सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 603, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 603

ऋतुवर्णनाध्यायः ५०१
ये चूता आम्रवृक्षास्त एव केतवो ध्वजाश्चिह्नानि यस्तैस्तादृशवनायेत्यर्थः । यद्वा कामस्य
मदनस्य उच्छ्रितचूता एव केतवो यत्र मदनोद्दीपनं वनमित्यर्थः । तथा चोपवने घनतराच्छा-
दितरुभिः सूर्यकराणां वारणात्तत्सरोवरजलं सदा शीतलं वनस्य मदनोद्दीपनत्वादनङ्ग-
विहारोऽधिकं तत्र संभाव्यते चेति भावः ।
विलासिनो रमण्यश्च रत्युत्सवे ह्यानन्दनिमग्नतयाऽऽत्मानं विस्मृत्योन्मत्ततयाऽश्लीलं
प्रलपन्तीति सूचनात्कामोच्छ्रितचूतकेतवे इत्यश्लीलं न दोषः । एवं सुरते तरुणवेगमसह-
माना तरुणी तदानन्दान्त्यन्ताविर्भावेनोपेक्षितनिवारणं तरुणं प्रति जलेड्यमङ्गलमश्लीलं
प्रलपति तदा भर्तुर्दासाद्यमत्वेनाभ्युपगमादिति सूचनाज्जलेड्यश्लीलममङ्गलं न दोषः । अत्र
संभोगः शृङ्