सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 222, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 222

१२० गोलाध्याये
त्वेकैकक्षणविलम्बेन स्थिरशकटातिक्रमकालेन तदर्धभोग एव स्यात्पूर्वेण द्विगुणेन वा सर्वभोगः
स्यात् । तच्च सर्वथाऽप्यसंभवि । क्वापि कदाऽपि तथोपलम्भाभावात् । तथा चैतद्दृष्टान्तेन
प्रकृतापादितानिष्टप्रसङ्गादिनाऽनुमानस्य परास्तत्वात् । ग्रहचारेऽप्येतत्तुल्यमेवेत्येकदैवानेक-
दिग्गमनं तथोपलम्भात्संगच्छत एवेति । ननु याम्योत्तरगतौ नीचोच्चगतौ वा संमिश्रदिग्द्वय-
गमनमेकसमयावच्छेदेनानुपपन्नमेव । अन्यथाऽयोध्यामनुयातुः सममेवान्याकृष्टस्य विन्ध्याद्रि-
देवीस्थानगामितापत्तेः । अथ वृक्षारोहणावरोहणस्थले चलतः पक्षिकुलस्य समकालमेव
प्रागुच्चादिगमनमुत्तरतः प्रेर्यमाणशरस्य च समीरणप्रयुक्तावलम्बेन प्रागादिगमनमुभयाकर्षक-
शक्तितारतम्येनोपलभ्यत एवेति नानुपपत्तिरिति चेन्न । तस्यापि सूक्ष्मक्षणानुसारेण क्रमा-
नुमानेनैवोपपादनार्थापत्तेरनुपपद्यमानार्थदर्शने चोपपादकान्तरमात्रविषयकत्वेनैवावताराद-
न्यथाप्रतीतार्थस्यानिर्वाहादिति चेत्सत्यम् । सत्यामनुपपत्तौ किलार्थापत्तिरनुसरणीया ।
प्रकृते तस्या एवानुपपत्तिः । तथा हि । प्रागपरभावेनोपस्थितयोः पादपसरोवरयोः फल-
जलोपादित्सया यथाकाममारोहावरोहविधिनोड्डीयचलने पारावतादेरेकसमयावच्छेदेनैवो-
भयत्र गमनप्रसिद्धावपि तदनङ्गीकारपरस्यानुपलक्ष्यसूक्ष्मक्षणभ्रमेणाऽऽकुलचित्तस्य भवतोऽ-
भिमते बलवतः प्रागुपपादितस्यैवानिष्टप्रसङ्गस्य बाधकत्वात् । तद्यथा । सरस्तीरपादपयो-
रन्तरं सूत्रादिना संधाय तच्च करादिभिर्विगणय्य तदनुसारमेव तावन्मितसंसाधितदारु-
संघारणे तत्र चोड्डीनावसरे तदतिक्रमकालेनैव पानीयफ(प)लदशकोन्मितेनैव पुनः केवलं
प्रागपरत्वेनापि तस्य संस्थितावतिक्रमो न स्यात् । पूर्वत्रैकैकक्षणविलम्बेन तदर्धभोगकाला-
सन्नकालेनैव तदतिक्रमसंभवात् । एवं याम्योद्गतावपि । केवलयाम्योत्तरस्थितप्रयोक्तुलक्ष्य-
स्थानान्तरातिक्रमकालेन क्षितिजवृत्तोपगतत्वेन समानान्तरत्वेऽपि शरस्य स्वनिपातं स्थाना-
न्तरातिक्रमो न स्यात् । पूर्ववत्समीकरणप्रयुक्तैकैकक्षणविलम्बेन तावत्त्वानुपपत्तेरिति ।
तस्माद्ग्रहाणामनेकदिग्गतिमत्त्वं युक्तम् । स्यादेतत् । परं भपञ्जरस्य मूर्तत्वेन ग्रहबिम्बा-
पेक्षयाऽतिमहत्त्वेनातिगुरुत्वाधिक्यात् । तद्भ्रमण