सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 117, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 117

श्रीपुरुषोत्तमचरणविवृतिसमेतः । २९

उपरिचरवस्वादिसदृशे विष्णुर्भोगं ददाति । तेन अतिप्रियायैव ददातीति निश्चीयते ।
तस्मादुभयदानशक्तौ न सन्देहो नाऽपि मोक्षशास्त्रत्वभङ्गो न वा वाक्यविरोध
इत्यर्थः । द्वारकेशरास्तु अर्तैः प्रियायेति पेठुः । एवमत्र साधनभेदेन फलभेदः
साधितः । अतः परं तयोः शास्त्रयोर्यत्साधनं प्रतिपादितं तत्करणेऽपि कथं कस्यचि-
देवांऽतिप्रियत्वमित्याकाङ्क्षायां तन्न तत्साधनोपचयात्किन्तु शास्त्रान्तरोक्तात्तदुक्ताद्वा
साधनान्तरादिति वक्तुं फलबलेनाऽतिप्रियत्वसाधनमाहुर्नियतेत्यादि । अतिप्रियत्व-
नियतो यो भोगमोक्षरूपोऽर्थस्तस्य प्रदानेन लक्ष्म्या इव स्वस्यैव (?) सम्पादनेन
हेतुना तदीयत्वं तदाश्रयः एतदुभयं पुराणोक्तं समुदितं प्रत्येकं च साधनम् । तथा
चैताभ्यां प्रत्येकसमुदिताभ्यामतिप्रियत्वे यथाधिकारं भोगस्य मोक्षस्य च दानमि-
त्यर्थः । ननु सामर्थ्ये विद्यमाने शिवो मोक्षं विष्णुश्च भोगं यन्न ददाति तदिदमौदा-
र्यविरोधीत्यत आहुर्द्वितीयार्थे महाञ्छ्रम इति । सर्वेभ्यः साधारण्येन दीयमाना-
द्यर्थातिरिक्तो द्वितीयः । तदर्थे तयोर्महान् प्रयासः । अतो न ददतः । तथाच न ह्युदारः
प्रयासं कृत्वा ददात्यपि त्वयत्नसिद्धमिति लोके दृष्टमतो न दोष इत्यर्थः । यद्वा ।
तदेव वक्तुं फलबलेन साधनाभावकथनपूर्वकमतिप्रियत्वस्याऽतिरिक्तं साधनमाहु-
र्नियतेत्यादि । साधारणेभ्यो नियतस्याऽर्थस्य प्रदाने सति न तदीयत्वं तदाश्रयश्च
न । एतच्च द्वितीयार्थे साधारणदेयव्यतिरिक्ताऽर्थे प्रत्येकपि साधनम् । यद्येतत्स्यात्त-
दाऽतिप्रियत्वात्तदेव दद्यान्न तु साधारणवतस्तथेत्यर्थः । ननूदारस्य साधनापेक्षा
नोचितेत्यत आहुर्महाञ्छ्रम इति । अर्थस्तूक्त एव । कुतो महानित्याकाङ्क्षायां तदुप-
पादयन्ति जीवाः स्वभावतो दुष्टा इति । जीवाः शारीरात्मानः सलिङ्गाः । " एवं
पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते " इति
चतुर्थस्कन्धे नारदवाक्यात् । यद्यपि श्रुतौ केवला अपि जीवपदेनोच्यन्ते ।
तथापि, ' त्रयः प्राजापत्या देवा मनुष्या असुराश्चे"ति श्रुतेः, " उत्प-
न्नास्त्रिविधा जीवा देवदानवमानवाः" इत्यादिपञ्चरात्रवाक्याच्च देवत्वादि वैशिष्ट्यं
सलिङ्गानामेवेति तादृशा एवाऽत्र ग्राह्याः । तेषां च स्वभावतः लिङ्गवैशिष्ट्यतो यः
साहजिको देवमनुष्यासुरस्वरूपो धर्मस्तस्माद्दुष्टाः अविद्याकामकर्मजवासनाविशेषदोष-
भाज इति तद्दाने पात्रतायाऽयोग्याः । तथा च योग्यतार्थं स्वभावपरावर्त्तनस्य


१ अतीति ख. " अतः परमि"त्यादिप्रतिज्ञाविरोधादत्र तु ग्रन्थबहिर्भूतत्वमनियार्यमेव सर्वत्रोपलंभात्तु
निरासाहसमनाश्रयणीयमेव । २ ददत इति ख ग. घ. ३ स्वभावतः त्रयः प्राजापत्या देवा मनुष्या असुराश्चेति
श्रुतेः। उत्पन्नास्त्रिविधा जीवा देवदानवमानवा इत्यादिपञ्चरात्रवाक्याच्च यः साहजिको देवमनुष्येत्यादिःपाठः ख.ग.