शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १३
बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः ।
तदास्थाप्रविकासो यस्तदौन्मुख्यं प्रचक्षते ॥ १५ ॥
किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते ।
तस्येच्छा कार्यतां यातः यया सेच्छः स जायते ॥ १६ ॥
औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ।
न चौन्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥ १७ ॥
यथा जलस्य पूर्वं निस्तरङ्गस्यातितरङ्गितां गच्छतः सूक्ष्मः पूर्वः
कम्प औन्मुख्यरूपः, पाणेश्च मुष्टितां गच्छतः पूर्वः सुसूक्ष्मः कम्प्रो दृश्यते,
तथा बोधस्य स्वरूपस्थस्य पूर्णस्य विश्वरचनां प्रति अभिलाषमात्ररचना-
योग्यताया यः प्रथमो विकासः प्रवृत्त्यारम्भस्तदौन्मुख्यं प्रचक्षते । प्रवृत्त्या-
रम्भश्च निर्वृतावप्यभेदाख्यातिधर्मत्वेन तस्याः १ प्रथनात् । यदेतदौन्मुख्यं,
सैव किंचिदुच्छूनता कथ्यते भट्टप्रद्युम्नेन तत्त्वगर्भे । अन्यैरपि तरङ्गो-
र्म्यादिशब्दैरपि । तस्यौन्मुख्यस्येच्छा कार्या । तस्य हि योऽसावाभोगो
ज्ञानादिकार्योत्पादनसमर्थो विस्तृतो दाढर्यमय उत्तरो भागोऽत एव
रचनास्थाविकासदाढर्यात् स्थूलः, सेच्छा व्यवस्थिता । न चोच्छूनतादि-
व्यपदेश्यौन्मुख्यप्रसङ्गेन शिवो बीजमिव स्थौल्यभाक् । इच्छाद्य२-
सद्भावे वा अन्यत्र क्वचित् वस्तुतो न स्थौल्यं चिदात्मनः प्रतिबिम्ब-
कल्पैर्भावैरनाधिक्यात् । नापि तदात्मताप्रथा भ्रान्तिरिति३ सर्वमुक्तं
टीकायाम् ॥ १३-१७ ॥
व्यावहारिकोऽपि नास्त्येवमादौ भेदस्तथापरामर्शानिवृत्तेरित्याह—
गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि ।
न च न क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥ १८ ॥
गोः स्तनात् पातात् क्षीरे विकारस्तत एव तदनन्तरमेव । न च
तत्क्षणं तत्र न क्षीरपरामर्शो, यावत्परामर्शैक्यं तावत्सर्वदैक्यमेव ॥ १८ ॥
१ तस्या निर्वृतेः ।
२ निराकाङ्क्षतादशायाम् ।
३ आभासमानत्वात् ।
१४ शिवदृष्टिः [ आ०-१
एवमौन्मुख्यमिच्छायां उक्तमिदानीमुपपादयन्नाह--
यत इच्छति तज्ज्ञातुं कर्तुं वाहेच्छया क्रियाम् ।
तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥ १९ ॥
तत्कर्मनिवृत्तिप्राप्तिरौन्मुख्यं तद्विकासिता ।
यस्मादिच्छति ईश्वरो ज्ञातुं वा कर्तुं वा इति यदुच्यते, तदाख्यात-
पदमिच्छया इच्छालक्षणां क्रियामाह । तस्या इच्छायाः पूर्वापरौ भागौ
कल्पनीयौ पूर्वापरीभूतावयवत्वात् क्रियायाः१ इच्छायाः क्रियात्वाभिधानेन ।
इच्छादीनामन्योन्यात्मता शक्त्यवस्थायां सुतरां स्यात् । ततश्च परमार्थत
एकैव शक्तिः शक्त एवास्तीति प्रतिपादितम् । उत्पत्तिकथायां तु इच्छायाः
पुरोभागे या तस्मिन् कर्मणि तत्कर्मनिष्ठा निर्वृत्तिप्राप्तिः, तदौ-
न्मुख्यं२, कर्मावच्छिन्ना निर्वृत्तिरौन्मुख्यम्, अनवच्छिन्ना निर्वृत्तिमात्र-
मानन्दशक्तिरिति यावत् । तदौन्मुख्यं विकासिता चिदास्थाप्रविकास
इत्युक्तम् ॥ १६ ॥
अनन्तरं हि तत्कार्यज्ञानदर्शनशक्तिता ॥ २० ॥
ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः ।
सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥ २१ ॥
परतस्तस्मिन् विश्वलक्षणे कार्ये यज्ज्ञानं, तत्प्रकाशनशक्तिरूपता
चिदात्मनः सर्वप्रतिपत्तॄणामवेद्यमन्तःकरण इव प्रकाशमानं तत् कार्यं यतः-
सा ज्ञानशक्तिः । अनन्तरं सर्वप्रमातृवेद्यस्थूलकार्यकारसंपत्तिफलः समुद्यम
इच्छाविषय एव क्रियाशक्तिः । तत एव परिसमाप्तिः व्यवहार्यकार्यलाभा-
