सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 509, कुल 723 में से
संदर्भ में पढ़ेंलोकावगतरूपवत्तयाऽनुद्भूतरूपकत्वाभावाद्यदुद्भूतस्पर्शाभावाच्च । नान्त्यः । तस्यानुद्भूत-
स्पर्शत्वेन व्यवधानेऽपि द्रव्यान्तरस्पर्शापनायकत्वं न स्यात् । व्यवहितसुवर्णादिवत् । अन्यथा
कनकस्यापि पीतभागगतस्पर्शापनायकत्वं व्यवधानेऽपि भवेदेव । सजातीयतया द्वयोर-
विशेषात् । किंच जलतेजसोरुभयोरपि विरलावयवतया तदेकतरोपष्टम्भेऽपि चिरानपायं
कार्यं न निर्वहेदेव । तस्यापि विरलावयवतया प्रबलप्रभञ्जनाघातेनाथवा प्रत्यहमारोहाव-
रोहविधौ नीचोच्चदेशसम्बन्धे सूतादेरिव कदाचिदप्यवयवविभागापत्तेरिति दृढतरपिण्डी-
भावापादनायोभयभूयसां भूभागानामप्युपष्टम्भकत्वमवश्यमास्थेयम् । तथा चोपष्टम्भक-
भूयस्त्वेनाऽऽरम्भकभागगतरूपाभिभवापत्तिः । नन्वारम्भकरूपस्योत्कृष्टत्वेनाविरोधितया
चोपष्टम्भकभूयस्त्वेऽपि न तेन तस्याभिभव इति चेन्न । रजतेऽपि तदनभिभवापत्तेः ।
उपष्टम्भकभूयस्त्वेऽपि तदारम्भकरूप उत्कर्षाविरोधयोः सत्त्वादिष्टापत्तिरत्रेति चेत्तर्हि
निबिडतमे तमसि रजतस्योपलम्भप्रसङ्गो रूपस्यानभिभूतत्वात् । तस्माज्जलस्य तदुपष्टम्भ-
कत्वानुपपत्त्याऽनेकप्रकारावगतं वरमारम्भकत्वमेव तस्येति । तथा चेन्दुबिम्बमाप्यं शीत-
स्पर्शाधिकरणत्वात्करकावदिति सर्वावयवोपपन्नेन निर्दुष्टेनान्वयव्यतिरेकिणा सिद्धमिन्दो-
रम्मयमण्डलत्वम् । नन्वत्रापि हेत्वसिद्धिर्दोषः । तस्योपष्टम्भकजलभागगतत्वेन चन्द्रस्य
तदनाश्रयत्वादिति चेन्न । ज्ञातमतिप्राज्ञोऽसि । यतोऽनन्तरोक्तं सर्वमेव विस्मरसीति
हन्त सम्भवति तस्योपष्टम्भकत्वे किल हेतोरसिद्धिः । प्रत्युत तदेवासिद्धमिति किमर्थमिद-
मनर्थकमाशङ्कनम् । तथा चासिततरपृथिवोपरमाणुपरम्परोपष्टब्धा जलपरमाणव एव
परम्परयाऽऽरम्भकत्वेन व्यवस्थिता इति सिद्धम् । किंच स्वानुविधे(द्धे) वस्तुविशेषे जला-
नलनभस्वतामुत्कर्षाविसरे सजातीयद्रव्योत्पादनसामर्थ्यमखिलजनसिद्धम् । तद्यथा—अर्कस्य
लोहविशेषादर्शच्छुरिकाकरवालस्वन्तशिलातलादौ संमुखतापन्ने तेजोन्तरजनकत्वमथवा
भौमदहनस्याप्यन्तसंयोगिनि घृततैलादौ वह्न्युपचयारम्भकत्वमथवा वर्षाकाले जलदस्योत्कर्षे
लवणक्षारेक्षुविकारादौ स्वानुविद्धे जलजनकत्वमेवं प्रकृतेऽपि स्वानुवृद्धितया शशि-
कान्तशिलासु जलभागाविर्भाविहेतुत्वेन नियमानुरोधादपि वक्तुमुचितमेवास्यापि तथात्वमिति ।
अपि च यच्चैतदुपलभ्यमानं रूपं वस्तुतस्तदोयमेवाभविष्यत्तदा तैजसव्यवस्थापकमप्यभविष्यत् ।
अथ तत्तदाश्रितमेव स्याद्यावद्द्रव्यभावि स्यादव्याप्यवृत्ति वा न स्यादन्यसंबन्धानु-
विधायि वा न स्यादित्यादिप्रतिकूलतर्कपराघातेन तैजसत्वाभिमानमात्रोच्छेदे व्यवस्थित-
मिन्दोरम्मयत्वमिति । ननु भवतु तावदस्य जलमयगोलकत्वं परंतु प्रतिपादितसितवृद्धि-
क्षयोपपत्तौ स्मृतिवेदाविरोधप्रसङ्ग इति चेन्न । तयोरनेकोपपत्तिविरोधितया तदतात्पर्य-
कत्वात् । तथा हि—दिनकरबिम्बापेक्षया पूर्वापरयाम्योत्तरान्तरानुसारेण स्फुरदादित्यकर-
प्रसारपरम्परावशेन कलोपचयापचयदर्शनेन शृङ्गस्यापि तदनुविधानेनैवोन्नमनादन्वयव्यति-
रेकाभ्यामनयोस्तदेकनिमित्तत्वमेवावसीयते । यतः सर्वत्र लौकिकप्रमाणावगतहेतुभावे तयो-
रेव नियामकत्वात् । तथा चानुमानमपि—चन्द्रे सितोपचयापचयौ संगतादित्यकरनिकर-
प्रसारापसारनिमित्तकौ । अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात् । यद्यदन्वयव्य-