षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:
५० श्रीपीताम्बरकृतविवृतिसमेता।
त्पदद्वयवैयर्थ्यं स्यात्। तेन 'न स पुनरावर्तत' इति सामान्यशास्त्रमप्युपसंह्रियत इति
न तस्यापि विरोध इति। एतमेव चार्थं 'मुक्ता अपि लीलावग्रहं कृत्वा भजन्त' इति
वाक्यं 'न कर्मबन्धनं जन्म वैष्णवानां च विद्यते। विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण'
इति पाद्मवाक्यं चोपोद्वलयति। न चोक्तवाक्यानां जीवन्मुक्तपरत्वं शङ्क्यम्। जीवन्मुक्ते
तादृशभोगानुपलब्धेः। मुख्ये सम्भवति गौणकल्पनास्याप्रयोजकत्वात्। उक्तवाक्यादि-
भिर्मुख्ये बाधाभावाच्च। एवञ्च 'ब्रह्मविदाप्नोति पर'मित्यत्रापि ज्ञानमुक्तयोर्व्याहृत्या एको-
क्क्योभयप्राप्तेर्ब्रह्मवित्पदेन पुरुषोत्तमे प्राप्तसायुज्योऽपि शक्यवचनः। तथाच स तथा
भवतीत्यर्थः। अयमेवार्थः 'अस्मिन्नस्य च तद्योगं शास्ती'ति सूत्रेऽभिप्रैयते। स चास्मिन्ना-
नन्दमये ब्रह्मणि अस्य प्राप्तसायुज्यस्य जीवस्य तद्योगं तत्स्वरूपस्य योगं शास्ति फलत्वेन
श्रुतिर्वदतीति विद्वन्मण्डनोक्तदिशावगन्तव्यः। अस्य तद्योगं शास्तीत्येतावर्तव चारितार्थ्ये
यदस्मिन्निति पदं तस्यान्यथा वैयर्थ्यापत्तेः। इदं यथा तथानन्दमयाधिकरणस्य वर्णके स्वतन्त्रे
प्रसुचरणैर्विशदीकृतम्। अतो जीवन्मुक्तव्यावृत्त्यर्थमेवास्मिन्निति पदम्। न हि जीवन्मुक्त-
स्याभेदात्मिका मुक्तिरस्ति। येन योग्यतानुभवस्य स्यात्। किन्तु ज्ञानाध्यासाभावयोः
कारणकार्ययोर्भाविफलप्राप्तिज्ञापकयोः सत्त्वात्तथोच्यते। ज्ञानेन स्वरूपयोग्यतायां मुक्ति-
र्भगवता दीयत इति न ज्ञानमात्रसाध्या। 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति' 'मोक्ष-
मिच्छेज्जनार्दना'दित्यादिवाक्यैः। तथा सति चरमवृत्तिरूपमपि ज्ञानं स्वरूपयोग्यता-
सम्पादन एवोपक्षीयमाणं न फलोपहितां कारणतां स्वस्मिन्नवरोद्धुमीष्टे। अतो मुक्तिरपि
भगवन्नियतैवेति सेवायै विचारितान् शुद्धान् विधायाविर्भावयतीत्यत्रापि न किञ्चिदनुपपन्नम्॥
ननु भवत्वेवं सृष्टिभेदात्साधनसाङ्कर्याभावः, तथापि लीला सृष्टावुपपन्नानां स्वरूपदेह-
क्रियासु न कश्चिद्विशेषो दृश्यत इति साधितपूर्वः सृष्ट्यादिभेदोऽपार्थ एवेत्याशङ्कायां तत्प-
रिहाराय विशेषमाहुः स्वरूपेत्यादि।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि यावता कार्यं तावत्तस्य करोति हि।
'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मानन्त-
रोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' 'आनन्दरूपममृतं यद्विभाती'त्यादिश्रुतिभिर्यथा भगवान्
सच्चिदानन्दघनः, एवं तेऽप्यतिरोहितसच्चिदानन्दा इति न स्वरूपेण तारतम्यम्। यथा
भगवतोऽलौकिकरीत्या सत्त्वाधिष्ठानेऽवतारः, एवं तेषामपीत्यवतारेणापि न तथा। यथा
भगवतो ध्वजवज्रादीनि लिङ्गानि, एवं तेषामिति न लिङ्गेन तथा। यथा भगवत ऐश्वर्यादयः
सौकुमार्यादयश्च, तथा तेषामपीति गुणेनापि न तथा। इदमपि 'न प्रयोजनवत्त्वा'दिति
सूत्रेण ब्रह्मण आप्तकामतत्वश्रवणात्सृष्टिकरणं विरुद्धमित्याक्षिप्य, 'लोकवत्तु लीला-
कैवल्य'मिति सूत्रेण पूर्वपक्षनिरासपूर्वकं लोके यथा ईश्वरो लीलां करोति, तत्र न तदति-
रिक्तं प्रयोजनान्तरम्, तथात्रापीति समाधाय, लीलास्वरूपमाह कैवल्यमिति । स्वरू-
पान्तिरिक्ता । तथाच समाधानोत्तरं स्वरूपकथनं सपरिकरायाः स्वरूपात्मकत्वज्ञापनाय ।
तेन 'अहिकुण्डल'सूत्रे वक्ष्यमाणाज्ञायाद्भगवानेव तावद्रूपस्तथा क्रीडतीति फलितम् । एतदेव
आथर्वणे कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्तु आभिर्भिन्नो न वै विभुः । भूमावुत्तारितं
सर्वं वैकुण्ठं स्वर्गवासिन'मिति मन्त्रे परस्पराभेदकथनादुक्तम् । वाराहपुराणे च 'अन्येव
काचित्सा सृष्टिर्विधातृव्यतिरेकिणी'ति तस्या विधातृव्यतिरेकित्वकथनात्तदुपबृंहितम् ।
तथाचास्माद्विशेषाच्च साधितपूर्वमपार्थतामापद्यत इत्यर्थः । 'लिङ्गेन च गुणेन चे'ति चका-
रद्वयेन यथा भगवल्लीलाश्रवणादिना कृतार्थता, तथैव तेषामपीति बोधितम् । तदपि
गर्भस्तुतौ 'शृण्वन् गृण'न्नित्यस्य सुबोधिन्यां चकारसूचितार्थनिरूपणे भगवत्सम्बन्धि-
नामप्यन्येषां श्रवणादिकं फलसाधकमित्यनेनोक्तम् । तर्हि प्रत्यक्षस्य का गतिरित्यत
आहुः तथापीत्यादि । यावता तारतम्येन । कार्यं तत्तत्प्रकारकविधित्सितलीलारूपम् ।
सिध्यतीति शेषः । तावत्तारतम्यं तस्य जीवस्य स्वरूपे देहे वा तत्क्रियासु वा करोति । हि
यतो हेतोः । तथाच कार्यसाधनार्थेन तारतम्येन सर्वमेव सङ्गच्छते । तेन प्रत्यक्षं तावदंशे
यथार्थमपि तु न तावत्त्वस्य नियामकम् । अतो न प्रत्यक्षशब्दयोर्विरोध इत्यर्थः । अयं च
सार्धकारिकोक्तोऽर्थो 'हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्त'मित्यत्र
विचारितः । तेन यं जीवं मर्यादादिभ्यः पृथक्कृत्यानुग्रहेण पुष्टौ प्रवेशयति, तस्येयं व्यवस्था
बोध्या । तत्र हि 'निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिके श्रुतं साम्यं किमशेषधर्मैः, उत
कतिपयधर्मैरिति सन्देहे, अत्र परमपदोक्त्या अशेषतद्धर्मैरिति पूर्वपक्षे, तुना पूर्वपक्षं
