सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 433, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 433

वा० भा०—अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरोऽवगम्यते । कुतः । यतो-
ऽर्धखण्डितस्येन्दोर्विषाणयोः कुण्ठता दृश्यते । स्थितिश्च महती । अर्कस्य पुनर-
र्धखण्डितस्य तीक्ष्णता विषाणयोः स्थितिश्च लघ्वी । एतत्कारणद्वयान्यथानुपपत्त्या-
ऽर्कस्य च्छादकोऽन्यः । स च लघुः । एवं रवीन्द्वोर्न च्छादको राहुरिति वदन्ति ।
कुतः । दिग्देशकालावरणादिभेदात् । एकस्य प्राक् स्पर्शः । इतरस्य पश्चात् । रवेः
क्वापि ग्रहणमस्ति क्वापि नास्ति । क्वापि दर्शान्तादग्रतः क्वापि पृष्ठतः । अतो
राहुकृतं न ग्रहणम् । नहि बहवो राहवः । एवं के वदन्ति । केवलगोलविद्यास्त-
दभिमानिनश्च । इदं संहितावेदपुराणबाह्यम् । यतः संहितासु राहुरष्टमो ग्रहः ।
**“स्वर्भानुर्ह वा आसुरः सूर्यं तमसा विव्याध” इति माध्यंदिनी श्रु