दित्युक्तं ततः सर्वं जगत्स्थितमिति ॥ २०-२१ ॥
न केवलं जगन्निर्माण एवैवं, यावदेकैकघटकरणकालेऽपि एवं शक्ति-
रूपतेत्याह--
एवं सर्वसमुत्पत्तिकाले शक्तित्रयात्मता ।
न निवृत्ता, न चौन्मुख्यं निवृत्तं, नापि निर्वृत्ति ॥ २२ ॥
१ तदुक्तं--
'गुणभूतेरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥'
इति । २ पूर्णानन्दस्वरूपभेदाख्यातिरित्यर्थः ।
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १५
इच्छाज्ञानक्रियात्मता तावत्सिद्धा१ घटादिकरणकाले । औन्मुख्य-
मपि इच्छापूर्वभागोऽस्ति कर्मावच्छिन्नविशिष्टनिर्वृत्तिरूपः । अन्याप्य-
नवच्छिन्नानन्दरूपा निर्वृत्तिरनिवृत्ता, तदभावे विशेषनिर्वृत्तेरभावात्२
तथा बोधाभावे विशिष्टघटादिबोधस्य३ । अत एव निर्वृत्तिविशिष्टरूपता-
प्राप्तिरिति प्राप्तिग्रहणं पूर्वं४ कृतम् । यदि वा निर्वृत्तिशब्देन पूर्णचिच्छक्ति-
रुपात्ता शक्तिपञ्चकाय ॥ २२ ॥
एकशक्त्यभावेऽपि कार्योत्पत्तिर्न स्यादित्याह--
यदेकतरनिर्याणे५ कार्यं जातु न जायते ।
तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम्६ ॥ २३ ॥
यस्मादेकतरस्य शक्तिभेदस्य निर्याणे अपाये कार्यं न कदाचित्
स्यादित्युकतं, तस्मात् सर्वपदार्थानामुत्पत्तिक्राले सर्वतत्त्वमयशिवतत्त्वो-
पयोग इति न कदाचनापि शिवरूपसंस्पर्शविरहिता, महासर्गप्रारम्भ
इव भावानामेकैकस्य निर्याणेऽपि परमेश्वरस्पर्शोऽखण्डित एवेति
सामरस्यम् । कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तद-
परिज्ञानात्तु कुम्भकारतेत्यर्थः । एकतरेति तरप्पाठः औन्मुख्यनिर्वृत्ति-
द्वित्वापेक्षया ॥ २३ ॥
न केवलं घटादिकरणकाले सर्वशक्तिसंभवः, यावत् ग्रहण-
कालेऽपीत्याह--
घटादिग्रहकालेऽपि घटं जानाति सा क्रिया ।
जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥ २४ ॥
औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना ।
द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥ २५ ॥
घटादिज्ञानकाले यत् घटं जानाति--चिदभेदाख्यातिवैचित्र्य-
भिन्नघटदेवदत्तात्मकवेद्यवेदकाभासनं नाम यत् क्रमिकपूर्वं रूपं सा ज्ञान-
१ नात्र व्यभिचारः । २ औन्मुख्यरूपायाः । ३ अभावः । ४ तत्कर्म-
निर्वृत्तिप्राप्तिरित्यत्र । ५ निर्याणेऽपगतौ । ६ सर्वपदार्थानामुत्पत्तौ शक्ति-
मदात्मकं स्थितमेव ।
१६ शिवदृष्टिः [ आ०-१
लक्षणा क्रिया पूर्वापरीभूतावयवा, न तु जानामीति¹ वचनप्रवृत्तिकाल
एव । जानातिरूपत्वाज्ज्ञानमत्रैव क्रियात्मनि स्थितम् । निरिच्छोर-
वधानरहितस्य वेदनं न भवेत् मनसानधिष्ठानात् । अवधानवद्दर्शनमेव
इच्छा । तत्र च इच्छाक्रियापूर्वभाग औन्मुख्यं तत्कर्मनिवृत्तिः । तदौ-
न्मुख्याभावतस्तस्य प्रमातुर्वेदनस्य वा निवृत्तिः नहि औन्मुख्यरूपां
तत्कर्मनिवृत्तिं विना द्वेष्ये प्रवर्तते । न च चित्तमभेदप्रत्यवमर्शशक्तिरूपां
विना पूर्णशुद्धबोधात्मा कर्ता वेत्ति घटादीन् संविन्निष्ठत्वा-
द्विषयव्यवस्थितीनाम् । सैव चिच्छक्तिः सामान्या निवृत्तिशक्त्यरा-
नन्दरूपा ॥ २४-२५ ॥
ज्ञानकाले शिवत्वाभावमाशङ्कमान आह—
बुद्धिं² विना कथं बोधः सा³ बुद्धिः प्रकृतेः प्रजा ।
न च⁴ तस्य तया योग इति चेदपरस्थितौ⁵ ॥ २६ ॥
सा बुद्धियंतं पुनः सूक्ष्मं⁶ सर्वदिक्कं व्यवस्थितम्⁷ ।
ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा⁸ ॥ २७ ॥
१ जानामीत्यविच्छिन्नाभासः, जानातीति तु विच्छिन्नाभासः ।
२ नन्वत्यल्पमिदमुच्यते यज्जानातीत्यपरज्ञानकालेऽभेदाख्यातावपि