निरस्य, हानौ भगवता सृष्ट्यर्थं जीवानां त्यागे विभाग इति यावत्, तस्मिन् कृते ये धर्मा-
स्तिरोहिता ऐश्वर्यादयः, ते ब्रह्मसम्बन्ध आविर्भवन्ति । तैः साम्यमुपचर्यते । न तु सर्वथा
साम्यम् । तत्र हेतुः । उपायनशब्दशेषत्वादिति । अत्र यत्साम्यमुच्यते, तदुपैतीत्युपायन-
शब्दशेषत्वेनोच्यते । तथा सति पूर्वं न स्थितमिदानीं प्राप्नोति । तेन परममुपेत्य साम्य-
मुपैतीति सिध्यति । तेन पूर्वोक्तमेव दृढीभवति । उचितं चैतत् । अन्यथा 'न तत्समश्चा-
भ्यधिकश्च दृश्यत' इति श्रुतिर्विरुध्येत । तत्र दृष्टान्तः । कुशाच्छन्दःस्तुत्युपगानवदिति ।
औदुम्बर्यः समिधः कुशाशब्देनाभिधीयन्ते । ता ज्योतिष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते ।
तत्र 'अभि त्वा शूर नोनुम' इति ऋक्स्थानेऽच उपसंहृत्य भकारेण गानं क्रियते । तथा
सति कुशानां, या छन्दसा स्तुतिस्तत्रोपगानकरणभूतो यो भकारस्तस्याप्यर्थमान्वयत्वेन
यथा नर्भूपता, तद्वदत्रापीत्यर्थः । ननु तत्त्वमस्यादिवाक्यैरभेदो बोधितस्तस्य का गतिरि-
त्यत्राह तदुक्तमिति । 'तद्गुणसारत्वात्तद्व्यपदेश' इति सूत्र एवोक्तं गौण्योच्यत इति । इयं
या मुक्तव्यवस्था सात्रानुगृहीते बोध्या । नित्यलीलास्थानां तूक्तैव पूर्वश्लोके । एतेन रसशा-
स्त्रोक्तरीतिकलीलायां वैचित्र्यासम्भवे साम्यकृतरमणासम्भवे स्वरूपबहुत्वैकत्वकृतरमणास-
म्भवे सर्वेषामेकविधत्वेन कार्यान्तरासम्भवादौ च ये सन्देहास्तत्प्रसङ्गात्प्रसङ्गपतिताश्च ते
५२ \hskip 14em श्रीपीताम्बरकृतविवृतिसमेता ।
सर्वे सामान्येनापाकृता बोध्याः । 'परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष' इति श्रुतेः 'यत्परो-
क्षप्रियो देवो भगवान् विष्णुरव्यय' इत्यादिस्मृतेश्च रहस्यलीलास्थत्वान्न विशेषतो विव्रियन्ते ॥
एवं स्वभावभेदादिसन्देहानपाकृत्य, केषाञ्चिद्भगवदुक्ते भक्तिमार्गे, केषाञ्चित्तादृशे
ज्ञानमार्गे, केषाञ्चित्तादृशे कर्मणि, तत्रापि केषाञ्चित्स्वतः प्रवृत्तिरासक्तिश्च, केषाञ्चिद्विधिव-
लात्, केषाञ्चित्स्वभावविरुद्धा देहादयः, इतरेषामनुकूला इत्यादीन् विशेषतो निराकर्तुं
पुष्टिजीवान् विभजन्ते ते हि द्विधेति ।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
ते पुष्टिजीवादयः हि यतो हेतोः भगवत्कार्यस्य लीलावैचित्र्यस्य सिद्ध्यर्थं शुद्ध-
मिश्रभेदेन द्विप्रकाराः । मिश्राः पुनः प्रवाहमर्यादापुष्टीनां यो विभेदः विशिष्टः शुद्धाद-
तिरिक्तः सङ्कीर्णो भेदस्तेन त्रिप्रकाराः प्रवाहसिश्रा मर्यादामिश्राः पुष्टिमिश्रा इति । तथा-
चैवंविधवैचित्र्यार्थादवान्तरभेदात्ते सन्देहा निवार्या इत्यर्थः ॥ १४ ॥
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
कथं निवार्या इत्याशङ्कायां तदभिज्ञापकं रूपमाहुः पुष्ट्येत्यादि । अत्र पुष्ट्यादिशब्दै-
र्मार्गा उच्यन्ते । तत्र भक्तिज्ञानकर्मणां विजातीयसंवलितानां मार्गत्वं केवलत्वे भगवद्धर्म-
त्वमित्येकादशस्कन्धसुबोधिन्यां स्थितम् । पुष्टिशब्दवाच्योऽनुग्रहोऽपि फलवलात्केवलो मिश्र-
श्चावधार्यते । तत्र केवलो निःसाधनेष्वङ्गीकृतेषु । यथा गोकुलस्थेषु व्रजरलेषु सर्वथा प्रपन्नेषु
च । 'अहञ्चापृतं निशि शयानमतिश्रमेण' 'केवलेन हि भावेन' 'मत्कामा रमणं जारम्'
'सर्वधर्मान् परित्यज्य' 'तस्मात्त्वमुद्धवोत्सृज्य नोदना'मिति वाक्येभ्यः । द्वितीय उक्तरीत्या
त्रिविधः । उभावप्यवान्तरभेदैरनन्तविधावित्यपि 'तथापि यावते'त्यनेन सूचितमेव । एवं
सति एते मामभिजानन्त्वित्यभिध्यापूर्विका या पुष्टिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते सर्वज्ञा
यथा तथा भगवत्स्वरूपज्ञातारो भवन्ति । तेन सर्वज्ञत्वं तदभिज्ञापकं लिङ्गम् । उदाहरणं तु
नारदर्षभादयः । ज्ञानमिश्राः परमभक्ता इति यावत् । 'मुक्तानामपि सिद्धानां नारायणपरा-
यणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुन' इत्यादिवाक्यानामेते विषयाः । मदुपासा-
दिपरा एते भवन्त्वित्यभिध्यापूर्वकेण प्रवाहेण मिश्रा ये पुष्टावङ्गीकृतास्ते क्रियारताः भगव-
दुक्तपञ्चरात्रादिप्रसिद्धकर्मपराः । प्रवाहिकभक्ता इति यावत् । तादृशक्रियापरत्वं तदभिज्ञा-
पकम् । उदाहरणं श्रुतदेवनिमिप्रभृतयः । मद्गुणान् जानन्त्वित्यभिध्यापूर्विका या मर्यादा
भगवदुक्तब्रह्मवादसरणिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते गुणज्ञा भगवत उत्पन्नानां गुणानां
सत्त्वादीनां भगवदीयानां स्रष्टृत्त्वैश्वर्यादीनां ज्ञातारो भवन्तीति तदभिज्ञापकम् । मार्गादिक-
भक्ता इति यावत् । उदाहरणं भीष्मादयः । शुद्धास्तु प्रेम्णा उपलक्षिताः । निरुपधिप्रेमैव
तेषामभिज्ञापकः । ते अतिदुर्लभाः । तान् भगवान् कदापि न त्यजति । 'ये दारागारपुत्राप्त-
पुष्टिप्रवाहमर्यादा । ५३
प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' 'विसृजति हृदयं
न यस्य साक्षाद्धरि'रित्यादिवाक्यानां विषयाः । निबन्धेऽपि 'एतादृशस्तु पुरुषः कोटिष्वपि
सुदुर्लभः । यो दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा कृष्णे परं भावं गतः प्रेमप्लुतः
