षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 336, कुल 408 में से
संदर्भ में पढ़ेंअत्रैवेति । आधिदैविकत्वे संपन्ने हि पुरुषोत्तमभजनं साक्षात्सम्पद्यते । तच्च वैकुण्ठे भवति । प्रभुस्तु अस्मिन्नेव लोक
आधिदैविकं रूपं जीवानां प्रकटं यथा भवति तथा भुङ्क्त इत्यर्थः । एतल्लीलाश्रवणेपि तथा भवतीति तथा । उत्कृष्टमिति ।
मोक्षसुखादपीति शेषः । प्रमाणेन वचनैरित्यर्थः । प्रमेयेण स्वरूपेणेत्यर्थः ।
अत्रायमर्थः । श्रुतौ हि 'असद्वा इदमग्र आसीत्, ततो वै सदजायत, तदात्मानं स्वयमकुरुत, तस्मात्तत्सुकृतमुच्यत
इति, यद्वैतत्सुकृतम्, रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवती'त्येवं पूर्वसृष्टेर साधुत्वं, ततः सृष्ट्यन्तरस्य साधुत्वम्,
साधुत्वे स्वात्मरूपत्वरूपं हेतुः, तस्य सुकृतत्वं, सुकृतस्य रसत्वं, रसस्यानन्दरूपता च बोधिता । तत्र यद्युद्बोधकादि-
प्रणाडी न विवक्षिता स्यात्, आत्मकरणं न वदेत्, यदि वा सर्वसामान्या स्यात्, पूर्वसृष्टेर साधुत्वमनेवंरूपतां
च वा न वदेत् । यदि च रसस्य मनोविकारत्वं लौकिकत्वं वा विवक्षितं स्यात्, तदाप्यात्मकरणं आनन्दरूपत्वं
च न वदेत् । अत उद्बोधकादिवैशिष्ट्यं श्रुतिसिद्धम् । तदेतदुक्तं तत्स्वरूपस्यैव तथात्वादित्यन्तेन । तथा च प्रनाव्य-
ङ्गीकारेपि न भगवद्रूपत्वहानिरित्यर्थः । किञ्च, अनुकृत्यधिकरणे सर्वस्य भगवदनुकारित्वं 'तमेव भान्तमनुभाति
विश्व'मिति विषयवाक्येन प्रतिपादितम्, अतः प्रकृतेपि यदि लौकिको रसः प्रतिपाद्यते, तदापि मूलरसानुकारि-
तयैव तत्स्वरूपं सिध्यतीत्येतदृष्टान्तेन सोपि रसोऽनुमीयताम् । अयं लौकिकः परिच्छिन्नो, मात्रोपजीवनश्रुतेः, स
त्वपरिच्छिन्नो, भूमत्वात् । तथा च लौकेऽनुकरणमात्रेण तदाभासस्यैव प्राकट्यम्, न तु तस्येति न जीवस्य,
तत्करणेपि न तद्रससम्बन्धलेशः । शास्त्रप्रणयनं तु दुरन्तस्तस्यैव परिचायनायेति तत्रैव स्फुटम् । वस्तुतस्तु पाद्मे
पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादादृष्टेर्वैष्णवत्वमवगम्यते । एवं भरतस्यापि, नाट्यशास्त्रस्यानुमोक्षकथनात् ।
किञ्च, आज्ञेयोपि प्रणेता नाट्यशास्त्रस्य । स च परमभक्तो जनकतनयाप्राणनाथस्य । अतस्तादृशां न एतावान्
प्रयासः स न त्रिवर्गोपयोगितया जीवार्थः, अपि तूक्त्तरीत्या मोक्षसाधनतापर्यन्ततया । किञ्च, वात्स्यायनेन सांप्रयो-
गिकाधिकरणे 'ऋचां दशशयीनां चतुःषष्टिसंशितत्वादिहापि तदर्थसम्बन्धाच्च बह्वृचैरेषा पूजार्थं संज्ञा प्रवर्तितेत्येक'
इति सूत्रयता संप्रयोगान्गचुम्बनादीनाम्ऋगर्थत्वं प्रदर्शितम् । 'सर्वे वेदा यत्पदमामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्य'
इति श्रुतिस्मृतिभ्यां वेदस्य भगवत्परत्वं सिद्धम् । एवं सत्यस्य शास्त्रस्य तत्सामानाधिकरण्ये वेदवत् परोक्षवादेन
लीलासहितभगवत्प्रतिपादकत्वं युक्तमेव । गान्धर्वस्य सामवेदोपवेदतया च । अत एवमर्थाज्ञात्तॄणां जीवानां भ्रान्ति-
रित्येतदार्थमभिसन्धायोक्तं तच्चेत्यादि, बुद्धयस्वेत्यन्तम् । तस्मान्न कोपि शङ्कालेश इति दिक् ।
This is the highest ideal. But all cannot be expected to reach it. Only those
who are completely निरुद्ध in Lord can realise the highest beauty of this ideal. Hence
a sound principle was laid down by Vitthaleswara that one who is not truly रसिक,
should not see this even if he is a Vaishnava. 'प्रार्थये रसिकाः स्वैरं पश्यन्त्विदमहर्निशम् ।
एतद्रसानभिज्ञस्तु मा द्राक्षीदपि वैष्णवः'. For such Vaishnavas the other aspects of Krishna
गोवर्धनधारित्व etc, are there. Unfortunately this sound maxim was not followed, and
in practice the highest ideal was most prominent, with the result that in case of
Anadhikari it caused his down-fall.
The purport of this little work is to lay down a principle that whatever
country you belong to, to whatever age, to whatever community, whatever be
your surroundings, you can approach God through this path of service based
on love. This broadest aspect was not lost sight of by Vithales'wara, and we do
find that even Mahomedans like Pathan Alikhan, and Taj Bibi, and even some
members of the untouchable classes could approach God by this Path. Followers
of this path can observe their Varnas'rama Dharmas which have reference to
the body, but this Prema-marga referred to the soul. In Bhakti of the Lord
everyone has his अधिकार. The sine-quo-non of this Adhikara is that before you
do anything you must dedicate it to Lord. Keeping Lord before you, that is,
as if you are to carry out His behests, you are to follow your pursuits. This
सेवामार्ग-रतिपथ was proclaimed by Vallabhacharya. The Highest Divinity was not
merely creator, destroyer, sustainer etc, but He was the object of the most fervent
warmth of उत्कृष्ट प्रेम. Blessed were those who realised and enjoyed this रस in the
purest स्वरूप. The women of Vraja realised the same ideal in नित्य प्रिय रस आनन्द
कृष्ण, and for a glimpse of this the great Uddhava-forsaking the ब्रह्मकथा etc., pined
to be गुल्म-लता etc., in Vraja. Hence व्रजाङ्गनाs are considered greater than ज्ञानिन्s,
greater than भक्तs, greater than मुनिs, greater than नारद and प्रह्लाद, greater than श्रोत्रिय
ब्रह्मविद् ब्राह्मणाs like वशिष्ठ.