सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 96, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 96

८ बालबोधः ।
भक्तिमार्गे तद्वशीकरणमुक्त्वा यमादिभिर्योगपथैरिति योगमार्गे तैरेव वशीकरणं
भवतीत्युक्तम् । अत एवाऽवश्यकर्त्तव्यत्वाय योगपथैरिति विशेषणम् । तुशब्देना-
ऽकरणपक्षो व्यावत्र्त्यते । प्रकारान्तरेण तदसिद्धेः । ततः किमित्यत आहुः सिद्धे योगे
कृतार्थतेति । योगसिद्धौ कृतार्थो भवतीत्यर्थः । कथमिति चेद्, एवम् । यावज्जीवं
योगाभ्यासे कृते स्वात्मज्ञानोदयो भवति । “अयं हि परमो धर्मो यद्योगेनाऽऽत्मद-
र्शनमि”ति वाक्यात् । ततो योगबलेनैव देहापगमे अविद्यातो विमुच्यते । न
त्वितोऽधिकं फलमित्यर्थः । अयमेव केवलयोगसाध्यो मोक्षः । तथा तत्त्वदीपेऽपि,
“केवलेनाऽपि योगेन दग्धकर्ममलाशयः । योगवीर्येण जितहृक् लिङ्गं भित्त्वा तथा
भवेदि”ति । अत्राऽपि ब्रह्मलाभाभावान्न कृतार्थतेति भावः ॥ ९ ॥
एवं स्वतः शास्त्रद्वयमुक्त्वा परतः शास्त्रद्वयमाहुः पराश्रयेणेति ।
पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते ।
ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥
परशब्देन विष्णुशिवावुच्येते । तयोराश्रयेण तद्भजनेन मोक्षो द्विधा
तत्तच्छास्त्रभेदात् द्विप्रकारको भवति । सोऽप्यत्र निरूप्यते कथ्यत इत्यर्थः । तुशब्दः
स्वाश्रयपक्षव्यावर्त्तकः । स्वाश्रयापेक्षया पराश्रयस्याऽऽधिक्यं भक्तिमार्गे भविष्यतीति
तदभावायाऽपिशब्देनाऽनादरः सूचितः । ननु ब्रह्मणा किमपराद्धम् । गुणावतार-
त्वेन त्रयाणामविशेषात्ततोऽपि कथं न मुक्तिरित्यत आहुर्ब्रह्मेति । ब्रह्मा ब्राह्मणतां
यातः प्राप्त इत्यर्थः । यथा ब्राह्मणो निरन्तरं स्ववर्णाश्रमादिविहितं कर्म कुर्वन्
स्वार्थमेव सम्पादयति, न तद्विरुद्धमन्यार्थमपि । तथा ब्रह्माऽपि भगवदाज्ञप्तं सृष्टिलक्षणं
कर्म करोति । स चेत्पुरुषार्थान्प्रयच्छेत्सर्वमुक्तिरेव स्यात् । तथा सति सृष्टिरुच्छि-
द्येत । अतः समर्थोऽपि न ददातीति भावः । किञ्च । तद्रूपेण सृष्टिकर्त्तृरूपेण सुसे-
व्यते । परं प्रजाकामैरेव न त्वन्यैरिति विशेषः । “प्रजाकामः प्रजापतीनि”ति
वाक्यात् ॥ १० ॥
अत आहुस्ते सर्वार्था न चाऽऽद्येनेति ।
ते सर्वार्था न चाऽऽद्येन शास्त्रं किञ्चिदुदीरितम् ।
अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥
वस्तुनः स्थितिसंहारौ कार्यौ शास्त्रप्रवर्त्तकौ ।
ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥
निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता ।
भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