सदे'त्यनेनोक्ताः । न च ज्ञानिभक्तापेक्षया तेषां निकर्षः शङ्क्यः । 'अविज्ञातं विजानतां विज्ञात-
मविजानता'मित्यादिश्रुतिभिः स्वरूपावित्त्वेऽप्युत्कर्षस्य सिद्धत्वात् । किञ्च । अतिदुर्लभा
ब्रह्मादिदुरापचरणरेणवः । 'षष्टिवर्षसहस्राणी'ति बृहद्वामनपुराणवाक्यात् । अत्र येऽवान्त-
रभेदास्ते फलबलादूह्याः । तथा ये निरुपधिप्रेमाणोऽपि विक्षिपन्ति कदाचित्ते जीवाः
शुद्धाः मनस्तेषां मिश्रम् । ये चैकमनसोऽपि देहेनाशक्ताः सेवितुं तेषां देहा मिश्राः ।
ये पुनस्तादृशाः समर्था अपि क्रियामन्यादृशीं विदधति, तेषां क्रिया मिश्रेत्याद्यप्यूह्यम् ।
भक्तिभेदा भक्तिहंसाद्भावभेदा जलभेदादवगन्तव्याः ॥ १५ ॥
एतेन साङ्कर्यदर्शनजाः सन्देहा निराकृता इत्याशयेन साधननिरूपणमुपसंहरन्ति एवमिति ।
एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७॥
एवम्प्रकारकं सर्गभेदमनुसन्धाय ते सन्देहा निवारणीया इत्यर्थः । अतः परं शुद्धा-
नामपि बाल्यादिभेदेन नानाविधं फलं दृश्यते । तत्कथम् । किञ्च । 'कायेन तु फलं
पुष्ट्या'वित्यत्र तृतीयानिर्देशात् किं स्वरूपातिरिक्तं फलमित्याद्याशङ्कानिरासाय च फलनिरूपणं
प्रतिजानते फलमिति । तदाहुः भगवानैव हीति । 'यो वै भूमा तत्सुखम्' 'पुरुषात्न
परं किञ्चित्सा काष्ठा सा परा गति'रित्यादिश्रुतेः । 'परमतः सेतुन्मानसम्बन्धभेदव्य-
पदेशेभ्य' इति सूत्रे सेतुर्विधृतिः । 'यावान् वा अयमाकाशस्तावानेषः' 'प्राज्ञेनात्मना सम्प-
रिष्वक्तः' 'य एषोऽन्तरादित्ये हिरण्मय' इत्यादिभिः सेत्वादिब्यपदेशैः फलान्तरसन्देहे,
'सामान्यात्त्वि'ति सूत्रेण संसारतरणसाधनत्वनिर्लेपत्वादुर्लभत्वादिव्यत्वाद्यर्थं ते धर्मा ब्रह्म-
ण्युच्यन्ते । तावता तदतिरिक्तस्य फलस्य न सिद्धिरिति व्यवस्थापनाच्च भगवानैव फलम् ।
स्वर्गमोक्षादयस्तु मार्गान्तरे । तान्यपि 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति
श्रुतेर्भगवदानन्दांशभूतानि । मोक्षोऽप्यात्मसुखात्मा ब्रह्मानन्दात्मा च तथा । पुष्टिमार्गे तथा
न, किन्तु मूलरूपो भगवानैव फलम् । तत्र प्रमाणभूतां युक्तिमाहुः हीति । मार्गभेदसा-
धनावसर उक्तैः प्रमाणैरेव तथा निश्चयादित्यर्थः । तृतीयानिर्देशस्तु फलस्य साधनासाध्य-
त्वबोधाय । अतो न विरोधः । तत्र विशेषमाहुः स इत्यादि । स भगवान् भुवि हृदय-
भूमौ लीलास्थाने वृन्दावनादौ च गुणस्वरूपभेदेन यदर्थं यथा आविर्भवेत्, तेषां तथा
तादृशगुणस्वरूपभेदेन फलं भवेत्, फलरूपो भवेत् । तथाच यदर्थं यद्गुणरूपेणाविर्भवति
नृसिंहरामवामनादिरूपेण, तेषां मुक्तावपि तेन रूपेण फलति । यदर्थं च बाल्यपौगण्ड-
किशोररूपेणाविर्भवति, तेषां मुक्तावपि तथैव फलति । तेन तदर्थकतथाविर्भाव एव तादृ-
क्फलगमकः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' । 'तद्धैतान् भूत्वावती'ति स्मृति-
५४ श्रीपीताम्बरकृतविवृतिसमेता।
श्रुतिप्रमाणकश्च । तेन 'मन एव मनुष्याणां पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव
न भविष्यत्' इति न्यायेन यथा पूर्वं तद्धृदि प्रकटीभूतः, तथैवाग्रे मुक्त्यनन्तरमपि पूर्ववदेव
तेषु तां लीलामनुभावयतीति । तेन नित्यत्वमपि लीलायाः स्थापितम् । प्रपञ्चितमेतद्विद्वन्म-
ण्डने लीलानित्यत्ववाद आकरे च । एवं फलतः पुष्टिमार्गस्यान्यमार्गसाङ्कर्यं निराकृतम् ॥
अतः परमवान्तरसाङ्कर्येण मिश्रेषु कचिच्छापो दृश्यते, स पुष्टिमार्गीयत्वात् 'तथा
न ते माधव तावका' इति वाक्यविरोधाच्चानुचितो निकर्षजनकश्चेत्याकाङ्क्षायां समादधते ।
आसक्तौ भगवान्नेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
आसक्तावित्यादि । अन्यासक्तौ सत्यां भगवान्नेव शापं दापयति । यथा नलकुब-
रादेः । क्वचिदिति । यत्र तस्या औत्कट्यं तत्र । एवमहङ्कारे । यथा चित्रकेतुपरीक्षितोः ।
तथाच तदोषपरिहाराय भगवत्कृत एवायं तत्तद्द्वारको दण्डः । तेन न निकर्षजनकः । तर्हि
यत्र नोभयं तत्र कथं शाप इन्द्रद्युम्नादौ । तत्राहुः लोक इत्यादि । यद्येवं न कुर्यात्, तदा
लोके मर्यादादिमार्गा न तिष्ठेयुः । तथा सति लोकोच्छित्तिः स्यात् । अतो लोकसङ्ग्रहार्थं
तथा करणम् । अत्र गमकमाहुः हीति । 'यद्यदाचरति श्रेष्ठ' इति वाक्येन तथा निश्चया-
दित्यर्थः । शापस्य भगवत्प्रयुक्तत्वं मौसले स्फुटम् । तेनान्यत्राप्यनुसन्धेयम् ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
ननु गमकमन्तरेण तथानुसन्धानमशक्यमित्यत आहुः न ते इत्यादि । ते शाप-
विषयाः पाषण्डतां न यान्ति । ये शप्तास्ते पुनरत्यन्तं भक्ता एव जाताः । अतो ज्ञेयं
भगवतैवायं दण्डः कृत इति । ननु दण्डस्थले युक्तमेतत्, शेषे तु नायं समा-
धिरित्यतस्तत्राहुः न चेत्यादि । तेषामपि रोगाद्युपद्रवा न भवन्ति । प्रायेण महानु-
भावा एव भवन्ति । महानुभावत्वाभावेऽपि रोगाद्यभावस्तु भवत्येव । एतेनान्यर्थं भक्त-
दुःखदातृत्वदोषोऽपि निराकृतः । तथापि स्वल्पार्थमेतावत्करणं न कृपालोरुचितमित्यत
आहुः शास्त्रमित्यादि । शिष्यतेऽनेनेति शास्त्रं शापदापनम् । तत् शुद्धत्वस्य हेतुर्निरुप-
