षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 257, कुल 408 में से
संदर्भ में पढ़ेंते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥
भगवानेव हि फलं स यथाऽऽविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥
आसक्तौ भगवानेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥२३॥
जीवास्ते ह्यासुर्राः सर्वे प्रवृत्तिं चेति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञांस्ताननु ये पुनः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ।
सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ ॥
इति श्रीवल्लभाचार्यविरचितः पुष्टिप्रवाहमर्यादाभेदः
समाप्तः