सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 109, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 109

श्रीपुरुषोत्तमचरणविवृतिसमेतः । २१
वात्स्यायनः, “किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चाऽर्थधर्मं सुखं चेति
शिष्टास्तस्मिन्व्यवस्थिता ” इति । अन्यथा साध्यमानांस्तु परस्परविरोधादधर्मानर्थ-
द्वेषाख्यदुष्टत्रिवर्गपर्यवसायिनो भवन्तीत्यर्थः । एवं त्रिवर्गे गुणप्रधानभावो गुणभूत-
साधनव्यवस्था च सङ्क्षेपेण सूचिता । अतः परमधर्माङ्गभावाय यथैतानि शास्त्राण्यु-
क्तानि तथैतेषां निर्णयोऽपि तदर्थं वाच्य इत्याकाङ्क्षायामाहुरिति न तन्निर्णय
उच्यत इति । इति त्रिवर्गसाधनत्वादेव हेतोः तेषां धर्मशास्त्रादीनां निर्णयो नोच्यते,
“त्रैवार्गिकायासे”तिवाक्येन भगवन्मार्गे तेषामनुपादेयत्वान्नोच्यत इत्यर्थः ॥ ४१-२ ॥
एवं त्रिवर्गव्यवस्थां सूचयित्वा मोक्षरूपं फलमेकमनेकं वेत्याकाङ्क्षायां तद्भेदं
वक्तुमाहुर्मोक्ष इत्यादि ।
मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥
द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ ।
त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥
स्मार्त्तमोक्षविषयकाणि चत्वारि शास्त्राणीत्यर्थः । एतेन “प्रजामनु प्रजा-
यन्ते तदु मर्त्यामृतं विदुरि”ति श्रुत्युक्तः “स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति
तथा राज्यं प्रीता नृणां पितामहा ” इति पितृदैयो मोक्षस्तच्छास्त्रं च निवारितम् ।
एवमन्यदपि तन्त्रोक्तम् । कथमेवमित्यत आहुः परतः इत्यादि । परतः स्वतः
द्विधा परायत्तस्वायत्तभेदेन द्विप्रकारके मोक्षे द्वे द्वे शास्त्रे, तेन चत्वारीत्यर्थः । अवा-
न्तरविभागं सप्रयोजकं वक्तुं परायत्तमोक्षपक्षे विचारबाहुल्यात्तदनुक्त्वा सूचीकटाह-
न्यायेन स्वायत्तमोक्षप्रतिपादकविभागमाहुः स्वत इत्यादि । स्वतस्तत्र स्वायत्ते मोक्षे
त्यागात्यागविभागेन साङ्ख्ययोगौ दर्शनग्रन्थौ प्रकीर्त्तितौ आदृतत्वेन शिष्टैः
कथितौ । तथा चैतौ शिष्टादृतावित्यर्थः । एतेन मोक्षप्रतिपादकौ कणभक्षाक्षचरणदर्शन-
ग्रन्थौ शिष्टानादृतत्वेन व्यावर्तितौ । अत एव पराशरोपपुराणे “अक्षपादप्रणीते
च काणादे साङ्ख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिरि”ति ।
“एतेन शिष्टापरिग्रहा व्याख्याता ” इति व्याससूत्रञ्च । तेन कैमुतिकन्याया-
देव तथागतार्हतलोकायतादिव्यावृत्तिरपि सूचिता । एवं प्रयोजकभेदमुक्त्वा
क्रमे प्रातिलोभ्यभ्रमं वारयितुमाहुः साङ्ख्ये त्यागः प्रकीर्त्तित इति । साङ्ख्ये
हि “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न
प्रकृतिर्न विकृतिः पुरुष ” इति नित्यानित्यवस्तूनि सङ्गृह्य तद्विवेकेन पुरुषस्य
१ सप्रयोजनकमिति क. ग. २ प्रयोजनभेदामिति घ. ३ नित्यानि वस्तूनीति क. ४ तत्तद्विवेकेनेति क.