धिरसात्मकं प्रेम तदर्थम् । यद्येवं न कुर्यात्, तदा मार्गान्तरमिश्रत्वनिवृत्त्यभावाच्छुद्धपुष्टत्वं
न भवेत् । तथाच तत्रापि फलोन्मुखा कृपैव बीजम्, अतो न भगवति दोषलेशोऽपीत्यर्थः ।
ननु युक्तमेतत्, तथापि येषां शुद्धत्वं चिकीर्षितं ते मिश्रेष्वप्यत्युत्कृष्टा एव वाच्याः,
तथा सति तेषां कथमीदृशो भावः । न हि तादृशेषु कर्म प्रारब्धादिरूपं प्रभवति, न वा
ते ज्ञात्वाऽवजानन्तीति सन्देहे, तेषामेवम्भावे बीजमाहुः भगवदित्यादि । 'यदेकमव्यक्त-
मनन्तरूप'मिति श्रुत्या भगवाननन्तरूपः । 'अथर्वशिरःशिखाध्यायं शतमेकमेकेन मन्त्र-
राजजापकेन तत्समं विश्वो वैश्वानरः प्रथमः पाद' इत्यादिश्रुतिभिर्व्यूहादिबोधकस्मृतिभिश्च
तेषु तरतमभावयुक्तश्च । एवं सति प्रकारान्तरेणापकर्षाभावे तत्क्रतुन्यायेनोपास्यतारतम्य-
प्रयुक्तं तारतम्यं केन वार्येत । एवं तारतम्ये उत्कृष्टानामप्येवम्भावो न दुर्घटः । अत
एव सङ्कर्षणोपासकस्य चित्रकेतोः सङ्कर्षणचरणे मनोनिवेशो वृत्रेन्द्रयुद्धे । निर्विशेषो-
पासकसेन्द्रद्युम्नस्य गजेन्द्रत्वेऽपि निर्विशेषोपवर्णनम् । तदेतदुक्तं हीति । तथाच तन्नि-
वृत्त्यर्थमेवङ्करणमित्यर्थः ॥ १९ ॥
एवं प्रासङ्गिकं परिहृत्य इदानीन्तनेषु पुष्टिजीवत्वज्ञापकं लक्षणं वदन्तः प्रसङ्गात्सर्वेषामाहुः ।
वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
वैदिकत्वमित्यादि । कापट्यमन्तर्बहिर्विसंवादः । स च स्वभावस्य गोपनाय तत्तत्प्रका-
शनमित्येकः, स्वस्य प्रयोजनाभावेऽपि तत्करणमित्यपर इत्युभयविधात्कापट्यात्तेषु वैदिकत्वं
लौकिकत्वम् । सहजं तु वैष्णवत्वं भगवदाज्ञाकारित्वम् । ततः वैष्णवादन्यत्र विपर्ययः । एकत्र
वैदिकत्वमितरत्र लौकिकत्वं सहजम् । तदतिरिक्तत्वं कापट्यादिति । तेन तेन लक्षणेन
ते ते बोध्या इत्यर्थः । एवञ्च तेषां फलं भगवत्तारतम्येनेत्युक्तरीत्या तत्क्रतुन्यायेन भावना-
नुरूपं भवति । तत्राप्येतन्मार्गीयाणां भगवतो व्रजपतेरेव भावनेति व्रज एव सेवौपयिक-
देहप्राप्तिर्भवति । परं तत्कृतसेवानुरूपा । सेवाफलग्रन्थे तथैव सिद्धत्वादिति ॥ २० ॥
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
ननु यदि त्रिविधा एव जीवास्तर्हि कथं केचन सर्वत्र तुल्यदर्शनाः सर्वाभिनिविष्टा
दृश्यन्ते, तत्राहुः सम्बन्धिन इति । तुशब्दस्त्रैविध्यपक्षं व्यावर्तयति । ये जीवाः सम्ब-
न्धिनः उक्तत्रिविधमार्गसम्बन्धभाजः, तथा अपरे इतोऽपि हीनाः प्रवाहस्थाः, ते चर्षणी-
शब्दवाच्याः । 'पृषि प्रजननैश्वर्यो'रिति धात्वर्थात्प्रजननस्वाच्छन्द्याभ्यां युक्ताः । तेन तद्यो-
ग्यत्वाच्चर्षणीभिः परिभ्रमणशीलाभिः शक्तिभिर्व्याप्तास्तच्छब्देनैवोच्यन्ते । तदभिज्ञापकमाहुः
ते सर्व इत्यादिपादत्रयेण । तेषां फलमाहुः तेषामिति । तथाच पञ्चरात्रे मध्यमा अधमाश्च
ये मानुषा उक्तास्त एते । अत एव 'संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शना'दिति
सूत्रेण यमनियता तेषां गतिर्विचारिता। 'वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह
सत्येनेच्छन्ते य उ चानृतवादिन' इति । अतस्तेषां यथाकर्म सकलं कला खण्डस्तत्सहितं
खण्डितं फलं सर्वत्र भवति । तथा तदनुभवन्तः सम्बन्धिनः संसरन्त्येव । सृतियोग्यत्वात् ।
प्रवाहस्थास्तु तथाभूता निरयिणोऽग्रे भवन्तीत्यर्थः ॥ २२ ॥
एवमत्रानुप्रसङ्गपतितं सर्वमुक्त्वा क्रमप्राप्तं प्रवाहभेदं वदिष्यन्तो व्यावर्तकधर्मैः
प्रवाहेण च स्वरूपभेदस्य सिद्धत्वात्साधनादिभेदं वक्तुं प्रावाहिकजीवदेहक्रियाभेदनिरूपणं
प्रतिजानते प्रवाहस्थानिति ।
५६ श्रीपीताम्बरकृतविवृतिसमेता ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
तेषां स्वरूपं लक्षणमाहुः जीवास्ते इत्यादि। 'प्रवृत्तिं चे'ति सन्दर्भे नानालक्षणा-
नामुक्तत्वादेकस्मिंस्तावतामदर्शनात्प्रत्येकं यत्किञ्चिल्लक्षणवन्तोऽपि त एवेति ज्ञापनार्थं
सर्वे इत्युक्तम् ॥ २३ ॥
ननु केचन पूर्वं तल्लक्षणवत्तया निश्चिता अपि पश्चाद्व्यभिचरन्तो दृश्यन्ते लोके
स्मृतौ चेति लक्षणमव्यापकमित्यतस्तान् विभजन्ते ते च द्विधेत्यादि ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
ताननु तदनुसारिण एव । न तु तादृशाः । तेऽज्ञाः । एत एवाग्रे भगवता हता
मुच्यन्ते । कचिद्द्वेषत्यागेऽपि मुच्यन्ते । अतो हेत्वन्तरेणाज्ञाने गते स्वां प्रकृतिं भजन्ति
इति न ते लक्ष्याः । अतो लक्षणमदुष्टमित्यर्थः ॥ २४ १/२ ॥
ननु सर्गभेदे प्रावाहिक आसुरः सर्गो जघन्य उक्तः । तेन तदङ्गक्रिया दुष्टा इति
सिद्धम् । तथा सति तत्र प्रवेशस्तादृशामेवोचितो, नेतरेषाम् । ततस्ते हन्तव्या एव स्युः,
नानुग्राह्याः । दृश्यते तु विपरीतं बलिप्रह्लादादिषु, तथा बाणादिषु क्रियाविरोधोऽपीत्यत आहुः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ १/२ ॥
प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिमार्गीयः तेन समागमनेन कृत्वा युज्यते, तैः
आसुरधर्मैः । तत्र हेतुः । यतः कर्मणा तादृशेन तत्कुले जातः । अतस्तथेत्यर्थः । तथाच
