सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 363, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 363

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । २३
संसर्गे कुञ्जरशौचमिव सर्वं भवतीति तदनन्तरं तन्निषेधमाहुः असमर्पितेति । यतो
ह्यसमर्पितानां न दोषनिवृत्तिर्ब्रह्मसम्बन्धाभावात्तस्माद्धेतोस्तेषां तत्सम्बन्धिपदार्थानां
वर्जनमाचरेत्, संसर्गं न कुर्यादित्यर्थः । नन्वत्र सर्वथा भगवदीयतत्सम्बन्धिपदार्थातिरिक्त-
संसर्गो निवार्यते । आत्मना सहैव समर्पितानामपि दारादीनां आनुकूल्ये न संसर्गदोषः,
प्रातिकूल्ये तु ‘गृहं त्यजे’दित्यपि निरूपितं निबन्धे ।
तथा सति लौकिकेऽपत्यसम्बन्धादौ वैदिकेऽकरणप्रत्यवायजनकवर्णाश्रमविहितयाग-
ऋत्विग्वरणदानप्रतिग्रहादिषु असमर्पितात्मनां प्रत्युत गृहाद्यासक्तानां शुष्ककर्मजडानां
संसर्गे का गतिरिति चेत्तत्राहुः ।
निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः ।
न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥
निवेदिभिरिति । निवेदिभिरिति सहार्थे तृतीया । समर्प्यैवेत्येवकारोऽन्ययोगव्यव-
च्छेदकः । तथा सति समर्प्यैव करणात् सर्वस्वं समर्प्यैव समर्पणानन्तरमेव तदुत्तरक्षणस्या-
सुरत्वात्तत्प्रवेशव्यतिरेकेणैव तत्क्षणमारभ्यैव निवेदिभिः समर्पितसर्वस्वैर्भगवदीयैः सह सर्व-
लौकिकमपत्यसम्बन्धादिकं वैदिकं यागादि कुर्यात्, न तु तादृशकर्मजडैरित्यर्थः । एतेन समर्प-
णोत्तरक्षणस्यासुरत्वात्तत्प्रवेशात्प्रागारभ्यैव नित्यं भगवदीयं सङ्गमेव कुर्यात् । अन्यथा तदै-
वासूरप्रवेशः स्यादिति सूचितम् । एतदेव नवरत्नविवरणे स्फुटीकृतं प्रभुचरणैः । ‘निवेदनं तु
स्मर्तव्य’मित्यत्र । अत एव श्रीमदाचार्यवंश्यानां नान्यमार्गीयप्रतिग्रहाङ्गीकारः । एतेन
समर्पणक्षणमारभ्य भगवदीयैरेवापत्यसम्बन्धः, तादृशानामेव यागादौ वरणं दानप्रतिग्रहौ
चेति भगवदीयधर्म इति निरूपितम् । किञ्च । भगवदिच्छां विना भक्तस्य न किञ्चित्कर्मकरण-
मिति नवरत्ने भक्तिहंसे च निरूपितमित्यनायासतादृशसामग्रीसम्पत्तिरेव भगवदिच्छासूचि-
केति तावत्तयैव साक्षिवत्पश्यतो न कोपि दोषप्रसङ्गावसरगन्धोपीति भावः । तदुक्तं
‘साक्षिणो भवताखिला’ इति नवरत्ने । इदमपि कर्माग्रहित्वानुरोधादुक्तम् । वस्तुतस्त्वस्मि-
न्मार्गे इतरसंमेलननिषेधात्सा शङ्कैव नेत्यलम् । कुर्यादित्यत्र तु कर्तृपदं स्पष्टम् । एतद्ग्रन्थस्य
शरणागतं प्रति शिक्षारूपत्वेन शिष्यस्य जागरूकत्वात् । इयं निवेदिनो मर्यादास्तीत्याहुः
स्थितिरिति । ननु भगवदीयस्य सर्वथान्यसंसर्गनिषेधाद्वर्णाश्रमविषयककार्यमानेषु च
तादृशानामतिदुर्लभत्वात्तथाग्रहस्य च भगवति महाभारप्रदत्वेनास्वधर्मत्वात्तत्तत्कार्यमात्राणां
चावश्यकत्वात्तत्तन्निर्वाहार्थमस्तु स्वमात्रसमर्पणम्, किं दारादीनां साहित्येनेति चेत्, तत्राहुः ।
न मतमिति । सामिसमर्पणं भुक्तसमर्पणं च देवदेवस्य न मतम् । सामिसमर्पणतुल्यत्वज्ञापनाय
समस्तं पदम् । एतेन सामिभुक्तदोषपरिहारार्थमेव स्वसमर्पणे दारादीनां साहित्यम् । तेषां
साक्षात्सेवाधिकारस्तु पृथक्समर्पणेनैव भविष्यतीति सूचितम् । एतदेवोक्तं नवरत्नविवरणे ।
‘कस्यचिद्विशेषोऽङ्गीकारश्चेत्, सा पुष्टि’रिति । पुष्टिर्नाम च साक्षात्सेवाधिकाररूपोऽनुग्रहः ।