सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 508, कुल 723 में से
संदर्भ में पढ़ेंरम्यत्वमभ्युपेयम् । अन्यथाऽनुपपन्नतत्वेन तस्य निर्वोढु मेिवाशक्यत्वात् । अथ स्यादेतत्कथ-
मनुषपत्तिरस्मन्मतेऽपि चन्द्रबिम्बस्योपवृद्ध (ष्टम्भ्य) द्रव्यत्वेन जलावयवसंमिश्रितत्वेन तयो ग्य-
तोपपादनादिति चेत्तर्हीहासिताचतुर्दश्यमादौ योग्यतया जलभागस्य पीतत्वेन तत्संपर्काभावेना-
भिभावकाभावात्खरतररविकरप्रसारपरम्परावशेन ऽऽतपसंपादनद्वारा ऽविरलतेजस्युपस्थितावपि
दिनकरतुल्यतया क्षणदाया अपि दिनतापत्तिः । अपि च स्ववशमिलन्मधुपालिपालीसमलं-
कृतसकलभूमण्डलजलगत्कमलवनसंजीवनक्षमत्वमपि स्यादेव प्रद्योतनवदिति । अथ तथा-
भूतस्यापि पुनरुत्पादे किं बाधकमिति चेन्न । कारणचक्रान्तःपातिप्रागभावाद्ध्यकारणविरहे
सकलकारणयौगपद्यरूपसामग्र्यभाव एव । ननु तर्हि पुनस्तदेव द्रव्यान्तरमुत्पाद्यतां तदुत्पादे
तु बाधकाभावात् । नवो नवो भवति जायमान इत्यादिनैकवाक्योपस्थितत्वेन विरोधादित्य-
स्येव तस्यापि वेदेन नवीनत्वोपपादनादिति चेन्न । तत्रैकवाक्यताया एवाभावात् । भावे
वा तस्य प्रमाणान्तरबाधितार्थार्थकत्वात् । यतो द्वितीयामारभ्य पञ्चमीमवधीकृत्याथवा
कृष्णैकादश्यादिचतुर्दशीपर्यन्तमविकृतस्यैवाशेषबिम्बस्य केवलं सितोपचयापचयवतः सर्व-
जनोपलब्धत्वेन स्वरूपापलापस्य कर्तुमशक्यत्वात् । अपि च तत्स्वरूपापलापपक्षे वलक्षपक्षा-
दाविनासन्नतया पश्चादेवोदयनियमो न स्यात् । लुप्तकिरणत्वानभ्युपगमेनान्यस्यैवो-
त्पादस्वीकारात् । किंच चतुर्दशीनिशावसानसमये सूर्यापेक्षया द्वादशभागोन्मितान्तरेण
पश्चादुपलक्षितापमण्डलस्थानदिनद्वयानियमेन पुनर्द्विगुणान्तर एव द्वितीयायामुदयनिश्चयो न
स्यात् । प्रत्युत्सन्नापरनक्षत्रकेत्वादिवत् । अपि च दिनकरदिश्येव प्रथमकलिकोत्पादनिय-
मोऽपि न भवेद्देवकार्यन्तरत्वेन कदाचिदपि विपर्यासस्यार्धपूर्णत्वाद्देवां(व) केनाप्यनिवारि-
तत्वेनोत्पादप्रसङ्गात् । किंच तदपि भवेदेव । अन्यसम्बन्धानपेक्षत्वेनानियम्यत्वादिति । तथा
च तथोपगमे दोषसहस्रोपदर्शनेन वेदस्यापि प्रत्यहमधिकाधिकप्राशस्त्यप्रतिपादनादिपरतयो-
त्प्रेक्षादिन्यायैनान्यत्रैव तात्पर्यम् । अन्यथा नवीनांशतात्पर्यकत्वे तिरते दीर्घमायुरित्यादिना
भागस्याऽऽनर्थक्यं पूर्वैरपि समाधातुमशक्यमेवेति । तन्नाशोपगमेन परमोपप्लवापादने तदधः
कृता दापितिरश्चा (?) । किंच तत्र जलस्योपष्टम्भकत्वमपि विवेकविरुद्धम् । तयोरुपष्ट-
म्योपष्टम्भकभावाभ्युपगम उभयोविरोधि तया तदेकतरनाशापत्तेः । नन्वारम्भकस्य तेज-
स्त्रैविद्ध्यात्कथमत्र विरोधापादनमयोग्यत्वादिति चेत्सत्यम् । किमेतदिन्दुमण्डलारम्भक-
मुद्भूतरूपस्पर्शमथोद्भूतस्पर्शमनुद्भूतरूपमनुद्भूतस्पर्शमुद्भूतरूपं चेति । नाऽऽद्यः ।
उष्णस्पर्शानुपलम्भात् । तदुभयसाम्योपगमे तु का हानिरिति चेत्सुन्दोपसुन्दन्यायेन प्रथम-
मन्योन्यापाय एव । अथ कथमपीश्वरेच्छादिना तदपायप्रतिबन्धोऽपि तेजोभागगतस्पर्श-
स्योत्कर्षेण जलभागस्पर्शाभिभावकत्वं भवेदेव । बलवत्त्वादिरोधित्वाच्चेति तदनुपलम्भप्रसङ्ग
इति । ननु तत्राप्यन्योन्यसमानबलत्वोपगमे किमुत्तरमिति चेन्न । आश्रयस्याऽऽधिक्यमन्तरा
तथात्वस्यासंभवात् । अपि च समबलजला नलसंयोगात्सोऽनुष्णाशीत एव स्यात् । अथ
प्रतीत्यन्यथानुपपत्त्योपष्टम्भकस्य भूयस्त्वकल्पने प्रत्युतान्यगुणानामभिभूतत्वे तथाविधरूप-
स्यादर्शनप्रसङ्गः । तस्याप्यभिभूतत्वात् । न द्वितीयः । तस्य स्वपरप्रकाशकत्वेन सकल-