तत्कर्मवासनया तादृक्क्रियाकरणेऽपि जीवस्य पुष्टिस्थत्वाद्वगवता तत्कर्म निवार्य फलं दीयते
यथाजामिलस्य अतो न दोष इति भावः । कर्म च भगवदपराधो भक्तापराधो वेदनिन्दा
अधर्मकरणं वेत्यादिकम् । तच्च 'अत्रापि वेदनिन्दायामधर्मकरणात्तथा । नरके न भवेत्पातः
किन्तु हीनेषु जायत' इति निबन्धोक्तमार्गेणोद्यम् । एवं बलिप्रह्लादादिषु दुष्टकर्मणः स्वल्प-
ताप्यूह्या । तेन न दोषः । एतदग्रे आधुनिकारष्टवशाद्ग्रन्थो न मिलतीति नोपक्रमोपसंहारै-
क्याभावदोषः । एतदग्रे प्रवाहमार्गीयप्रयोजनसाधनाङ्गक्रियाफलानि मर्यादामार्गीयप्रयोजन-
स्वरूपाङ्गक्रियाः साधनं फलं च यावता ज्ञायते, तावान् ग्रन्थोऽपेक्षित इति ज्ञेयम् ॥२५ १/२॥
इति श्रीवल्लभाचार्यचरणाब्जनखेन्दुना ।
शोभितास्तारका यास्ताः स्वबुद्ध्या विशदीकृताः ॥ १ ॥
निपुणं विभाव्य सततं विलसद्रससिन्धुचन्द्रमुखवागमृतम् ।
विवृतं मयास्य कृतमेतदहो सरहस्यमस्ति विबुधैकसुखम् ॥ २ ॥
इति श्रीवल्लभनन्दनचरणरेण्वेकतानश्रीयदुपतितनयपीताम्बरविरचितं
पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गतं-पञ्चमं
सिद्धान्त-रहस्यम्
एकादशटीकाभिः समलंकृतम्
१. श्रीगोकुलनाथानां पुरुषोत्तमसिद्धान्त विवृतिः
२. श्रीरघुनाथानां सि. र. विवरणम्
३. श्रीकल्याणरायाणां विवृतिः
४. श्रीव्रजोत्सवानां विवृतिः
५. श्रीगोकुलोत्सवानां विवृतिः
६. श्रीहरिरायाणां विवृतिकारिका
७. श्रीविट्ठलेश्वराणां विवृतिः
८. श्रीपुरुषोत्तमानां विवरणम्
९. श्रीगिरधराणां विवृतिः
१०. श्रीलालूभट्टानां सिद्धान्तरहस्यटीका
११. श्रीशाचार्यमतानुवर्तिनां संवाद विवृतिः
श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त-
पीठान्तर्गत-चतुर्थ-पीठाधिष्ठित-गोस्वामिश्री १००८
श्रीदेवकीनन्दनाचार्यैः प्रकाशितम्
वि. सं. २०३६ श्रीवल्लभाब्दा : ५०२
प्रकाशक :
गोस्वामीश्री १००८ श्रीदेवकीनन्दनाचार्य,
चतुर्थपीठ, गोकुल, मथुरा २८१३०३, भारत.
साधारण संस्करण २००० प्रति
राजसंस्करण १००० प्रति
श्रीवल्लभाब्द ५०२
ग्रन्थ-परिचय लेखक : गोस्वामी श्याम मनोहर
मुद्रक :
स्टुडियो बहार, २३-ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी,
बम्बई-४०० ००७
गोस्वामिश्री १००८ श्रीदेवकीनन्दनाचार्य
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त (blank) पृष्ठ है।
॥ श्रीकृष्णाय नमः ॥
॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥
ग्रन्थ-परिचय
एक किंवदन्तीके अनुसार सिद्धान्तरहस्यका प्रणयन श्रीमहाप्रभुने वि.
सं. १५४९ में किया था. श्रीमहाप्रभुके चरित्रग्रन्थों तथा इस ग्रंथ के अन्तः-
साक्ष्यके आधारपर यह निश्चित है कि इसकी रचना गोकुलमें श्रावण शुक्ल
एकादशीको अर्धरात्रीमें हुई थी.
श्रीयदुनाथजी विरचित वल्लभदिग्विजयके मध्यमयात्रा परिच्छेदमें यह
घटना यों वर्णित है—"श्रीमहाप्रभु मथुरासे गोकुल पधारे. वहां श्रावण शुक्ला
एकादशीका व्रत एवम् जागरण किया. मध्यरात्रीमें भगवान्ने प्रकट होकर
दर्शन दिये. तत्र श्रीमहाप्रभुने पवित्रा धराकर मिश्रीका भोग धरा. पश्चात्
श्रीगोकुलनाथने श्रीमहाप्रभुको आश्वस्त किया की उन्हें दैवी जीवोंके उद्धारकी
चिन्ता नहीं करनी चाहिये. दैवी जीवोंके उद्धारार्थ प्रस्तुत ग्रन्थमें वर्णित
भावनाके साथ गद्यमन्त्रका दान ( मदुक्तभावनासहितं गद्यम् ) श्रीमहाप्रभुको
दिया गया. अन्योंको भी इस भावनाके उपदेशके साथ गद्यमन्त्रके द्वारा
दीक्षित करनेका आदेश दिया गया. श्रीमहाप्रभुको वचन दिया गया कि जिसे
यह सर्वस्वसमर्पणपूर्वक आत्मनिवेदनकी दीक्षा दी जायेगी उसकी अहन्ता-
ममता के सेवामें विनियोग द्वारा उसे भगवल्लीलाकी अनुभूतिका सामर्थ्य प्रदान
किया जायेगा. प्रातः श्रीमहाप्रभुने यह दीक्षा दामोदरदास तथा कृष्णदास को
दी.”
८४ वैष्णवनकी वार्ताके अनुसार भगवदाज्ञाके बाद श्रीमहाप्रभुने समीप
में सोये हुए दामोदरदास हरसानीको पूछा— “दमला ! ते कछु सुन्यो ? तब
दामोदरदासने कह्यो जो महाराज ! मैंने श्रीठाकुरजीके वचन सुने तो सही
समुझ्यो नाहीं.”
सुना तो बृहदारण्यकोपनिषद्में भी सभीने था—समर्पणका सिद्धान्त,
“अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा. तद्यथा रथनाभौ
रथनेमौ चाराः समर्पिताः एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः
१ वैष्णववाणी (अंक ४ वर्ष १९७९) में श्रीनागरदास बांभणिया शास्त्री द्वारा लिखित लेख.
सर्वाणि भूतानि सर्व एवात्मानः समर्पिताः”. पर समझमें कहां आता है !
सभी कुछ जिस परमात्मामें समर्पित है उस परमात्माके प्रति मन-वाणी-देह-
से सर्वसमर्पणकी स्वीकृति सबको समझमें नहीं आती. अतएव कह तो भगवा-
न्ने गीतामें भी दिया है कि “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु,
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे” पर भगवान्की इस प्रतिज्ञाका तथा
प्रेमाश्वासनका तात्पर्य कहां समझमें आता है ? सुनी तो भागवतमें भी हमने
भगवद्वाणी है कि “ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परं हित्वा मां
शरणं याताः कथं तांस्त्यक्तुमुत्सहे” पर वह कहां समझमें आती है !
