षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 126, कुल 408 में से
संदर्भ में पढ़ें३८ बालबोधः ।
तदेवाहूस्त्रिवर्गेति ।
त्रिवर्गसाधनानीति न तन्निर्णय उच्यते ।
मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥
द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ ।
त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥
एतानि त्रिवर्गसाधनानि इति कार्यतः कारणतः फलतः स्वरूपतस्तन्निरूपणे
उच्यन्त इति तत्प्रतिपादकानि, नाहं वदामीति । द्वितीयकोटिसाधनान्याहुर्मोक्षे
चत्वारीति । चत्वारि शास्त्राणि लौकिकमोक्षप्रतिपादकानीत्यर्थः । योगः साङ्ख्यम् ।
तत्तच्छक्तिमत्त्वेन विष्णुशिवप्रतिपादके द्वे । एवञ्चतुर्द्धा वैष्णवे शैवे वा तेषां, कोटिभेदेन
निरूपणम् । द्वाभ्यामेकाकोटिस्तथैव चापरा । एकस्या द्विरूपत्वं त्यागा त्यागभेदेन ।
एका स्वतः स्वकृतिसाध्यतया । अपरा परतः मोचककृतिसाध्यतया । अतः
कोटिद्वयम् । द्विधासती मुक्तिहेतू आहुः साङ्ख्ययोगाविति । तत्र मोक्षप्रतिपादकस-
मये स्वतो मोक्षप्रतिपादकौ साङ्ख्ययोगौ प्रकर्षेण कीर्तितौ । पूर्वकोटिद्वित्वे हेतुमाहु-
स्त्यागात्यागेति । सांख्ये त्यागो बाह्याभ्यन्तरभेदेन । योगे त्वान्तर एव । त्यागस्तु
संसारनाशद्वारा पुनर्भवनसहिताहङ्कारध्वंसजनने उपक्षीणः ॥ ५ ॥ ६ ॥
अहन्ताममतानाशे सर्वथा निरहङ्कृतौ ।
स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७ ॥
तदर्थं प्रक्रिया काचित् पुराणेऽपि निरूपिता ।
ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ ८ ॥
एवं सर्वथाऽहङ्काराभावे यदा जीवः स्वमूलभूते अक्षरात्मके ब्रह्मणि उद्भूतत्रि-
तयांशोभूत्वा स्थितो भवति, तदा स जीवः कृतः अर्थः पुरुषार्थो येन, तादृशः
स निगद्यते । तथैव च निबन्धे, 'संसारस्य लयोऽपुनरावृत्तिः, मुक्तौ न प्रपञ्चस्य कर्हि-
चिदि'ति । श्रुतिः स्मृतिश्च, 'न स पुनरावर्त्तते यद्गत्वा न निवर्त्तन्ते' इत्यादिनोक्तरूपा-
ऽपुनरावृत्तिश्च तस्य, ततोप्यधिकभजनानन्ददानोन्मुखभगवदधीना, मुक्तोपसृप्य-
व्यपदेशादिवत् । एवं प्रकारकमोक्षे प्रकारान्तरीयसाधनघटना पुराणेपि निरूपिता ।
ऋषिभिरपि स्वस्वप्रकृत्यनुसारेण चरमार्थप्रतिपादकत्वेन विविधसाधनकदम्बाः
प्रतिपादिताः । तेषां सर्वेषां फलमेकमेव । यथा रात्रि (?) न्यायेन अक्षर एव । तत्र
हेतुः, अबाह्यतः एतत्साध्यैकसाधनजातीयैकपरत्वतः ॥ ७ ॥ ८ ॥