वेद्यवेदकक्षोभे सर्वशक्तिसंपूर्णपूर्णानन्दविश्रान्तशिवतत्त्वोपयोग इति यावता
घटादिग्रहकाल इति ज्ञानमत्रैवेत्युक्तं, तथा च सति कोऽयं घटादिग्रहकालो
नामेति । तथा यदि तत्रापि शुद्धमेव ज्ञानं, तर्हि कृतं विषयव्यवस्थाकल्पितेन
बुद्ध्यादिना । यदि च तत्राप्यस्त्येव तत्तत्त्वोपयोगः, तर्हि कथं तस्य नैर्मल्येन
संभव इति परव्यामोहदलनायाह बुद्धिमित्यादि । यदत्र केचनात्यल्पदृशो
विप्रतिपन्नाः—तस्मिन्नपि शुद्धबोधे स्वप्रकाशे यदि स्वात्मोच्छलत्तात्मकं
ज्ञानमङ्गीकृतमनुभूयते, तत्बुद्धिव्यापारात्मकत्वात् सर्वथा बुद्धिविलासास्त-
मयस्यैव स्वरूपप्राप्तिलक्षणत्वाद्विकल्पनमेव । यत्तु सर्वथा तदभाव एव, स
एव सत्यस्वरूपप्राप्त्या परमार्थमोक्ष इति तद्व्यामोहेन मा व्यामुह्येयुरित्या-
पूर्वमहानुग्रहपरः श्रीमानाचार्यो बुद्धिं विनेत्यादि । ३ कुत इत्यत्र हेतुमाह
सेति । ४ तथापि किमित्यतो न चेति । ५ भेदग्रह एव । ६ सूक्ष्मं बुद्धि-
ज्ञानाद्यविषयं तत्र बुद्धिज्ञानात्मनो भेदस्य विगलनात् । ७ व्यवस्थितमित्यनेन
विशिष्टस्य प्रमातुः कादाचित्कत्वं ध्वनितम् । ८ अपरपरापरंपरासु ।
आ०-१ ] शिवदृष्टिः १७
न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः ।
तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥
एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् ।
ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं
विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः
शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं चेत्, तन्न । अपरावस्थायामभेदा-
ख्यातावेकरसायां पुर्यष्टकप्रमातृणां सा बुद्धिः । यत्पुनः पूर्णतायां परा-
वस्थस्य अत एव सूक्ष्ममभिन्नं वेद्यतामनुपयानमत एव सर्वदिक्कं ६ दिक्का-
लाखण्डितं ज्ञानं बोधमात्रमबोध्यरूपं ७, तत्तस्य शिवस्य सहजं ८
सदा ९ प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना १० तदभावात् ।
ननु एवमपि न्यायवैशेषिकादिसाम्यमायाति ज्ञानस्य शिवाश्रितत्वोप-
गमे, ज्ञानं हि तेषामात्मसमवेतमिष्टं ११ शिवश्चात्मरूप इत्युक्तं
१ लब्धावकाशं वितण्डावादिनं प्रतिवादिनं प्रत्याह न्यायादि-
भिरिति । २ इच्छां मनोधर्म इति वैशेषिकमतमाशङ्क्याह एष इति ।
३ अविगलितस्वरूपसतत्त्वस्यैव भावस्य धर्मकल्परूपान्तरच्छायाधारणं
घटस्येवोदकाहरणं चैत्रस्येव गमनं वृत्तिरुच्यते । तथा तद्वृत्तिभेदान्न वृत्तिभेदो
भवति तेनैव रूपेणाबाधितप्रत्यभिज्ञाविषयत्वात् । ४ तत्त्वभेदाभावात् ।
५ नन्वस्तु तस्या जाड्यं, यथा तत्र विषयः प्रतिबिम्बमर्पयति, तथा
पुंस्प्रकाशोऽपि समर्पयति अन्यथा विषयव्यवस्थापि तथा न सिद्धयेत् तथा च
चैतन्यं, न चेति चकारेणैतत्परिहरति । ६ सर्वासु दिक्षु वर्तमानं न तु
तेनावच्छिन्नं, तथा च व्यापकत्वं विघटेत, उपलक्षणमेतत् तेन सार्वकालिक-
मित्यपि बोध्यं, तदाह दिक्कालेति । ७ बोधमयमत्र प्रकृत्यर्थे मयट्
बोधस्वभावमित्यर्थः, तदाह बोधमात्रमिति । तदेव बोधमात्रत्वं यदन्या-
विषयत्वं, तदाहाबोध्यरूपमिति । ८ सहजं स्वरूपप्रत्यवमर्शस्वभावं
नान्यत् । ९ तदेव स्वाभाविकत्वं यत् तत्प्रच्युतावपि भेदावभासे न
तद्धानिरित्याह सदेति । १० विशेषस्य क्षोभाकारस्य सामान्यं विनास्थितेः ।
११ तेषां न्यायवादिनाम् ।
२
१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः
न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो
ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव
न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव
