सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 419, कुल 723 में से
संदर्भ में पढ़ेंत्रिप्रश्नवासना ३१७
उपपत्ति या युक्ति—इष्ट कालीन ग्रहस्पष्ट और इष्ट लग्न से साधित काल सावन
माप में है । इष्टकालीन ग्रह इष्टकाल में भी चलित होकर इष्टकाल तुल्य गतिफल से
सम्बन्धित है इससे चालित ग्रहोदय और लग्न अपने उदय काल में उदय लग्न होती है ।
इससे साधित काल सूक्ष्म नाक्षत्र काल होते हैं ऐसा असकृत प्रकार से साधित काल
सावनात्मक नहीं है । जिस प्रकार ग्रह अपनी गति से चलित है उसी गति के आधार से
ग्रह की छाया भी प्रतिक्षण ग्रह गति वेग की तरह चलनशील है, अतएव वहाँ पर असकृत-
कर्म प्राप्त ही नहीं है अतः गणित से चन्द्रछायादि इष्टकाल साधन गणित, गोल ज्ञान से
बहिर्भूत है ।
ग्रहगोल गणिताचार्य भास्कर इस स्थल पर भी "लल्लाचार्य" पर कटु आक्षेप
करने में संकोच नहीं कर रहे हैं ॥३५॥
उपपत्ति—पूर्व में द्रव्यष्ट है ।
इदानीं शङ्कुस्थानमाह—
दृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतो नताः ।
शङ्कुरुन्नतलवज्यका भवेद्दृग्गुणश्च नतभागशिञ्जिनी ॥३६॥
भास्करेऽत्र सममण्डलोपगे यो नरः स समशङ्कुरुच्यते ।
कोणशङ्कुरथ कोणवृत्तगे मध्यशङ्कुरिति दक्षिणोत्तरे ॥३७॥
कुपृष्ठगानां कुदलेन हीनं दृङ्मण्डलार्धं खचरस्य दृश्यम् ।
कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्ति.तिथ्यंशमिताः प्रभाार्थम् ।३८।
वा० भा०—दृङ्मण्डले क्षितिजादुपरि ग्रहपर्यन्तं येऽंशास्त उन्नताः । खमध्या-
दधस्ते नताः । उन्नतांशानां ज्या शङ्कुः । नतांशाज्या दृग्ज्या । शङ्कुः कुच्छन्न-
लिप्ताभिरूनः कार्यः । द्रष्टुः कुदलेनोच्छ्रितत्वात् । अयमर्थो ग्रहच्छायाधिकारे-
व्याख्यात एव ॥३६॥३७॥३८॥
मरीचिः—अथ शङ्कुस्वरूपं तत्प्रसङ्गाद्दृग्ज्यास्वरूपं रथोद्धतयाऽऽह–दृष्टिमण्डलेति ।
दृग्वृत्तसंबन्धिनोंशा ये क्षितिजादुन्नता अभीष्टस्थानपर्यन्तं ते उन्नतांशा अभीष्टस्थानपर्यन्तं
खमध्यस्थानान्नतास्ते नतांशाः । ननु शङ्कुदृग्ज्यास्वरूपकथनोपक्रमेऽनयोर्निरूपणं संगति-
विरुद्धमत आह—शङ्कुरिति । उन्नतांशानं ज्या शङ्कुर्भवेत् । कप्रत्ययेन तदतिरिक्तां-
शानां ज्या शङ्कुर्न भवेत् । नतांशानां ज्या दृग्ज्या स्यात् । च एवार्थे । तेनान्येषामंशानां
ज्या सा न भवेत् ॥३६॥
अथ समशङ्कुस्वस्त्यं (रूपं) तत्प्रसङ्गात्कोणदिनार्धशङ्कुस्वरूपे च रथोद्धतयाऽऽह—
भास्करेऽत्रेति । समवृत्तोपगते सूर्ये । अत्र दृग्वृत्ते । चलत्वात् । सूर्यस्थानसंबन्धेन यो नरो
भवति स समशङ्कुः पूर्वैरूच्यते । कोणवृत्तस्थेऽर्क इति । पूर्वोक्तरीत्या यः शङ्कुर्भवेति स