षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 256, कुल 408 में से
संदर्भ में पढ़ेंपुष्टिप्रवाहमर्यादाभेदः ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ २ ॥
द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थितः ।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥
कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् ।
सर्वत्रोत्कर्षकरणात्पुष्टिरस्तीति निश्चयः ॥ ४ ॥
न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ।
यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ ५ ॥
मार्गैकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
जीवदेहकृतीनां च भिन्नत्वं नित्यताश्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
मूलेच्छात्तः फलं लोके वेदोक्ते वैदिकेऽपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥
तानहं द्विषतो वाक्याद्भिन्ना जीवाः प्रवाहिणः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि तावता कार्यं यावत्तस्य करोति हि ।