षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 396, कुल 408 में से
संदर्भ में पढ़ें५६ सिद्धान्तरहस्यम् ।
णस्यामले पक्ष इत्यादिना । श्रावणशुक्लैकादश्यामर्धरात्रसमये श्रीमदाचार्यान् प्रति पुष्टि-
जीवोद्धारार्थं परमकाष्ठापन्नेन परब्रह्मणा श्रीकृष्णेन स्वयमाविर्भूयोपदेशः कृतः । स एवा-
स्मिन् ग्रन्थे सर्वोपि विराजते । स एष प्रत्यहं विमृश्यमानो मार्गपद्धतिं प्रदर्शयत्यतो
मयाचार्यवर्यकृपालब्धबोधेन तदर्थो निरूप्यते श्रावणस्येत्यादि ।
श्रावणस्यामले पक्षे एकादश्यां महानिशि ।
साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
श्रावणस्य वैष्णवत्वात् स गृहीतः । उपदिश्यमानमार्गस्य निर्मलतावोधनाय
शुक्लपक्षः । अत एवामले पक्षे इत्यत्रामलपद्मुक्तम् । एकादश्या वैष्णवतित्थित्वात् सा
गृहीता । अर्धरात्रसमयस्य पूर्णपुरुषोत्तमप्राकट्याधिकरणत्वात् तत्समये प्राकट्यम् । 'अथ
सर्वगुणोपेत' इत्याद्यष्टभिः सार्धैः श्लोकैः समानसङ्ख्याकाः सार्धा अष्टौ श्लोकाः पूर्णपुरुषो-
त्तमप्रादुर्भावसूचकाः । साक्षाद्भगवतेति । भगवान् परमकाष्ठापन्नः स्वयमेवाविर्भूयो-
क्तवान्, न त्वंशेन कलया विभूतिरूपेणावेशरूपेण वेति ज्ञापकं साक्षात्पदम् । अथवा ।
साक्षात् पदस्य प्रोक्तमित्यनेनान्वयः । तथा च भगवता साक्षादेवोक्तम्, न तु दूतादि-
द्वारा । न वा स्वप्नादिद्वारेति बोध्यते स्म । अक्षरश इति । भगवदुक्तस्यैकस्याप्यक्षर-
स्यार्थो न त्यक्त इत्यर्थः । अथवा । श्लोकरूपेणैव भगवतोक्तमिति त एव श्लोका ब्रह्मस-
म्बन्धकरणादित्यारभ्य तद्बदत्रापि चैव हीत्यन्ता अत्र ग्रन्थे धृताः । सङ्गत्यर्थं प्रथम-
श्लोकः श्रीमदाचार्यैर्विरचित इति ज्ञातव्यम् । इदमत्राकूतम् । तृतीयस्कन्धनिबन्ध-
विवृत्तौ भगवता प्रोक्तं यद्भगवदीया वदन्ति, तद्भागवतमिति निरूपितम् । अतः साक्षाद्भग-
वता प्रोक्तमिदमिति भवत्यस्य भागवतत्वम् । तथा च यथा साक्षाद्भगवता चतुःश्लोकी-
रूपं भागवतं ब्रह्मणे प्रोक्तम्, यथा वा मैत्रेयाय प्रोक्तम्, तस्य भागवतत्वम्, एवं
श्रीमदाचार्यान् प्रति साक्षाद्भगवता प्रोक्तमिदमपि भागवतमेवेति ग्रन्थान्तरापेक्षया अस्य
वैशिष्ट्यमनुसन्धेयम् । अत एव सिद्धान्तरहस्यमिति नामधेयमेतस्य ।
ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः ।
सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥
ब्रह्मसम्बन्धकरणादिति । ब्रह्मणा सह सम्बन्धः स्वस्वामिभावलक्षणो देहेन्द्रि-
यप्राणान्तःकरणदारागारपुत्रादीनां आत्मनश्च तदीयत्वमिति यावत् । तस्य करणाद्ब्रह्म-
सहितपञ्चाक्षरनिवेदनमन्त्रस्योपदेशेन स्फुटीकरणादित्यर्थः । यद्यपि जीवानां सहजहरि-
दासत्वेन स्वस्वामिभावसम्बन्धः सिद्धोस्ति, तथापि संसारदशायां बहिर्मुख्येन विस्मृतः
स एतेनोपदेशेन ह्याविर्भाव्यते । 'क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो
पर ईश कुर्यु'रित्यष्टमस्कन्धे विन्ध्यावलिवाक्यात् प्रपञ्चस्य सर्वस्यापि भगवत्क्रीडार्थं निर्मि-
तत्वेन भगवदीयत्वात् प्रपञ्चान्तर्गतदेहादीनामपि भगवदीयत्वं वर्तत एव, तथापि 'स्वाम्यं
तु तत्र कुधियो पर ईश कुर्यु'रित्युक्त्या कुधीत्वप्रयुक्तो देहादावाहंममाभिमानः, स एतेन