षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 314, कुल 408 में से
संदर्भ में पढ़ें५६ श्रीपीताम्बरकृतविवृतिसमेता ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
तेषां स्वरूपं लक्षणमाहुः जीवास्ते इत्यादि। 'प्रवृत्तिं चे'ति सन्दर्भे नानालक्षणा-
नामुक्तत्वादेकस्मिंस्तावतामदर्शनात्प्रत्येकं यत्किञ्चिल्लक्षणवन्तोऽपि त एवेति ज्ञापनार्थं
सर्वे इत्युक्तम् ॥ २३ ॥
ननु केचन पूर्वं तल्लक्षणवत्तया निश्चिता अपि पश्चाद्व्यभिचरन्तो दृश्यन्ते लोके
स्मृतौ चेति लक्षणमव्यापकमित्यतस्तान् विभजन्ते ते च द्विधेत्यादि ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
ताननु तदनुसारिण एव । न तु तादृशाः । तेऽज्ञाः । एत एवाग्रे भगवता हता
मुच्यन्ते । कचिद्द्वेषत्यागेऽपि मुच्यन्ते । अतो हेत्वन्तरेणाज्ञाने गते स्वां प्रकृतिं भजन्ति
इति न ते लक्ष्याः । अतो लक्षणमदुष्टमित्यर्थः ॥ २४ १/२ ॥
ननु सर्गभेदे प्रावाहिक आसुरः सर्गो जघन्य उक्तः । तेन तदङ्गक्रिया दुष्टा इति
सिद्धम् । तथा सति तत्र प्रवेशस्तादृशामेवोचितो, नेतरेषाम् । ततस्ते हन्तव्या एव स्युः,
नानुग्राह्याः । दृश्यते तु विपरीतं बलिप्रह्लादादिषु, तथा बाणादिषु क्रियाविरोधोऽपीत्यत आहुः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ १/२ ॥
प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिमार्गीयः तेन समागमनेन कृत्वा युज्यते, तैः
आसुरधर्मैः । तत्र हेतुः । यतः कर्मणा तादृशेन तत्कुले जातः । अतस्तथेत्यर्थः । तथाच
तत्कर्मवासनया तादृक्क्रियाकरणेऽपि जीवस्य पुष्टिस्थत्वाद्वगवता तत्कर्म निवार्य फलं दीयते
यथाजामिलस्य अतो न दोष इति भावः । कर्म च भगवदपराधो भक्तापराधो वेदनिन्दा
अधर्मकरणं वेत्यादिकम् । तच्च 'अत्रापि वेदनिन्दायामधर्मकरणात्तथा । नरके न भवेत्पातः
किन्तु हीनेषु जायत' इति निबन्धोक्तमार्गेणोद्यम् । एवं बलिप्रह्लादादिषु दुष्टकर्मणः स्वल्प-
ताप्यूह्या । तेन न दोषः । एतदग्रे आधुनिकारष्टवशाद्ग्रन्थो न मिलतीति नोपक्रमोपसंहारै-
क्याभावदोषः । एतदग्रे प्रवाहमार्गीयप्रयोजनसाधनाङ्गक्रियाफलानि मर्यादामार्गीयप्रयोजन-
स्वरूपाङ्गक्रियाः साधनं फलं च यावता ज्ञायते, तावान् ग्रन्थोऽपेक्षित इति ज्ञेयम् ॥२५ १/२॥
इति श्रीवल्लभाचार्यचरणाब्जनखेन्दुना ।
शोभितास्तारका यास्ताः स्वबुद्ध्या विशदीकृताः ॥ १ ॥
निपुणं विभाव्य सततं विलसद्रससिन्धुचन्द्रमुखवागमृतम् ।
विवृतं मयास्य कृतमेतदहो सरहस्यमस्ति विबुधैकसुखम् ॥ २ ॥
इति श्रीवल्लभनन्दनचरणरेण्वेकतानश्रीयदुपतितनयपीताम्बरविरचितं
पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।