सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 395, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 395

दीक्षितलालूभट्टकृतटीकासमेतम् । ५५
ननु एवं कृतेऽग्रे तस्य किं फलं भवतीत्याकाङ्क्षायामाहुः सर्वेषामिति । ततस्तदनन्तरं पूर्वस्मिन्
स्थितानां गुणानां दोषाणां च ब्रह्मता । भगवदीयत्वेन भगवद्रूपतैव भवति । भगवदी-
यानां भगवद्रूपता तु भगवतैवोक्ता 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,'
'नोद्धवोऽण्वपि मन्न्यून' इत्यादि । तथात्वे जाते न तेषु पुनर्देाषत्वं, कदाचिदपि न तिष्ठतीति
भावः। यथा कामादयो भगवति निवेदिताश्चेत्तदीया भूत्वा न पुनर्देाषत्वाय कल्पन्ते, किन्तु
प्रत्युत सर्वलौकिकफलसाधकत्वायैवेति दिक् । तदुक्तम् । 'न मय्यावेशितधियां कामः
कामाय कल्पते' 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वे'त्यादिभिः।
ननु तथापि दोषाणां ब्रह्मरूपता प्रत्यक्षतया कुत्रापि दृष्टा नेति प्रत्यक्षवादिनां बहि-
र्मुखानां शङ्कां परिहरन्तो गङ्गादृष्टान्तेन तमेवार्थं प्रत्यक्षं दर्शयन्त आहुः गङ्गात्वमिति ।
गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ।
गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥
यथा प्रणालादिकुत्सितस्थानेभ्यो गङ्गायां समागतानां जलानां तद्गतदोषाणां च गङ्गा-
त्वमेव सम्पद्यते, तदनन्तरं या तत्र गुणदोषादिवर्णना, कथनरूपा, सा संयोगानन्तरं
तत्र गङ्गात्वे जाते निरूप्या कथनीया न स्यात् । अथवा । सा वर्णना यथा तदनन्तरं
गङ्गात्वेनैव निरूप्या, कथनीया स्यात्, न क्वापि दोषत्वेन, तद्वदेवात्रापि भगवति सर्वस्व-
निवेदनानन्तरं स्थितानामपि दोषाणां भगवदीयत्वमेवेति ज्ञात्वा तथैव कथनीयं करणीयं
च, नान्यथा कथमपीति निगर्वः ।
इति श्रीविठ्ठलनाथचरणैकतानगिरिधरकृतौ सिद्धान्तरहस्यविवृतिः समाप्ता ।
श्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
दीक्षितश्रीलालूभट्टकृतटीकासमेतम् ।
श्रीमद्गोपतनितम्बनीमणिनिजप्राणप्रियानिर्मित-
क्रीडाम्भोनिधिरासमण्डललसद्राकावधूनायकम् ।
कोटीन्दुद्युतिवन्दितं स्मरमनोहारित्विषानन्दितम्
वन्दे वेदशिरःसमीडितगुणं गोवर्धनैशं प्रभुम् ॥ १ ॥
जयन्ति वल्लभाचार्यविठ्ठलेशाङ्घ्रिरेणवः ।
कुशलाः स्वीकृतस्वान्तमोहध्वान्तनिवारणे ॥ २ ॥
अथ श्रीमदाचार्यचरणाः पुष्टिमार्गीयजीवानां पुष्टिमार्गेऽङ्गीकारं चिकीर्षवः साक्षात्
पुष्टिपुरुषोत्तममुखसरसीरुहोद्गतानि वाक्यानि स्वमात्रविषयीभूतानि भगवत्कृपापात्राणां
निजोपदेशविषयकश्रद्धाधिक्यसम्पादनार्थं ग्रन्थरूपेण सङ्गतिपूर्वकं निरूपयन्ति श्राव-