सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 302, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 302

२०० गोलाध्यायः
उक्ता संक्षेपतः पूर्वं ज्योत्पत्तिः सुगमा च सा ।
सविशेषाऽधुना तत्र विशेषाद्विवृणोम्यतः ॥१॥
वा० भा०—तावदाचार्याणां पदवोमित्यादिश्लोकपञ्चकं सुगमम्। अत्र गणितेन
ज्याज्ञानार्थं मूलभूतज्याचतुष्कं सिद्धप्रकारमेवाऽऽह। तत्प्रकारो हि बीजगणितक्रि-
यया। त्रिज्यार्धं राशिन्येत्यादि। त्रिज्यार्धेन १७१९ तुल्या त्रिंश३०दंशानां ज्या
भवति। तस्याः कोटिज्या षष्टि ६० भागानाम्। त्रिज्यावर्गार्धपदं पञ्चचत्वारिंश-
दंशानां ४५ ज्या भवति।
अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चघातस्य मूलेन हीनादष्ट ८
हृतात् पदं षट्त्रिंशदंशानां ज्या।
अथवा गजहयगजैषु ५८७८ निघ्नी त्रिज्यायुतेन १०००० भक्ता षट्त्रिं-
शदंशानां ज्या स्यात्। इति गणितलाघवम्। तत्कोटिज्यार्थाच्चतुष्पञ्चाशदं-
शानां ज्या।
तथा त्रिज्यावर्गस्य पञ्चगुणस्य मूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशभागानां
ज्या भवति। तत्कोटिज्यार्थाद् द्विसप्ततिभागानाम्।
अतोऽन्यथा साधनमाह—क्रमोत्क्रमज्येत्यादि। कोटिज्योना त्रिज्या भुज-
स्योत्क्रमज्या स्यात्। भुजज्योना त्रिज्या कोट्युत्क्रमज्या स्यात्। भुजक्रमज्योत्क्रम-
ज्ययोश्च वर्गयोगपददलं भुजांशानामर्धस्य ज्या स्यात्। अथवा त्रिज्योत्क्रमज्या-
घातदलस्य मूलं तदर्धांशकशिञ्जिनी स्यादिति क्रियालाघवम्।
एवमुत्पन्नज्याया अपि कोटिज्या सा तत्कोटिभागानाम्। ततः पुनरेवमन्या-
स्तदर्धांशकज्याः साध्याः। कोटेश्चैवमन्याः। तद्यथा। यत्र चतुर्विंशतिर्ज्यास्तत्र
त्रिज्यार्धमष्टमं ८ ज्यार्धम्। तत्कोटिज्या तु षोडशम् १६। शरवेदांशज्या द्वादशम्
१२। अथाष्टमात् तदर्धांशप्रकारेण चतुर्थम् ४। तत्कोटिज्या विंशम् २०। एवं
चतुर्थात् द्वितीयं २ द्वाविंशं च २२। द्वितीयादाद्यं १ त्रयोविंशं च २३। विंशति-
तमाद्दशमं १० चतुर्दशं च १४। दशमात् पञ्चमं ५ एकोनविंशं च १९। द्वाविंशा-
देकादशं ११ त्रयोदशं च १३। चतुर्दशात् सप्तमं ७ सप्तदशं च १७। अथ
द्वादशात् षष्ठमष्टादशं च १८। षष्ठात्तृतीयमेकविंशं च २१। अष्टादशान्नवमं
९ पञ्चदशं च १५। त्रिज्या चतुर्विंशमिति। एवं किल पूर्वैरन्यज्यासाधनमुक्तम्।
इदानीं विनाऽप्युत्क्रमज्ययाऽभिनवप्रकारेणाऽऽह। त्रिज्याभुजज्याहतीत्यादि।
त्रिज्याभुजज्याघातेन त्रिज्याकृतिरेकत्रोनान्यत्र युता। द्वे चाधिते। तयोर्मूले।
आद्यं भुजोनखाङ्कांशानां दलस्य ज्या। द्वितीयं भुजाढ्यखाङ्कांशानां दलस्य।