सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 306, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 306

४८ श्रीपीताम्बरकृतविवृतिसमेता ।

लक्षणम् । अतस्तेऽपि भिन्ना इत्युन्नेयम् । इदं हि पुष्टिप्रकरणम् । अतः पुष्टिभेदन्निरूपणाय
यावत्तत्स्वरूपनिरूपणमुपयुज्यते, तावत्क्रियते । विशिष्य तु तत्तत्प्रकरण एव निरूप्यमिति
न दोषः । भगवत्प्रियत्वसाधकभक्तिमत्त्वं पुष्टिजीवानां लक्षणं तु पूर्वोक्तवाक्यविचारादेव
फलतीति न विशिष्योक्तम् ॥ १० ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
एवं लक्षणफलयोर्भेदेन यत्सिद्धं तदाहुः तस्मादिति । यस्मादेवं लक्षणभेदस्त-
स्मात्पुष्टिमार्गीया जीवा मार्गान्तरीयजीवेभ्यो भिन्ना एव । एतावता सर्वथा भेदसिद्धौ
मेलने प्रकारान्तरासम्भवादाहुः न संशय इति । यद्यपि 'कामः सङ्कल्पो विचिकित्सा
श्रद्धाऽश्रद्धा धृतिरधृतिरित्येतत्सर्वं मन एवे'ति श्रुतावितिशब्देन प्रकारवाचिना द्वेषादयः
सङ्ग्रहीतुं शक्या इति सोपाधिकानामेव भेदः समायाति, न केवलानाम् । न च जीवप-
दोक्तिविरोधः । 'एवं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तृतम् । एष चेतनया युक्तो जीव
इत्यभिधीयत' इति चतुर्थस्कन्धे नारदवाक्ये जीवपदस्य तादृशेऽपि प्रयोगात् । 'तानहं'मिति
गीतावाक्ये द्वेषादिधर्मोक्तेश्च । तथापि 'कर्ता शास्त्रार्थवत्त्वा'दित्यधिकरणे उपादानसूत्रे बुद्धि-
सम्बन्धात्कर्तृत्वमिति निराकृत्य, जीवगतमेव कर्तृत्वं बुद्धिसम्बन्धादुद्गच्छतीत्याकरे व्यवस्था-
पितम् । तद्वदेते द्वेषसाधारणभावमक्तयोऽपि ज्ञेयाः । अत एव फलवैजात्यम्, अन्धतमप्र-
वेशो मुक्तिः पुरुषोत्तमप्राप्तिरिति । पर्यवसितं फलं केवलस्यैवेत्यनुपदमेव व्युत्पादितम् ।
तदेतदुक्तं न संशय इति । ननु 'यदा यस्य' 'यस्यानुग्रहम्' 'यमेवैष वृणुत' इत्यादिषु
यच्छब्दस्य यदाशब्दस्य चोपबन्धात्कञ्चिदेव जीवं कस्मिंश्चित्काले भगवाननुगृह्णातीति
सिध्यति । तेनानुगृहीतः पुष्टिमार्गे प्रविश्य पुष्टिजीवो भवतीति न जीवभेदः । न चानुग्रह-
विशिष्टस्य केवलापेक्षया भेदान्न दोष इति वाच्यम् । विशिष्टस्यानतिरिक्तत्वात् । देवदत्तः
कुण्डलीतिवत् । विशेषणविशेष्यसम्बन्धस्यैव पर्यवसानतोऽतिरेकः सेत्स्यति, न जीवानामिति
जीवभेदाङ्गीकारो व्यर्थ इति चेत् । न । प्रामाणिकत्वात् । 'त्रयाः प्राजापत्या देवा मनुष्या
असुराश्चेति' बृहदारण्यके श्रावणात् । पञ्चरात्रेऽपि 'उत्पन्नास्त्रिविधा जीवा देवदानव-
मानवाः । तत्र देवा मुक्तियोग्या मानुषेषूत्तमा अपि । मध्यमा मानुषा ये तु सृतियोग्याः
पुनः पुनः । अधमा निरयायैव दानवास्तु तमोलया' इति कथनात् । नन्वत्र देहस्य
देहविशिष्टस्य वा भेद उक्तो, न केवलस्येति चेत् । न । फलोक्त्या तन्निश्चयात् । केवल-
स्यैव पर्यवसितं फलमिति पूर्वमेव व्युत्पादितत्वात् । न च पञ्चरात्रस्याप्रामाण्यं शङ्क्यम् ।
भारते मोक्षधर्मे नारायणीये तत्प्रामाण्यस्य कण्ठत एवोक्तत्वात् । तर्कचरणेऽपि विरुद्धां-
शमात्रानङ्गीकारेण शेषाभ्यनुज्ञानात् । जैमिनीयस्मृतिपादेऽपि स्मृतीनां तथैव प्रामाण्य-
साधनात् । किञ्च । 'यदा यस्ये'त्यादिषु न तदैव पुष्टिजीवत्वमित्युच्यते, किन्तु साधनस-
पत्त्यान्यत्र वैराग्यमनर्थनिवृत्तिः स्वलाभश्च । अतोऽपि तथा । तस्माद्यदानुगृह्य ततः