उक्ता यान्यैर्मनःसंकल्परूपा२, न तु परमेश्वरस्वभावभूता परापरा-
वस्थास्थिता वा ॥ २६-२८ ॥
सर्वतत्त्वमयतया३ शिवतत्त्वावस्थानमाह--
तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥ २९ ॥
बिभर्ति रूपमिच्छात्तः कदाचिज्ज्ञानशक्तितः ।
सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं४ स्थितिम् ॥ ३० ॥
क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् ।
विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥ ३१ ॥
१ 'न चास्य बाह्यकरणैः सिद्ध्यन्ति सकलाः क्रियाः ।
नहि स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् ॥'
'तेनेच्छास्मृतिसुखदुःखवेदनाना-
माधारो न खलु मनो नचैन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं
तेभ्योऽन्यं पुरुषमतः प्रकल्पयामः ॥'
सूत्रकारश्च--'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति ।
२ न्यायवादिभिः । ३ सर्वतत्त्वमयतयेति, यथोक्तं 'यदिदं
किञ्चिद्गर्भीकृतानन्तविचित्रभोक्तृभोग्यं विभवात्मकं भुवनजातमुक्तं तत्र
यदनुगतं महाप्रकाशरूपं, तन्महासामान्यकल्पं शिवतत्त्वमिति ।' उक्तं च
तन्त्रालोके-
'यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं
रूपं भाति परप्रकाशनिबिडं देवः स एकः शिवः ।
तत्स्वातन्त्र्यरसान्पुनः शिवपदादूर्ध्वे विभाते परं
यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥' ( ९।२ )
इति ।
४ ज्ञानशक्तेरुद्रेकात् ।
आ०-१ ] शिवदृष्टिः १६
आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ ।
मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥
बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः ।
यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥
तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः
प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ ।
शक्तिमात्रक औन्मुख्ये विषयाननुष्वक्ते निर्वृतिमये इच्छापूर्वभागे परापरा-
वस्थारम्भदशायां तदनुरूपं रूपं५ बिभर्ति ध्यायिनां ध्येयम् । कदाचिदि-
च्छात्ः६ इच्छाशक्तिरूपत्वात् निमित्तात् । अथवा इच्छारूपमासाद्य७
तदनुरूपं पूर्ववद्रूपं८ बिभर्ति । कदाचित्पुनः ज्ञानशक्तिरूपत्वात् सदाशिव-
रूपं बिभर्ति । क्रियातो ज्ञाने तु प्रागुक्तनयेनाधिक्यात्९ । ऐश्वरीं तु स्थितिं
कदाचित्क्रियाशक्तेः समाभोगात् पर्यन्तप्राप्तविस्तारात् बिभर्ति । कदा-
चित् परापरावस्थान्तरभिन्नशेषवेद्यवेदकरूपबोधात्मप्रमात्रवस्थया१०
मन्त्रादिरूपतां बिभर्ति । एकान्तभिन्नतैव वेद्यस्य विश्वस्य स्थूलत्वम् ।
१ शिवादिमन्त्रमहेशान्तात्मत्वेनेदन्ताभासस्याहमात्मन्येव विश्रान्तेर्न
किञ्चन स्वरूपान्यथाभाव इति द्योतयितुमात्मप्रच्छादनेत्यादि माया-
रूपमित्युक्तम् । २ केनापि गणनानईेण रूपेणेत्यर्थः । ३ बिभ्रद्विभर्तीत्यनेन
एतादृक्स्वरूपाभासनायामपि न तेषां स्वात्मनि किञ्चन् स्वातन्त्र्यमिति
द्योतनार्थम्, अथवा शक्तिमच्छक्तिरूपतोभयविधत्वमागमेष्वेषां सूचितमेव ।
४ उत्तरतत्त्वापेक्षयात्रापि क्रमः । ५ रूपमधिष्ठातृस्वरूपम् । ६ इच्छात्
इति निमित्तपञ्चमी । ७ इच्छारूपमित्यर्थे ल्यब्लोपे पञ्चमी ।
८ ध्यायिनां ध्येयमित्यर्थः । ९ अन्तःकरण इव वेद्यमिति नयेन ।
१० परापरावस्थायां सदाशिवेश्वररूपत्वेऽन्तरभेदेनैव केवलमिच्छाद्य-
नुगुणविशेषविशिष्टं वेद्यवेदकरूपं बोधात्मैव भासते, तत्रैव सर्वस्मिन्प्रमात्रु-