स्वयम् इस सिद्धान्तरहस्यमें साक्षाद् भगवदुक्त भावनासहित गद्यमन्त्रमेंसे
जब श्रीमहाप्रभुने अक्षरशः भगवदुक्त भावना दोहरा दी फिर भी वह सुनने
के बाद भी समझमें नहीं आती! कई विद्वानोंको सन्देह होता है कि गद्यमन्त्र
साक्षाद् भगवदुक्त है या श्रीमहाप्रभूक्त है या श्रीप्रभुचरणोक्त हे या
श्रीगोकुलनाथजीने इसे परवर्ती कालमें जोड़ दिया है! तर्क वितर्क उठते रहते
हैं कि “साक्षाद् भगवता प्रोक्तं तदक्षरश उच्यते” कहने के बाद जब गद्यमन्त्र
नहीं कहा गया तो अवश्य ही वह परवर्ती कालमें श्रीप्रभुचरणके चतुर्थात्मज
श्रीगोकुलनाथजीने जोड़ दिया होगा ! परन्तु इस अक्षरशः निरूपणमें तो
पञ्चाक्षरमन्त्र भी नहीं दोहराया गया हैं, तो केवल गद्यमन्त्र ही क्यों—पञ्चा-
क्षर मन्त्रको भी प्रक्षिप्त क्यों न मान लिया जाये. जबकि श्रीगोकुलनाथजीसे
पूर्ववर्ती श्रीकृष्णदास अधिकारी —“श्रीगोपालमन्त्र अष्टाक्षर पञ्चाक्षर के
श्रवन कराये, गद्यमन्त्र सब जीवनिको दे कृष्णचरण सबके चित लाये.” तथा
“कृष्ण श्रीकृष्ण मनमाहि गति जानिये, देह इन्द्रिय प्राण दारागारादिवित्त
आत्मा सकल श्रीकृष्णकी मानिये. कृष्ण मम स्वामी हों दास मनवचकरम
कृष्ण कर्ता येही सदा जिय आनिये. कृष्णदास निनाथ हरिदासवर्यधरचरणरज
वल्लभाधीश मन सानिये.” कहते हैं. इसे सुनते और निरन्तर गाते रहनेपर भी
आज यह समझमें नहीं आता !
कतिपय विद्वानोंके अनुसार अतएव यह गद्यमन्त्र श्रीगोकुलनाथजी द्वारा
नहीं किन्तु श्रीप्रभुचरण द्वारा पञ्चाक्षरके साथ जोडा गया माना जाता है.
जबकि उनके ज्येष्ठभ्राता श्रीगोपीनाथजी स्वरचित साधनदीपिकामें—“नाय-
मात्मा प्रवचनैः न धिया बहुना श्रुतैः, लभ्यते वरणं हित्वा वृतं संवृणुते श्रुतेः, स्मृत्वा
स्वीयवियोगाग्निं तापदाहो भवाम्बुधौ, ततः सर्वं समर्प्यैव श्रीगोपालमनुं श्रयेत
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियं दारान् सुतान् गृहान् प्राणान् यत्परस्मै
निवेदनम्' कहते हैं तो स्पष्ट हो जाता है किं गद्यमन्त्र प्रभुचरणसे पूर्व ही
दीक्षाविधिमें समाविष्ट हो गया था. किन्तु "महाराज! सुन्यो पर समुझ्यो नाही! "
निवेदन समर्पण एवम् विनियोग उत्तरोत्तर एक-दूसरेके रहस्य या तात्पर्य-
रूप हैं. पञ्चाक्षरमन्त्रके द्वारा जो आत्मनिवेदन किया जाता है, गद्यमंत्रमें उन्हीं
'आत्मा' तथा 'निवेदन' का रहस्य आत्मीय सकल पदार्थोंके समर्पणके रूपमें
समझाया गया है. गद्यमन्त्रमें जिस आत्मा एवम् आत्मीय सकल पदार्थोंका
समर्पण किया जाता है, उसका रहस्य अपने स्वामी श्रीकृष्णकी
तनुवित्तजा सेवामें स्वयम् अपने तथा अपनेसे सम्बन्धित सभी पदार्थों के
विनियोगमें निहित है. अन्यथा समर्पण पूर्णतया चरितार्थ हो नहीं पाता.
समर्पितका विनियोग भी अतः आवश्यक है.
श्रीमहाप्रभुको आत्मनिवेदनकी भावनाके रूपमें यही प्रभुने प्रकट होकर
समझाया था-“असमर्पितवस्तूनां तस्माद् बर्जनमाचरेत् निवेदिभिः समर्प्यैव सर्वं
कुर्यादिति स्थितिः". आत्मनिवेदीको असमर्पित वस्तुका त्याग करना
चाहिये. अपने सारे कामकाज समर्पणपूर्वक ही चलाने चाहिये. यही
ब्रह्मसम्बन्ध या आत्मनिवेदन की मूलभावना है.
"निवेदनके समय अपनेसे सम्बन्धित सभी वस्तुओंका प्रभुसे-ब्रह्मसे सम्बन्ध
हो जाता है... जिन्होंने अपने प्राणोंको कृष्णसात् कर लिया है उन्हें किस
बातकी चिन्ता हो सकती है?" नवरत्नके इस वचनकी तथा सिद्धान्तरहस्यके
"ब्रह्मसम्बन्ध करनेसे सभीके देह तथा जीव के सभी तरहके दोष निवृत्त हो
जाते हैं" इस वचनकी परस्पर संगति बैठानेपर पञ्चाक्षरमन्त्रद्वारा आत्मनिवेदन
तथा गद्यमन्त्रद्वारा वियोगाग्निके स्मरणपूर्वक आत्मीय सकल पदार्थोंके
समर्पणको ही मिलाकर 'ब्रह्मसम्बन्ध' कहा जाता है. यही सिद्धान्तका रहस्य
हमें सिद्धान्तरहस्य ग्रन्थमें सुनायी पड़ता है.
यही रहस्य श्रावण शुक्ला एकादशीकी महानिशामें साक्षात् भगवान्ने
प्रकट होकर श्रीमहाप्रभुको सुनाया था. उस पञ्चाक्षर तथा गद्यमन्त्र के अंशको
गोप्य होनेके कारण छोड़कर समर्पणके सिद्धान्तके इस भगवदुक्त रहस्यको यहां
अक्षरशः श्रीमहाप्रभुने दोहरा दिया हे. जो बात भगवान्ने गद्यमन्त्रकी
भावनाके रूपमें कही थी उसीका यहां अक्षरशः निरूपण है पञ्चाक्षर या गद्य
मन्त्रका नहीं.
जीव तो अनेक प्रकारके दोषोंसे भरे हुए हैं. उदाहरणतया (१) अविद्याके साथ
सम्बन्ध, तत्कृत अहन्ता-ममताकी भ्रान्ति, तत्कृत प्राणधारणके प्रयत्न जैसे दोष
आत्माके साथ लगे रहते हैं. सूक्ष्म शरीरमें काम-क्रोध-लोभ आदि तथा क्षुधा-
पिपासा जैसे अनेक सहज दोष विद्यमान रहते हैं. इसी तरह स्थूल शरीरमें
भी अनेक तरहकी अशुद्धि तथा रोगादि दोष सहज पाये जाते हैं. (२) पापब-
हुल प्रदेशोंमें जन्मग्रहण करनेसे या कभी तो गमनमात्रसे भी शास्त्रोंके अनुसार
दोष लग जाते हैं. (३) कलिकालके कारण अनेक धार्मिक व्यवस्था लुप्त हो गयी
हैं. अतः कालजन्य दोषोंको भी शास्त्रमें स्वीकारा गया है. (४) कभी-कभी जान-
बूझकर या मोहवश हम ऐसे आचरण कर बैठते हैं जिन्हें लोक एवम् शास्त्र
में निन्दित माना जाता है. (५) कभी-कभी अपरिहार्य स्थितिमें अनचाहे अन-
जाने ऐसे गलत काम हमसे हो जाते हैं या हठात् करने पडते हैं जो लोक-
वेदनिन्दित हों.
