षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 72, कुल 408 में से
संदर्भ में पढ़ें६० श्रीयमुनाष्टकम्।
स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥
श्रीमद्वैश्वानरावतार श्रीमद्वल्लभाचार्यचरणविरचितं
श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।
वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनेकतपः साध्यं कथमेतत्पाठमात्रा-
दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् ।
नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वक्तुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा-
ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः।
अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव
जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा-
दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब-
न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना-
त्तत्कथनमिति नाऽनुपपत्तिः काचित् ।
इति श्रीविठ्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा ।
गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्।
पूर्त्तिर्भवति । स्तोत्रपठितुः 'कृष्णोऽहं पश्यत गतिमिति' श्लोकोक्तो मोक्षः सम्पद्यते ।
बाहिर्मुख्यनिवृत्तिपक्षे कर्मवासनानामनुद्भवो भवति । दुष्टस्वभाव इति । बहिर्मु-
ख्यादिदोषग्रस्तोपि दैन्यभावसिद्ध्या सन्मुखो भवति । एतद्विषये प्रामाण्यं वक्तुमा-
शङ्कन्ते नन्विदमिति । समादधते वदति वल्लभ इति, प्रियाः प्रियाभिप्रायं विज्ञा-
यैव वदन्तीति भावः । तेनाऽऽप्तत्वेनेति । आप्तश्च यथार्थवादी, तादृशास्त्वत्राचार्य-
चरणा एव । अन्येषामेतज्ज्ञानं नेति वक्तुं क्षिपन्ति नन्वित इति । श्रीहरेरिति ।
श्रीभिः स्वामिनीभिर्युक्तस्य सर्वदुःखहर्तुः प्रियोहम् । यतो वदामि तेन तत्तथैव । अग्रे
स्पष्टम् । तथा हि, साक्षादिति श्रीयमुनाप्रभृतीनां स्मरश्रमे इत्याद्युक्तं रूपम् ।
साक्षात्तदिति श्रीमदाचार्या एव जानन्ति । स्वातिरिक्तानामिति, श्रीमदाचार्य-
पादाब्जामोदरहितानाम् । साक्षादित्यादि । (अभावादिति) । आवरणानाच्छन्नस्वा-
मिनीसहितगोकुलपतेरसम्बन्धात् । साक्षादिति श्रीयमुनायाः, तदिति एतादृ-
क्प्रकारस्याकथनम् । स्वस्येति श्रीमदाचार्यरूपेण स्थितस्य साक्षादिति प्रकटतया,
तादृशत्वादिति वस्तुतः कृष्णरूपत्वात्, तदिति 'स्मरश्रमे'त्याद्युक्तस्वरूपस्य-
वर्णनमिति, न शङ्कालेश इति दिक् । मूलान्वयस्तु, हे सूरसूते ! इदं तवाष्टकं यः सदा
मुदा पठति, तस्य समस्तदुरितक्षयो भवति, वै मुकुन्दे रतिर्भवति, तया सकलसिद्धयो
भवन्ति, मुररिपुश्च सन्तुष्यति, स्वभावविजयो भवेत्, श्रीहरेर्वल्लभो वदति ।