षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 95, कुल 408 में से
संदर्भ में पढ़ेंश्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । ७
ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रय" इति । तथा च तच्चदीपविवृतौ, "जन्मान्तरे ज्ञानी
ज्ञानी सञ्जुत्पद्यत " इति ॥ ७ ॥
नन्वेवं सति जीवविचारितस्य साङ्ख्यस्य कथं प्रामाण्यमित्यपेक्षायामाहुस्तद-
र्थमिति । तदर्थमुक्तरीत्या मोक्षार्थं काचित्प्रक्रिया पुराणेऽपि निरूपिता कथिते-
त्यर्थः । तेन पुराणमूलकत्वात्प्रामाण्यं तस्येति भावः। ननु "पुराणं हृदयं स्मृतमि"ति
वाक्यात्तन्मूलकस्य कथं जीवविचारितत्वमित्यत आहुः, ऋषिभिरिति । ऋषिभिः
सा प्रक्रिया बहुधा बहुभिः प्रकारैर्भिन्ना प्रोक्ता स्वविचारादतस्तथेत्यभि-
प्रायः । तत्र हेतुः पूर्वमुपपादितः, " तथैवेश्वरशिक्षये"ति । तर्हि साधनप्रकारभे-
दात्फलं भिन्नं भविष्यतीत्याशङ्क्य तथा नेत्याहुः फलमेकमिति । पुराणोक्तस्य
साङ्ख्यस्य फलद्वयम् । प्रथममात्मदर्शनमेकम् । ततो ज्ञानद्वारा मोक्षो द्वितीयम् ।
जीवविचारितस्य तस्याऽऽत्मदर्शनमेकमेव फलं न द्वितीयमित्यर्थः । तत्रापि विशेष-
माहुरबाह्यत इति । बाह्यो बहिर्मुखो निरीश्वरो विकर्मपरिपोषितश्च साङ्ख्यः ।
तदतिरिक्तात्पुराणमूलकात्साङ्ख्यादुक्तं फलं, न तु बाह्यादिति भावः । प्रत्युत तादृ-
शान्नरकः, वेदविरोधित्वात् । तदुक्तं तत्त्वदीपे, "योगसाङ्ख्ये धर्महीने विमार्ग-
परिपोषिते, नरकायैव भवत" इति ॥ ८ ॥
अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि ।
यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥
एवं स्वतःशास्त्रमेकमुक्त्वा द्वितीयमाहुरत्यागे योगमार्ग इति । त्यागाभावे
योगमार्गो योगप्रतिपादकं शास्त्रं मोक्षप्रतिपादकमित्यर्थः । ननु त्यागव्यतिरेकेण
कथं योगः सिद्धयेदित्याशङ्कयाऽऽहुरत्यागोऽपीति । न हि सर्वात्मना त्यागो निषि-
ध्यते । मनसा तु सर्वं त्यक्तव्यमेव । अन्यथा योगो न सिद्धयेदिति । मनसा सर्व-
परित्यागे सम्पन्ने बहिस्त्यागो नाऽपेक्षित इत्येवकारेण तद्व्यवच्छेद उक्तः । युक्तो-
ऽयमर्थ इति हिशब्द आह । ननु मनसश्चञ्चलत्वाद्वहिस्त्यागाभावे कथं तन्निरोधो
भवतीत्यत आहुर्यमादयस्तु कर्त्तव्या इति । यमा द्वादशविधाः । तदुक्तमेका-
दशस्कन्धे "अहिंसे"त्यारभ्य "द्वादश स्मृता" इत्यनेन । आदिपदेन तत्रोक्ताः
शमदमादयो ग्राह्याः । तेषु कृतेषु मनः स्थिरीभवतीति भावः । तदुक्तं श्रीकपिलदेवेन--
"अत एव शनैश्चित्तं प्रसक्तमसतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च
नयेद्वशम् । यमादिभिर्योगपथैरि"त्यादि । भक्त्या भगवदतिरिक्तविषयविरक्त्या च
१ त्याग इति ग.