षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 125, कुल 408 में से
संदर्भ में पढ़ेंश्रीद्वारकेशचरणविरचित टीकासमेतः । ३७
अलौकिकः पुरुषोत्तमः, तत्सम्बन्धिनस्ते तु वेदेनैव निरूपयितुं शक्याः ।
तस्यैवानुभवविषयत्वात्तेषाम् साध्यानि अवान्तरफलरूपाणि । साधनानि पुरुषार्थस्व-
रूपसिद्धयै अव्यभिचारितया कारणानि । मुख्यफलरूपास्तु स्वयमेव भवन्तीति
वेदेन उक्ताः साधनैः सहिता ये साध्याः । सूत्रोक्तानां साध्यसाधनानां परस्परमव्य-
भिचारेण हेतुहेतुमद्भाव इति ज्ञापनार्थं सम्यग्योगो निरूपितः । एवं सपरिकराणामलौ-
किकानां निरूपणप्रकारमुक्त्वा शिष्टानामाहुलौकिका ऋषिभिः प्रोक्ता इति ।
ऋषयो मन्त्रदृष्टारः, तैः स्वज्ञानानुसारेण प्रकर्षेण उक्ताः । ननु न हि ते वेदाद्यसं-
मत्या स्वतन्त्रतया पुरुषार्थदृष्टारो वक्तारो वा भवन्ति । तथा सत्यलौकिकानां तेषां तेनैव
निरूपणस्य सिद्धत्वात्किमिति वेदाद्यनुक्तानां तेषामप्रामाणिकानां निरूपणं तैः क्रियते
इति तत्राहुः, तथैवेश्वरशिक्षयेति । वेदस्तु लौकिकालौकिकेषु नियन्ता, अत एवे-
श्वरः, तच्छिक्षया तथाविधानां कथनम् । ऋषीणां तु वेदेनैव सर्वज्ञत्वं ऋषित्वं च
प्राप्तानां लौकिकैकपुरुषार्थप्रवर्त्तनयोग्यत्वात्तथाविधतत्प्रवर्त्तनं वेदस्यापि सम्मतमिति
योगजधर्मेण वेदार्थविचारे तथाभूता एव ते स्फुरद्रूपा जाता इति तथैवोक्तवन्तः ।
अत एव प्रोक्ता इति निरूपितम् ॥ ३ ॥
ननु जीवविचारितेभ्यस्तेभ्य ईश्वरविचारितानां तेषामुत्तमत्वात्त एव किमिति
नोच्यन्ते तत्राहुः—लौकिकांस्त्विति ।
लौकिकांस्तु प्रवक्ष्यामि वेदाद्याद्या यतः स्थिताः ।
धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥
तुशब्दः पूर्वविधाद्व्यावर्त्तयति । तथापि, ऋषिभिस्ते निरूपिता एव किं
भवदुक्त्येति चेन्, न । प्रवक्ष्यामीति प्रकर्षेण वक्ष्यामि । ऋषिभिर्निरूपिताः, परं
नालौकिकेभ्यो विविच्य, अहं तु तेभ्यो विविच्य स्वरूपतः फलतः स्थूणाखननन्यायेन
लौकिकान्वक्ष्यामि । तथापि, सामान्येभ्यो विशिष्टा एव कथं नोच्यन्ते ? तत्राहु
वेदाद्याद्या इति । यतो वेदाद्याद्या अलौकिका वेदस्वरूपाभिज्ञैस्तद्वाक्यैरेव तदाशय-
विचारे निर्गलितार्थरूपाः । तथाधिकारिप्राप्तिविषयत्वेन विचारकाणां मनसि
स्फुरद्रूपतया स्थिताः । अन्येषां सामान्यतस्तत्स्वरूपस्थितिज्ञानं समाहृत्य सर्वनिरूपणे
वाक्यशेषोक्तन्यायेन स्वत एव लौकिकेभ्यो भिन्नतया तद्भवतीति मुख्यान्विहाय
गौणानेव कोटिद्वयभेदेन निरूपयन्ति । तत्र त्रयाणामेका कोटिः । तुरीयस्यैका, पूर्वकोटि-
प्रतिपादकानाहुः । धर्माः शारीराः, तत्प्रतिपादकानि शास्त्राणि । अर्थस्तूभयत्र हेतुः,
तत्प्रतिपादकं नीतिशास्त्रम् । कामस्तु वात्स्यायनोक्तप्रकारतः, तत्प्रतिपादकं तु
तदुक्तमेव शास्त्रम् ॥ ४ ॥