षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 71, कुल 408 में से
संदर्भ में पढ़ेंगो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम् । ५९
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति-
बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि-
पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा-
कृत्य ता अङ्गीकृतवानेवमेतत्पाठेनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती-
त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति ।
स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा-
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
न्तम् । यद्वा, तया मुकुन्दरत्या सकलसिद्धयो गोप्यो मुररिपुश्च सन्तुष्यति । सक-
लस्य पुरुषोत्तमस्य रमणस्य सिद्धिर्याभ्यः । भगवत्कृतप्रतिबन्धस्यानिवार्यत्वेन तद्गतो
भक्तद्रोग्धारो यदेदं स्तोत्रं पठिष्यन्ति तत्र का व्यवस्थेति मनसिकृत्य क्षिपन्तो मूल-
स्थस्य सुररिपुपदस्य सद्दष्टान्तमाशयमाहुः नन्वित्यारभ्य पदमित्यन्तम् । मूले च
सन्तुष्यतीति । तथा च, लोके स्वोत्कर्षवर्णनात्स्वप्रियोत्कर्ष कथनस्यात्यन्तं स्वतो-
षबीजत्वेन श्रीयमुनायाश्चात्यन्तं स्वहार्दवित्त्वेनैतत्स्तोत्रानुजल्पनेन प्रतिबन्धनिवारकः
प्रभुः सम्यक् तुष्यति । यथा व्रजवरकुमारिकास्वेत्तत्तटे तुष्टो रासादिसुखं दत्तवाँस्त-
थैतज्जल्पितारमप्यनुगृह्णातीतिभावः । किञ्च, श्रीयमुनाष्टकपाठात्स्वामिनि तुष्टेऽनावर-
णानाच्छन्नप्रथुलीलामध्यपातिनि जीवे स्वामिन्योऽपि तुष्यन्ति, न तु भगवत्प्रिय-
त्वरूपस्वभोग्यफलभोक्तरि जीवे ईर्ष्यन्ति, मुरलिकावत् । भगवत्प्रियकलिवारक-
श्रीयमुनातोषस्य सर्वभक्ततोषहेतुत्वादिति चकारार्थः। टीकायां फलान्तरमिति सकल-
दुरिताऽभावपूर्वकभगवद्रतिनिष्पत्तिरूपमेकं फलं पूर्वं निरूपितम्, तेन भगवत्स्वभा-
वपरावर्त्तकत्वमेतस्योक्तम्, अतः परं जीवस्वभावपरावर्त्तकत्वमुच्यते स्वभावस्येति ।
स्वभावश्च जीवात्मनो भावः, प्रकृतिजन्यबोधे प्रकारः । जीवस्य जीवत्वमिति यावत् ।
तथा चोक्तं, विद्वन्मण्डने, 'आनंदांशस्तु पूर्वमेव तिरोहितो, येन जीवभाव' इति । तथा
च, जीवस्याविद्यासम्बन्धेन भगवद्बहिर्मुख्यत्वस्यैतत्पाठितुः कृपया हृदि प्रभावाविर्भू-
तेऽन्तरसानुभवत्वे सम्पन्ने बाह्यतश्च परावृत्तिर्भवति । यद्वा, स्वभावशब्देन मन
उच्यते । तस्य विजयः स्वातन्त्र्येण प्रवर्त्तनं भवति । यद्वा, स्वस्य जीवस्य भावः ।
श्रीगोकुलप्राणप्रियसेवनरूपसहजधर्मस्तस्य विविध उत्कर्षः । परा अत्यन्तं आवृत्ति-
रसकृत्सेवनम्, सम्पूर्णसेवाधिकारसिद्धिर्भवति । सेवाफलग्रन्थे वक्ष्यमाणस्य आद्य-
स्यालौकिकसामर्थ्यरूपफलस्य प्राप्तिरिति यावत् । स वासनेतीति अनेकमनोरथानां