सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 301, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 301

ज्योत्पत्तिवासना १९९
यद्दोर्ज्ययोरन्तरमिष्टयोर्यत्कोटिज्ययोस्तत्कृतियोगमूलम् ।
दलीकृतं स्याद्भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥१३॥
दोःकोटिजीवाविवरस्य वर्गो दलीकृतस्तस्य पदेन तुल्या ।
स्यात्कोटिबाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं विनाऽपि ॥१४॥
दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धन्त्रिमोर्व्योर्विवरेण तुल्या ।
दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्यार्धानि वा कानिचिदेवमत्र ॥१५॥
स्वगोङ्केषुषडंशेन ६५६९ वर्जिता भुजशिञ्जिनी ।
कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु५७३विभाजिता ॥१६॥
तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी ।
प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः ॥१७॥
व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः ।
कोटिजीवा शताभ्यस्ता गोदस्रतिथि१५२९भाजिता ॥१८॥
दोर्ज्या स्वाद्यङ्गवेदांश ४६७ हीना तद्योगसंमिता ।
तदग्रज्या तयोश्चापि विवरं पूर्वशिञ्जिनी ॥१९॥
तत्त्वदस्रा नगांशोना २२४ । ५१ एवमत्राऽऽद्यशिञ्जिनी ।
ज्यापरस्परयैवं वा चतुर्विंशतिमौर्विकाः ॥२०॥
चापयोरिष्टयोर्दोर्ज्ये मिथःकोटिज्यकाहते ।
त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका ॥२१॥
चापान्तरस्य जीवा स्यात्तयोरन्तरसंमिता ।
अन्यज्यासाधने सम्यगियं ज्याभावनोदिता ॥२२॥
समासभावना चैका तथाऽन्याऽन्तरभावना ।
आद्यज्याचापभागानां प्रतिभागज्यकाविधिः ॥२३॥
या ज्याऽनुपातः सेष्टव्यासार्धे परिणम्यते ।
आद्यदोःकोटिजीवाभ्यामेवं कार्या ततो मुहुः ॥२४॥
भावना स्युस्तदग्रज्या इष्टे व्यासडले स्फुटाः ।
स्थूलं ज्यानयनं पाट्यामिह तन्नोदितं मया ॥२५॥
इति ज्योत्पत्तिः ।