षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 362, कुल 408 में से
संदर्भ में पढ़ें२२ सिद्धान्तरहस्यम् ।
एवं प्रतिज्ञाय तद्विषयं निरूपयन्ति ब्रह्मसम्बन्धकरणादिति ।
ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः ।
सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः मताः ॥ २ ॥
दोषनिवृत्त्युपायालाभेन हि चिन्ता सा तु न कर्तव्या, कुतः, हि यस्माद्देहजीवयो-
रुभयोः सम्बन्धिनां सर्वेषां ब्रह्मणः श्रीपुरुषोत्तमस्य सम्बन्धकरणात्सर्वस्वसमर्पणेन तदी-
यत्वसम्पादनात्सर्वदोषनिवृत्तिर्भविष्यतीति शेषः । तथा च प्रथमं शरणं प्रविश्य सर्व-
समर्पणं कारणीयम्, अनन्तरं सेवाङ्गीकर्तव्या इति सूचितम् । तथा सति सेवाभ्यासेन
समर्पणानुसन्धानेन च क्रमशः सर्वत्र स्वाध्यासनिवृत्त्या भगवत्सम्बन्धस्फुरणेन च सर्वदो-
षनिवृत्तिर्भविष्यतीति भावः । कथमध्यासनिवृत्तिः, किम्प्रकारकं च तत्र तत्र भगवत्सम्ब-
न्धभानम्, एतज्ज्ञापनाय दोषान् गणयन्ति दोषाः पञ्चविधा मता इति। मताः सर्वशा-
स्त्रेष्वित्यर्थः । अग्रे च पञ्चविधत्वे प्रमाणमेव लोकवेदनिरूपिता इति कथयन्ति ।
दोषा हि अविद्याजन्याः । सा च पञ्चपर्वात्मिका तत्संख्याका एवोक्ताः । यद्यपि ते बहवः,
परन्तु तेष्वेवान्तर्भूता इति । अत एवाग्रे प्रत्येकं बहुवचनमुच्यते ॥ २ ॥
सहजा देशकालोत्था लोकवेदनिरूपिताः ।
संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥
तथा हि सहजा इति । नात्र क्रमो विवक्षितः । सहजा इति प्राणाध्यासजा उक्ताः ।
जातमात्रस्यैव प्राणपोषणप्रवृत्तेः प्राणाध्यासस्य सहजत्वम् । देशोत्था इति देहाध्यासजाः ।
तद्गतामेव तत्तद्देशगमने दोषसम्भवात् । कालोत्था इति स्वरूपविस्मृतिजन्याः । कालेनैव
तत्सम्भवात् । संयोगजा इत्यन्तःकरणाध्यासजन्याः, तत्रैवेतरसंयोगे भगवद्बहिर्मुख्यस्वधर्म-
भगवद्धर्मज्ञानसम्भवात् । स्पर्शजा इति मात्रास्पर्शजन्याः । तथा चेन्द्रियाध्यासजा उक्ताः ।
ते ब्रह्मसम्बन्धेन निवर्तिष्यन्त इत्यङ्गीकारे प्रतिबन्धकत्वेन न मन्तव्याः कथञ्चनापि ।
तत्प्रकारश्च एकादश्यादिपदसमभिव्याहारात्तात्पर्यGeneric: तात्पर्य निरूपणेनोक्तः । अत एव ब्रह्मसम्बन्ध-
करणे पूर्वं स्वरूपस्मृतिस्ततो देहादीनां तद्धर्माणां तत्सम्बन्धिनां च भगवति तत्समर्पणेन
तदीयत्वेन स्थितिरेव सम्पाद्यते । निर्दुष्टपदार्थसम्बन्धे निर्दोषताभिप्रायेण । लोकवेद-
निरूपिता इति सर्वत्र प्रमाणकथनम् ॥ ३ ॥
यद्येवं प्रमेयबलमाश्रित्य दोषनिवृत्तेर्नाङ्गीकारः, तदा कालत्रयेपि न दोषनिवृत्ति-
रित्याहुः अन्यथेति ।
अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ॥
असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥
अन्यथेति प्रमाणबलेन । अन्यत्स्पष्टम् । एवं भगवत्सम्बन्धिनामेव निर्दुष्टत्वम्, तद्व्य-
तिरिक्तानां तु सदोषत्वमेवेति निरूपितम् । अतो ब्रह्मसम्बन्धानन्तरं पुनस्तदतिरिक्त-