षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 116, कुल 408 में से
संदर्भ में पढ़ें२८ बालबोधः ।
माल्याभरणावलेपनैः श्वभोजनं स्वात्मतयोपलालितमि"त्यादिवाक्येषु पिशाचच-
र्य्याया भोगत्यागस्याऽऽत्मरतत्वस्य च कथनेन शिवस्य सर्वदा मुक्तिर्भोग्या । 'अन-
न्वितं ते भगवन्विचेष्टितं यदात्मना चरसि हि कर्म नाऽज्यसे । विभूतये यत उपसे-
दुरीश्वरीं न मन्यते स्वयमनुवर्त्ततीं भवान् । यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि
तस्याऽङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच्चलाऽपि यच्छ्रीन जहाति
कर्हिचिदि"त्यादिवाक्येष्वनपेक्षस्याऽपि लक्ष्म्या अत्यागकथनात्सर्वत्र पुरुहूतरूपे-
णैव प्राकट्याद्भोगो भोग्यः स्फुट एव । तेन स्वभोग्यत्वाच्छिवो मुक्तिं विष्णुर्भोगं च
न ददातीत्यर्थः । वस्तुतस्तु "आत्मारामोऽपि यस्त्वस्य जीवलोकस्य राधसे । शक्त्या
युक्तो विचरति घोरया भगवान् भवः” इति वाक्याद्घोरशक्तिनियमानुरोधेनोक्तसन्द-
र्भबोधितोपासकदोषेण च मोक्षं शिवो न ददाति । 'भक्ताय चित्रा भगवान्हि
सम्पदो राज्यं विभूतीर्न समर्द्धयत्यजः । अदीर्घबोधाय विचक्षणः स्वयं पश्यन्निपातं
धनिनां मदोद्भवमि'ति वाक्याद्भोगदोषदर्शनेन 'न मन्यते' इति वाक्याच्छ-
क्त्यनधीन इति स्वातन्त्र्येण च भोगं विष्णुर्न ददातीति भावः । द्वारकेश्वरा
अप्येवमेवाऽऽहुः ॥ १४ ॥
नन्वेवं सर्वथा अदाने पाशुपततन्त्रस्य मोक्षशास्त्रत्वं भज्येत । “अपत्यं द्रविणं
दारा हारा हर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तित' इत्यादि-
वाक्ये उक्तं भगवद्भक्तेरपत्यादिसाधनत्वं च विरुद्ध्येतेत्याशङ्कायामधिकारिविशेषे
दानमाहुरतिप्रियायेत्यादि ।
अतिप्रियाय तदपि दीयते क्वचिदेव हि ।
नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥
प्रत्येकं साधनश्चैतद् द्वितीयार्थे महाञ्छ्रमः ।
जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥
श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति ।
अतिप्रियाय परमप्रीतिविषयाय तदपि स्वभोग्यमपि दीयते । दीङ् दाने ।
ददाति । इदमपि लोकसिद्धम् । अन्यथा कृपणत्वं स्यात् । तत्र गमकमाहुः क्वचिदेव
हीति । हि यस्माद्धेतोः क्वचिदेव पुरुषविशेष एव मयबाणसदृशे शिवो मोक्षं ददाति ।
१ " अतः परं टीकान्तरमतं मया न लिख्यते " इति पूर्वमुक्तेऽपि यदिह टीकान्तरमतोपन्यासः स सम्म-
तिप्रदर्शनार्थः । न तु मतान्तरतयेति मे भाति । अन्यदीयं टिप्पणमेव वा प्रमादाद् ग्रन्थप्रविष्टं भवेत् । २ भगव-
द्भक्तेः स्मृत्यादिसाधनत्वेति क.