षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 337, कुल 408 में से
संदर्भ में पढ़ेंINTRODUCTION.
दृष्ट्वैवंमादि गोपीनां कृष्णावेशात्सविक्लबम् । उद्धवः परमप्रीतास्ता नमस्यन्निदं जगौ ॥१०-४७-५७
एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८ ॥
प्रत्यहं उपदेशः प्रत्यहं वैक्लव्यं, एवं उभयं दृष्ट्वा आत्मतत्त्वेपि बहिः संवेदनमात्रेणैव तासां भगवदाकाङ्क्षो-
त्पद्यते, परं निर्दुष्टा, एवं तासां दृष्ट्वा कृष्णावेशेन आत्मनो देहस्य विक्लवं दृष्ट्वा अन्तर्निष्ठा वा विरहो वा
द्वयमेव, न तु तासामन्या लौकिकी अवस्था, एवं दृष्ट्वा परमप्रीतो जातः, एवमेव स्वातव्यं भक्तेनेति । पश्चात्तासु
उभयं दृष्ट्वा स्वस्मिन्नैकमेवेति आधिक्यात् ता नमस्यन् मनोदोषशंकाभावाय तासां स्तुतिरूपं इदं जगौ...तनु-
भृतश्चेत् एता एव । नापि ज्ञानिनो, नापि लौकिकाः, नापि भक्ताः । तत्र लौकिकास्तु व्यर्थजीवना एव ।
न हि रज्ज्वा बद्धः पाशी भवति । स्वाधीनपाशः एव तथा । एवं तनुभृतोपि येषां स्वाधीना तनुः । ज्ञानिनां
तु ज्ञानप्राप्तिपर्यन्तमेव स्वाधीनत्वेन शरीरोपयोगादग्रे व्यर्थमेव देहः, अनपेक्षितभारवद् गृह्णातीति । भक्ता अपि
मौढ्यात् देहमेवात्मानं मन्यमानाः तत्रैव पर्यवसितमतयो बहिर्मुखत्वात्तन्नुरूपा एव, न तु तनुभृतः । कालान्तरे
परं सत्फलम् । अस्मदादयस्तु भक्ता अपि प्राप्तज्ञाना अपि मन्दभावं प्राप्ताः नोत्कर्षेण तनुभृतः । अतः परमुत्कर्षेण
एता एव तनुभृतः । नन्वेतादृश्यः सन्ति तनुभृतः लक्ष्मीप्रभृतयः । तत्राह भुवीति । ननु भुव्यपि उत्कटभक्ताः
प्रह्लादादयः सन्त्येव । तत्राह गोपवध्व इति । एतादृशीमवस्थां प्राप्य न कोप्येवंविधो जात इत्याश्चर्यम् । किञ्च,
गोविन्दे स्वकीयत्वेन ज्ञाते, वस्तुतः अखिलात्मनि एवं रूढभावाः । अतो देहस्य स्वाधीनस्य तदैव फलमिति
सर्वात्मत्वेन ज्ञात्वापि निर्दोषपूर्वभावनिष्ठा एव । ननु ज्ञानादवस्थोत्तरेति आत्मलाभान्न परं विद्यत इति । एता भगवता
ज्ञाननिष्ठाः कृताः इति च । वस्तुत एवाग्र देहस्यानुपयोगात् कथमेषा स्तुतिरिति चेत्, तत्राह वाञ्छन्तीति ।
वाञ्छंति यं भावं भवात् भीः येषां ते मुनयो, मुक्ताः, वयं भक्ताः, चकारात् सर्व एव धर्ममार्गपरा
अपि । अवश्यं हि विदेहकैवल्यपर्यन्तं सर्वेषां बहिः संवेदनावस्थैय । जीवन्मुक्तानां तथा श्रवणात् । तत्र लौकिक
एव भावः सर्वेषां जायत इति कालावच्छेदेन जन्मवैयर्थ्यमेव । अन्येषां तु वैयर्थ्य सिद्धमेव । नारदादीनामपि कदा-
चित् प्राकृतवत् व्यवस्था, प्रह्लादस्यापि राज्यादिकरणात् तथावसीयते । बहिः संवेदने तु एषैवावस्थासर्वशास्त्रपर्य-
वसिता । नातोन्या कचिद्व्यस्तीति अवस्थायां विचार्यमाणायां एता एव तनुभृतः । ननु एतदपेक्षया ये श्रोत्रिया
ब्रह्मविदो ब्राह्मणा वसिष्ठादयः ते महान्तो भविष्यन्तीत्याशंक्याह किं ब्रह्मजन्मभिः । ब्रह्माभावपन्नानां जन्मभिः
शुद्धसावित्र्याशिकैः किम्, न किंचित् । यद्यपि बहिः संवेदने तेषां वेदार्थानुष्ठातृत्वं दीर्घसत्रित्वादिरूपम्, अंतर्नि-
ष्ठायां तु ब्राह्मणत्वमिति, तथापि कर्मापेक्षया भक्तिरधिका । कर्म हि प्रपंचे स्वास्थ्यं संपादयति, न तु भक्तिः ।
यो हि दुष्टं मन्यते स दुष्ट इति निर्धारः । तत्तत्प्रकरणे तत्तत्प्रशंसा तु प्रकरणानुरोधिनी । अतः अनंतकथायां
अरसस्य ब्रह्मजन्मभिः कर्मोपयोगिभिरपि न किंचित् । ननु तथाप्युत्कर्षहेतुलोके तद्भवतीति युक्त्या बाधेपि प्रसिद्धयैव
उत्तमफलत्वं पर्यवसानविधया कल्प्यत इति चेत्, तत्राह । अनन्तकथायां रसयुक्तस्य पूर्वोक्तैः ब्रह्मजन्मभिः न कोपि
पुरुषार्थः साधनीयः । ततोप्युत्कृष्टस्यैव साधनदशायां फलदशायां च फलस्य सिद्धत्वात्, कर्मापेक्षयापिभक्तयैव
ज्ञाने अधिक अधिकोपकारणाच्च ।
To follow this रतिपथ is to walk on the edge of the sword. Those who
are unable to follow this, must dedicate everything to Lord Krishna,
and serve Him faithfully as a servant serves his master. This is in short
what Vallabhacharya has by the command of Lord preached in the पञ्चाक्षर,
अष्टाक्षर, गद्य and सिद्धान्तरहस्य.
धर्ममार्गं परित्यज्य छलेनाधर्मवर्तिनः ।
पतन्ति नरके घोरे पाषण्डमतवर्तनात् ॥ १ ॥
प्रसीदतु मयि श्रीमत्कृष्णप्राणप्रियोत्सवः ।
येन भाति जगत् सत्यं विना येन न तत् तथा ॥ २ ॥
श्रीकृष्णार्पणमस्तु ।