । तथा च
पुष्पमकरन्दगन्धाहूतभ्रमरभुक्तां मालतीं दृष्ट्वाऽहं तवालाभात्तपामीति मालती मम
दाहिका सूर्यतुल्येति भावः ।
केचित्तु मालतीनामित्यत्र मा लतीनामिति पदद्वयं मेत्यस्य मामित्यर्थः । लतीनामित्यस्य
रतीनां परिमलबहलानामिति विशेषणे परिमलबहराणाम् । बवयोर्लयोः श्लेषे ऐक्यात् ।
अपचरतीनां सुरतोत्सवानां काले आगतेऽपि कथं भूतानां परिमलबहराणाम् । परस्य भावः
परिमा परिम्णा लवः परिमलवस्तं हरतीति परिमलबहरास्तासाम् । उत्कृष्टांशहराणाम् ।
मानिनां मनस्विनीनां वा कामातुराणां मानभङ्गेन तुच्छदयितानामित्यर्थः ।
तथा च मम माममाशङ्क्य न यास्यसि चेत्तर्हि अस्मिन्समये मम मानोऽपि नास्ति ।
सुखेन सुरतं कुर्विति भाव इत्याहुस्तन्न । यमकभङ्गापत्तेः । तदैक्यस्य श्लेषेऽभ्युपगमाच्च ।
रतीनां समयोऽस्ति मानवत्यहं न सुखेन सुरतं कुर्वित्यादिस्त्रीवचने रसभंगापत्तेश्च । किंच
तद्दर्शने महदायासं मन्यमाना कथं सुरताभिलाषं कुर्यादिति ।
ननु शातलान्तरोपचारात्स्वतापोऽपनेय इत्यत आह-दीनामिति । त्वां विना
यत्किचित्सुखदं वस्तु तन्मम संतापदुःखदमिति मामनन्यशरणा मेतद्तुकालान्तकाक्रान्तामङ्गी
कुर्विति भावः ।
द्वितीयपादे मालतीनां नदीनामित्यादृत्य मेति माम् । इनात्सूर्यात् । अलति । समर्था-