सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 455, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 455

ग्रहणवासना ३५३
एवमेव च संपातो यः क्रान्तिसमवृत्तयोः ।
परमं तत्र तत्कालवलनैवयान्तरं स्फुटम् ॥३८॥
अग्रतः पृष्ठतस्तस्मात्क्रान्तिवृत्ते त्रिभेऽन्तरे ।
तयोर्याम्योत्तरैकत्वात्तत्र नो वलनं स्फुटम् ॥३९॥
न स्पष्टवलनाभावस्तत्र स्यादुत्क्रमज्यया ।
क्रमज्यया ततः कार्यं दाढचार्थं कथ्यते पुनः ॥४०॥
सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः ॥
विषुवन्मण्डलात्प्राच्या ध्रुवे याम्या तथोत्तरा ॥४१॥
सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे ।
योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् ॥४२॥
तत्रापमण्डलात्प्राच्या याम्या सौम्या च दिक् सदा ।
कदम्बभ्रमवृत्तं च बध्नीयात्परितो ध्रुवात् ॥४३॥
गोले तु जिनतुल्यांशैस्तत्र ज्या क्रान्तिशि