इस तरह लोक तथा वेदों में गर्हित अनेक प्रकारके दोषोंसे जीव भरा
हुआ रहता है. किन्तु ब्रह्मसम्बन्ध होनेपर ये दोष निवृत्त चाहे हों या न हों पर
पुष्टिजीवद्वारा की जानेवाली भगवत्सेवामें बाधक नहीं हो सकते. ब्रह्मसम्बन्ध
के अलावा अन्य किसी भी प्रकारसे इन दोषोंकी निवृत्ति सम्भव नहीं है.
ब्रह्मसम्बन्धका वास्तविक स्वरूप असमर्पित वस्तुके त्याग करनेपर ही सम्पन्न
होता है. कुल मिलाकर बात इतनी ही है कि जिसने आत्मनिवेदन किया है
उसे अपने सारे कामकाज समर्पणपूर्वक ही चलाने चाहिये. किन्तु इसमें एक
सावधानी अपेक्षित है कि हम ऐसी किसी भी वस्तुका, जिसका उपभोग
प्रथम हमने कर लिया हो, देवाधिदेव भगवान् श्रीकृष्णको समर्पण न करें.
हमारे प्रथम उपभोगके कारण वस्तु हमारी अर्धभुक्त या उच्छिष्ट हो जाती
है और उसे श्रीकृष्णको समर्पित करनेकी कोई तुक नहीं है. अतः हमारे उप-
भोग करनेसे पूर्व सभी वस्तुओंका समर्पण आवश्यक है.
भगवदर्थ सभी वस्तुओंको समर्पित कर देनेपर आत्मनिवेदीके दैनन्दिन
व्यवहार कैसे निभ पायेंगे ? और असमर्पितका भी उपभोग निषिद्ध माना
गया है तो यह दोनों बाते कैसे शक्य होंगी ?
'भगवान्को दानरूपमें जो कुछ भेंट कर दिया जाता है उसका पुनः अप-
हरण या उपभोग नहीं करना चाहिये' यह विधान पुष्टिमार्गीय साधना-
प्रणाली पर लागू नहीं होता. क्योंकि पुष्टिमार्गीय सेवाप्रणालीमें जैसे घरके
सेवक मालिककी उपभोग की हुई वस्तुओंका—अन्नवस्त्रादिका उपभोग लोकमें
करते ही हैं वैसे ही सब कुछ पहले एकवार प्रभुको समर्पित करना चाहिये
और पश्चात् स्वयम्के उपभोगार्थ ग्रहण करना चाहिये. अतः सर्वसमर्पण
एवम् असमर्पित त्याग के सिद्धान्तमें न तो विरोधाभास और न किसी प्रका-
रकी कठिनाई ही है. ब्रह्मसम्बन्ध लेते समय जिन वस्तुओंका हम समर्पण
करते हैं उनका साक्षात् या परम्परया किसी भी तरह एक वार भगवान्की
सेवामें विनियोग हो जानेपर उनके सारे दोष निवृत्त हो जाते हैं. अतः इस
तरहकी दोषरहित ब्रह्मभावापन्न वस्तुओंके उपभोगमें किसी भी प्रकारके
सांसारिक अनर्थकी सम्भावना नहीं रह जाती है. जैसे नदी-नाले गंगामें मिल
जाने पर गंगाजल ही मान लिये जाते हैं—उनके स्वतंत्र अस्तित्व या गुणदोषों
का विचार नहीं किया जाता. ठीक इसी तरह भगवान्की अलौकिक सेवाके
अंग बन जानेपर सांसारिक वस्तुओंके भी स्वतन्त्र गुणदोषोंका विचार अना-
वश्यक हो जाता है.
भगवान्के द्वारा लिये गये सारे जागतिक रूप भगवान्के हैं तथा भग-
वान्के लिए हैं. हमारे स्वयम्के भी अस्तित्व तथा प्रयोजन भगवद्लीलाके
अंगरूप तथा भगवत्सेवार्थ हैं. अतः भगवत्समर्पणके बाद भगवत्प्रसादके रूपमें
उनका पुनर्ग्रहण दोषरहित है. जब सब कुछ भगवान्का भगवत्सेवार्थ बन जाता
है तो भगवदात्मक हो जाता है.
यही पुष्टिमार्गके सिद्धांतका गूढतम रहस्य है. यही पुष्टिमार्गके प्रमुख-
कर्तव्य भगवत्स्वरूपकी सेवाकी दीक्षा लेते समय और लेनेके बादकी भगवान्-
को अभिप्रेत भावना है. यही भावना गोकुलमें प्रकट होकर भगवान्ने श्री
महाप्रभुको समझायी थी. उस महानिशामें पुष्टिजीवोंके उद्धारकी चिन्तामें
जागृत श्रीमहाप्रभुकी चिन्ता इस रहस्यके प्रकाशनद्वारा दूर की गयी थी. पर
आजतक श्रीमहाप्रभुके समीप सुषुप्त उनके अनेक पुष्टिजीव इस सिद्धान्त-
रहस्यको सुनकर भी समझ नहीं पाते हैं.
“दमला ! यह मारग तेरे लिए प्रकट कियो है” कितना अपनत्व है इस
वाणीमें ! “दमला ! ते कछु सुन्योऽ ?” कितनी उत्कण्ठा है इस प्रश्नमें, सिद्धा-
न्तके सारे रहस्यको अपने पुष्टिजीवोंको सुनानेकी और समझानेकी! चाहे जीव
सुनकर भी समझ पाये या नहीं.
अतएव हरिजीवन कहते हैं कि जबतक प्रभु अपनत्व नहीं जताते तबतक
पुष्टिमार्गके सिद्धान्त केवल पढ़ या सुन लेनेपर समझमें नहीं आते हैं. उप-
निषद् गीता पञ्चरात्र तथा श्रीमद्भागवत सर्वत्र समर्पणका सिद्धान्त सभीने पढ़ा
और सुना भी किन्तु....
श्रीमद्भागवतरूप अमृतके सागरका सर्वोत्तम मन्थन कर श्रीमद्वल्लभा-
चार्य महाप्रभुने ही अपने सुषुप्त पुष्टिजीवोंको जगाकर पूछा— “दमला ! ते
कछु सुन्योऽ?” श्रीमहाप्रभु केवल सुनाने या समझाने में ही सन्तुष्ट नहीं हो जाते
हैं. वे पुष्टिजीवके हाथमें परब्रह्म परमात्मा पुरुषोत्तम श्रीकृष्णको सौंपना
चाहते हैं–“सेवा साज सिंगार सुभग रस खान पान प्रकटायो, वृन्दावन
निकुंजकी लीला हरि जीवन स्वाद चखायो, जो लों हरि आपुनपो न जनावे तो
लों सकल सिद्धान्त मारगको पढे सुने नहीं आवे.’’
प्रस्तुत संस्करण वि. सं. १९८० में भगवद्धर्मपरायण भाईलाल पुरुषोत्त-
मदासके आर्थिक सहयोगसे श्रीमुलचन्द तुलसीदास तेलीवाला तथा श्रीधीरजलाल
व्रजदास सांकलिया ने सम्पादित तथा प्रकाशित किया था. उसका यह
संस्करण ऑफसेट प्रॉसेस द्वारा पुर्नमुद्रित रूप है. इन सभी महानुभावोंका
हम कृतज्ञतापूर्वक स्मरण करते हैं.
शोधपत्रम्।
मुद्रणानन्तरं श्रीरघुनाथकृतटीकाया एकं प्राचीनं पुस्तकं (सं. १६९६.)
