सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 108, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 108

२० बालबोधः ।
शेऽध्याये "वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिन" इत्याद्युद्धवप्रश्ने "कालेन नष्टा
प्रलये वाणीयं वेदसंज्ञिता । मयाऽऽदौ ब्रह्मणे" इत्यारभ्य "मन्मायामोहितधियः
पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्यनेकान्त्याद्यथाकर्म यथारुची"त्यन्ते सन्दर्भे सिद्धय-
तीति न शङ्कालेशः ॥ ३ ॥
एवं द्विविधानां स्वरूपमुक्त्वा लौकिकतत्तद्वक्तृणामृषीणामानन्त्यात्तदुक्तिषु
हेयोपादेयभावं बोधयितुं वैदिकानां निःसन्दिग्धत्वं च बोधयितुमाहुर्लौकि-
कानित्यादि ।
लौकिकांस्तु प्रवक्ष्यामि वेदाद्याया अतः स्थिताः ।
धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥
त्रिवर्गसाधकानीति न तन्निर्णय उच्यते ।
लौकिकान् सार्त्तान् धर्मादीन् । तुः शिष्यपरिगृहीतपक्षनिरासे । प्रकर्षेणेतर-
विवेकेन वक्ष्यामि कथयिष्यामीत्यतो हेतोः आद्या अलौकिका वेदात्काण्डद्वयात्मकात्
स्थिताः जैमिनिकल्पकारबादरायणैराचार्यैः शब्दादिवलाबवं विचार्य शब्दादेव गुणप्र-
धानभावेन व्यवस्थापिताः। तथाच यदि वैदिकधर्मेप्सुस्तदा यथाशाखं कल्पेन जैमिनी-
येन च धर्मं साधयेत् । तथैवाऽर्थेप्सुरपि ताभ्यां तम् । यदि कामेप्सुस्तदा तथैव
तमपि। मोक्षेप्सुस्तु यथाधिकारं वैयासेन ब्रह्मवादेन स्वतो मोक्षं भेदवादविशिष्टाद्वैतवाद-
विशिष्टभक्त्यादिभिः परतो मोक्षमिति निबन्धादौ निर्णीतमेव । अतस्तेषामसन्दिग्ध-
त्वादन्त्यानेव कथयिष्यामीत्यर्थः। एवं प्रतिज्ञाय "मानाधीना मेयसिद्धि"रिति
मानकथनमुखेनैवाऽऽहुर्धर्मेत्यादि। धर्मशास्त्राणि मन्वादीनि गृह्यसूत्रादीनि च ।
तेनाऽऽगमाँ वामाद्या व्यावार्त्तिताः । नीतिः बृहस्पत्यादिप्रणीतं राजनीतिशास्त्रम् ।
एकवचनं ब्राह्मवैशालाक्षावहदन्तकबार्हस्पत्यौशनसप्राचेतसादीनामिदानीमप्रसिद्धत्वा-
द्राजधर्मादौ भारते दिङ्मात्रमुक्ताया अपि नीतेः कार्यक्षमत्वात्तत्परम् । तेन चौरद्यूत-
कारादिशास्त्राणि व्यावार्त्तितानि । कामशास्त्राणि वात्स्यायनसूत्राणि । ब्राह्मनान्द-
बाभ्रव्यादीनामिदानीमप्रसिद्धत्वेऽपि दन्तकादिप्रणीतशास्त्रार्थस्य वात्स्यायनसूत्रेषु
सप्ताधिकरणया कथनाद्बहुवचनम् । तेनाऽपि " मातॄयोनिं परित्यज्य विहरेत्सर्वयोनि-
ष्वि"त्यादिबोधकानि कौलादीनि व्यवर्त्तितानि । एतानि क्रमात् त्रिवर्गसाधकानि ।
तथा च तदुक्तरीत्या साधने धर्मार्थकामाः परस्पराविरोधेन सिद्धयन्ति । यथाऽऽह


१ एतेन ' यतः स्थिता ' इत्यत्र ' अतः स्थिता ' इति पाठः प्राप्यते परन्तु मूले तथा स्वीकारे प्रत्युत योज-
नायाः क्लिष्टत्वात् ' कथयिष्यामि यतो हेतोरे'ति विवृतावेव पाठः प्रतिभाति । २ तेनाऽऽगमाया व्यावार्त्तिता
इति ख, ३ बाद्दकतकेति ख, बाद्दत्तकेति ग,