प्राप्तम्। तत्संवादादिदं शोधपत्रं निवेशितमिति।
पृ. पं. मुद्रितपाठः। शोधितपाठः।
८. १८. देशोत्था....देशोत्थाः। देशो मगधम्लेच्छादि।
८. १९. तदुत्थाः। संयोगः तदुत्थाः। तस्मादुत्तिष्ठन्ति, जायन्त
इति यावत्। संयोगः—
८. २३. स्वकृत इरिउषरभूमिना स्वकृतहरणेन
९. १०. भुक्तभोजनम्। भुक्तं भोजनम्।
९. १३. तदसमर्पितं तन्नोपभुज्यते तदसमर्पितं, यत् समर्पितं तन्नोप-
भुज्यते।
९. १५. सिद्धान्तमिति सिद्धान्त इति
१०. २. इति तत्राहूः इति चेत्, तत्राहूः
१०. १५. गुणदोषादिकथा गुणदोषादिकल्पना
३८. २८. सृष्टिरूपं दधाति सृष्टीरुपदधाति
३९. १. स्तुवतः स्तुवते
INTRODUCTION.
S'rīmad Vallabhacharya, the author of this little treatise 'Essence of Doctrine'
'Siddhanta Rahasya', was born on the 11th day of the dark half of chaitra, 1535
Samvat, (1479. A. D,) in the forest of Champa near Raichur. His father was
Lakshmana Bhatta, and Yallammagaru was his mother. He was a Telugu Brahmin
studying the Taitariya S'ākhā of the Black Yajur-Veda. Vallabha's birth is
shrouded in the mysteries of the devotional beliefs of his followers, but one thing
is certain that his followers believed that he was commissioned to inaugurate a
great religious revival in India. From the writings of Vallabha which are
available now, we can say that this belief was shared by himself also. It is not
an uncommon phenomenon in India. Ramanuja, Madhva, Nimbarka, Chaitanya,
and several other great teachers did believe in their special messages to the
world. Vallabha's ancestors were Deekshitas, and were devoted to Krishna in the
form of Gopala. The Swarūpa of Madana Mohanaji in the Seventh Pitha is the
one which came to him from his Sixth ancestor Yajna Narayana Bhatta. It is
possible that Vallabha's father Lakshmana Bhatta and his ancestors were the
Upāsakas of Gopala according to the cult of Vishnuswami. The early years of
Vallabha were passed by him with his father at Benares, where he is said to
have mastered all the Vedas, six Dars'anas, and all schools of Āstika and Nāstika
thinkers. He studied the S'aiva and Vaishnava Āgamas. When Vallabha was
comparatively young, his father died. Vallabha wanted to study the Vaishnava
systems of Madhva, Ramanuja, Nimbarka and others, and seeing that they were
not prevalent there, in order to have direct knowledge, he is said to have proceeded
to the south. Vallabha's desire to go to the south of India is very natural. During
that time there was the powerful Hindu kingdom of Vijaya Nagar or Vidyanagar,
over which ruled the mighty monarch Krishnadeva-Raya, himself a great
Vaishnava. During his time, it seems a convention was held of the representatives
of all the existing Sampradayas. The session seems to have been going on when
Vallabha visited Vijayanagar. The main dispute seems to have been between
Vyāsa Tirtha, the Mādhva, and some representative of Mayavadins. It seems
also clear that the Dwaita philosophy of the Mādhvas could not hold its own
against the attack of S'ānkaras. At this juncture Vallabha seems to have baffled
all by his great learning and powerful arguments. We see no reason to doubt this
fact. Vallabha's position was peculiar. He accepted Adwaita pure and simple
without the interference of the Māyāvāda of S'ankara; hence all the attacks
advanced by Madhvas and others against Advaita lost their force as against him.
His acceptance of 'अद्वैतपूर्वकभक्ति' disarmed the opposition of both Vaishnavas and
S'ānkaras. The position taken up by Vallabha was not altogether singular. We
believe that Narayana Bhatta, the author of the famous drama, Veņisanhara was
the follower of a system of Philosophy which combined in itself the Pure Adwaita
of the Upanishads and the Bhakti Mārga. Whatever that may be, it is certain that
Vallabha made a very great impression on king Krishnadeva, Vyasa-Tirtha and
others who were present there. In consequence of this session, the king performed a
'Kanakābhisheka' with hundred Maunds of Gold. It is said that Vallabha did
not accept this gold and began to commence his travels. This abstinence on the
part of Vallabha added to the admiration of all those present for him. Vyāsa Tīrtha,
the Mādhva, actually requested him to be the head-priest of his matha after him.
Vyasa-Tirtha with king Krishna-deva again approached Vallabha and presented
him with a good many valuables. From these presents Vallabha is said to havr
prepared a gold mekhla set with diamonds, rubies etc., and presented the same to
S'ri Vitthala in the Vitthalaswami Temple at Vijayanagara. Ultimately, it appears,
Vallabha could not conscientiously accept the offer of Vyasa-Tirtha, but from
this time Vallabha came to be regarded as a Great Acharya.
After this, he seems to have met with great opposition from the Mayavadi
Pandits of Benares. In order to silence them for ever, Vallabha wrote out a pamphlet
in mixed verse and prose and affixed the same to the doors of the Kās'hi Vis'vanātha,
with a challenge to Benares Pandits to refute the same, if they could. It seems
this discussion ended into threats of personal violence, as a consequence of
which Vallabha left Benares and moved over to Adel on the opposite bank
of the Ganges.
The last portion of his life was passed at Adel, where he finished his works
which were begun by him during his travels and served Lord Krishna with the
love and devotion of Gopees, and founded his system on it. At the age of 52 he
left his Parnas'āla, joined the Sannyasa Ās'rama and came to Benares. For a
month he observed fast, and for the last eight days he observed मौनव्रत, and on the
2nd day of the bright half of Āshadha mid-day he left this world, Samvat 1587.
Vallabha had married one Maha Lakshmi. By her he had two sons, Gopinatha
and Vitthales'wara. Gopinatha had one son named Purushottama, after whom his
line became extinct. Vitthales'wara lived over seventy years. He had seven sons.
During his time the Sampradaya flourished very considerably. Todarmal, Birbal,
and Ray Purushottam seem to have come under his influence. Akbar also presented
him with Gokula and Jatipura villages in Vraja. All the present Maharajas
are direct agnate descendants of Vitthales'wara.
While he was staying in the north of India, Vallabhāchārya came into contact
with Kes'ava Kashmirin, the famous Nimbarka scholar, and Chaitanya, the Bengal
Saint. They were all Krishnopasakas, and it seems from Sampradayika gathas
that their relations were very cordial. Kes'ava presented his pupil Madhava
Bhatta Kashmirin to Vallabha in Dakshina of Bhagavat-katha S'ravana. He became
his devout disciple, and during his whole life acted as the scribe of S'ri Vallabha.
It seems that during Madhava Bhatta's stay with him at Adel, Vallabha composed
his numerous works. During that interval Vallabha wrote Purva Mimānsā Bhashya,
Brahma-Sūtra Bhashya, Tattvadipa-Nibandha with his own commentary, Sukshma
tikā and Subodhini on Srimad Bhagavata, and the sixteen Prakarana Granthas
giving in brief the essence of his views. It is really unfortunate that only a
fragment of his Purva Mimānsa Bhashja is available now. Aṇu Bhashya as we have
it now is not wholly written out by him. The last Adhyaya and a half of the Bhashya
is finished by his son Vitthales'wara. Sukshma tikā is almost lost. Even Pushti-
Pravaha-Maryada Bheda, one of the minor Prakaranas, is not available as a whole.
The Bhagavata Subodhini is available only on the 1st, 2nd, 3rd, 10th and a portion
of 11th Skandhas. It is possible that Vallabha wrote on all the Skandhas. The
loss of these valuable works seems to have been due partly to the apathy of his
descendants and followers. It is a pity that no one seems to take care to preserve
even those of the writings of Vallabhāchārya and his descendants which are available