न्मीलनेन मन्त्रादिरूपता, तत्रापि चानुन्मीलितोन्मीलितन्यायेन विशेषः ।
ननु च किमिदमत्र स्थूलवेदनं नाम, तत्राह एकान्तभिन्नतेति । सा च प्रमात्र-
भिनिवेशेनेति बोध्यम् ।
२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१
प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२
वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो-
ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६-
ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात्
कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि
आदिभूतानि येषां षट्त्रिंशत्तस्तत्त्वानां, तद्रूपतां९ सामान्येन बिभ्रत् तद्विशेष-
रूपाण्यपि बिभर्ति तावता प्रसिद्धव्यवहारनिष्पत्तेः। अप्रसिद्ध१०व्यवहारा-
न्तरमस्तु ईश्वरस्य कार्याणामनियमात्११, तदात्मता तु तेषामपि१२ युक्ति-
युक्ता न बाधितुं शक्या। इत्येतावत् प्रतिजानीमहे१३ षट्त्रिंशत्संख्या
पूर्यते यावत्१४ पार्थिवं तत्त्वम्, तदनन्तरं नोपलभ्यतेऽत्र तथा। पार्थिवं तत्त्वं
स्थूलत्वात् पर्यन्तवर्ति। अनेकसहकारिसंपाद्यविशेषं कारणात्कार्यं स्थूलं
१ ननु चास्या वेद्यवेदकबोधात्मकप्रमात्रवस्थाया अविशेषात् कथं
तत्रानेकप्रमातृतैतत्याह शिवेच्छात इति। २ अतः-—प्रमाणप्रमेययोरधीन-
त्वात्। ३ विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरेश्वरत्मकम्। ४ मायायां हि भेद
उल्लसितोऽत्र तु तदुल्लास एवेति। यदुक्तमागमे--
‘मायोपरि महामाया।’
इति। तेनात्र पर्यायभेद एव न परमार्थभेद इति। ५ स्वातन्त्र्यघनस्यात्मनः
प्रकर्षेणाच्छादनं तद्धानिरूपणम्। ६ अभेदस्याप्यख्यातिरात्मनोऽप्याच्छादम्।
७ भ्रान्तिम्, पुनःपुनर्लौकिकया जननमरणस्वरूपां न तु व्यतिरेकेणाभासनात्
व्यतिरिक्ताम्। ८ अपरैव रूपं रूपप्रसारः। ९ कतिपयकतिपयभेदानुगतं रूपं
तत्त्वम्। ननु किमेतान्येव तत्त्वानि उतापराण्यपि सन्तीत्याह तद्विशेषरूपा-
णीति। १० ननु यदि अन्यान्यपि सन्ति तत्किमिति नोपदिष्टानि इत्याह
तावतेति। अप्रसिद्धेति, सामान्यलोकाविषयम्।
'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्।
जडाद्विलक्षणो बोधो यतो न परिमीयते॥’
इति नीत्यापरिच्छिन्नत्वमेव, यत्पुनः षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युक्तं
तन्नियमनमव्यवस्था मा भूदिति। ११ 'अपरिच्छिन्नशक्तेः कः कुर्याच्छक्ति-
परिच्छेदम्।' इति नीत्या। १२ कार्याणाम्। १३ प्रतिज्ञां कुर्महे।
१४ यावच्छब्दस्यावाधारणावधिवाचकत्वादिति भावः।
आ०-१ ] शिवदृष्टिः २१
भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य
सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा-
त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि-
वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा-
त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६
रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया
संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा-
ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत-
दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥
अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां
विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह--
तथा नानाशरीराणि १२ भुवनानि तथा तथा ।
विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥
१ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि-
कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य
कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत्
पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र-
काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल-
वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७
विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष-
रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो
व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि ।
तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि
अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि ।
११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि
विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि
शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् ।
१४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष-
मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः ।
कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं
२२ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
एवं यथा विश्वप्रपञ्चतननक्षमं तत्त्वरूपं षट्त्रिंशत्संख्यं कार्यं रूपेण
बिभर्ति, तथा तैरेव तत्त्वैर्जनकसंसारिपुरुषरूपेण निर्वर्तनीयानि न तु साक्षात्
विधातुर्देवादिशरीराणि¹ कार्याणि, केवलं प्रत्यभिज्ञोक्तनीत्या² परस्या-
किंचित्करत्वात्³ स एव स्वकमातापितृभूतादिरूपेण देवादीन् भुवनानि
च तन्निवासरूपाणि विसृज्य, प्रोत्कृष्टादिदेवमनुष्यतिर्यग्योनिरूपं⁴
गृह्णाति ॥ ३४ ॥
शरीरभुवनवासना अन्योन्यानुरूपा गृह्णाति--इत्याह--
स्थानानुरूपतो देहान्देहाकारेण भावनाः ।
आददत्तेन तेनैव रूपेण प्रविभाव्यते ॥ ३५ ॥
अन्योन्यानुरूप्येणैवेषां देवादीनां विलक्षणव्यवहारनिर्वृत्तिः । स च
शरीरादि आददत् तेनैव मायीयेनैव रूपेण उपलक्ष्यते प्रसिद्धः ॥ ३५ ॥
स्वस्वरूपाख्यातेर्नरकादावपि स एवास्तीत्याह--
क्रीडया⁵ दुःखवेद्यानि कर्मकारीणि तत्फलैः ।
संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥ ३६ ॥
मलोपोद्वलितं कर्म संसारवैचित्र्यभोगे निमित्तमिति तद्भोगवास नानु-
विद्धानामणूनां भोगसाधनार्थं शरीराणि स एव सूयत इत्युक्तं तथा
नानेत्यादि । शरीरस्य भोगसाधनार्थं तानि तान्यनेकविधानि वासनानुसारेण
भुवनानि, तदनुसारेण च भोगभुक्त्यन्तं तद्रूपतापरिग्रह इत्युक्तं प्रोत्कृष्टेति ।
१ परमेश्वरस्य सर्वकर्तुः । २ संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव
विश्वभावशरीरः परमार्थतः सर्वजनकः । कथं तर्हि मातापित्रादेस्तदभिमान
इति चेत्, इदं वक्तव्यं किं शरीरेन्द्रियाणां तत्सामर्थ्यमुत तद्व्यतिरिक्त-
स्यान्यस्य कस्यचित् । शरीरेन्द्रियाणि हि जडस्वरूपत्वाद्ग्रावराशिमध्य एव
निक्षिप्तानि कथं तेषामुत्पत्त्यभिमानः । या पुनस्तद्व्यतिरिक्ता संविन्नाम,
तस्याश्च परमेश्वरसंविदोऽनधिकत्वमिति निर्णेष्यामः । तस्माद्यदत्र केचन
शरणं सामग्रीवादमभ्युपागमन्सोऽपि परमेश्वरस्यैव कर्तृतोपोद्वलक इति ।
३ तत्तत्प्रमातुः कर्तुश्च ।
४ 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्ग ॥'
इति तत्तदवान्तरभेदेऽपि त्रिविधत्वमेवेति बोधयन् । ५ उक्तमिदं यत्किंचि-
देतद्भासते, तत्सर्वं परमाद्वयनयोपदेशेन परस्वभावमयमेवेति । तत्र मा
आ०-१ ] शिवदृष्टिः २३
निवासीनि शरीराणि गृह्णाति परमेश्वरः ।
विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके,
अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात्
पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा-
वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति ।
परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव
स्थिरीकृतम् ॥ ३६ ॥
एतदेव लौकिकदृष्टान्तेनाह--
यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥
क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः ।
तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥
यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया
तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः
पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति ।
हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥
पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह--
इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ ।
सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥
सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता ।
प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥
पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता ।
कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड-
येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात-
मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन
भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति ।
१ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा
तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे-
त्यादिना । ६ क्रीडयेत्यादिना ।
२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः
आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त
इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात्
तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति ।
एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव
जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव-
तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव
तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥
भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह--
स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥
तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् ।
केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥
अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ ।
आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥
स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा
ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते ।
तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः
चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात्
क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया
भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं
१ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन ।
४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा-
न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम-
परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर
इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि
न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः
स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या ।
९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल-
लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता ।
तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-
आ०-१ ] शिवदृष्टिः २५
शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा-
नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात्
उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव-
त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित्
ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् ।
क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा
विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता,
न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं
योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत-
केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन,
क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप-
स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु
पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान-
केवलिरूपः ॥ ४३ ॥
इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६--
योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता ।
न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥
गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि-
रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च
परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च
मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर-
प्रत्यभिज्ञायां--
'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥'
इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति--
'न दृश्यते त्वत्प्रतिभासशक्तेः
स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् ।
तद्वदृष्टसामर्थ्यतया सदैव
विश्वप्रपञ्चप्रथनेकहेतुः ॥'
२६ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
तथा भगवदिच्छैव तथात्वेन प्रजायते ।
योगिनामिच्छामात्रेण¹ नानागृहादिरूपाणामुपपत्तिता क्रियात्मत्व-
मासाद्यते इति शेषः । न च मृत्काष्ठादि तेषां तक्षादीनामिव किंचित्साधन-
मस्ति परमेश्वरेच्छातिरिक्तम् । तद्रूपतापत्त्या हि ते² निर्मिमते । तथा
भगवदिच्छामात्रमेव विश्वरूपत्वं संपद्यते ॥ ४४ ॥
दृष्टमुदाहरणमाह³--
दृश्यन्तेऽत्र तदिच्छातो भावाः कामादियोगतः ॥ ४५ ॥
तत्र मिथ्यास्वरूपं चेत्स्थाप्याग्रे सत्यतेदृशाम् ।
कामशोकभयादियोगाच्च ते ते भावाः पुरः⁴ स्फुरन्तो दृश्यन्ते । तत्र
भगवदिच्छैव⁵ कारणं तावत्यंशे भावनावशादीश्वरतावेशात् । न च तत्र
चौरादयो मिथ्यारूपा भान्ति-यतोऽग्रे सत्यत्वमीदृशानामवश्यं स्थाप-
नीयम् ॥ ४५ ॥
इति भट्टदिवाकरवत्सोक्तनयेन यद्यपि स्वप्नसंकल्पकामशोकादिविषयपरि-
दृष्टभावाभासनिर्माणसामर्थ्यं संविद एवानुभूयते, तथापि घटादेः प्रसिद्ध-
मृदादिकारणपरम्परापराकरणेन तदत्रासत्यं घटादीति केचन विप्रति-
पन्नास्तान्प्रति योगिदृष्टान्तेनेच्छानिर्माणं समर्थयति । १ योगी हि पुरसेनादि-
निर्माणमिच्छावशादेव करोतीति सिद्धम् । तत्र हि तदिच्छया झटिति
संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घटसंपादकः
समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादि-
कारणकलापोऽभ्युपेयते, तत्कुलालविशेष एवायं योगीत्यायातम् । अहो तर्हि
तस्य योगिनो योगित्वमिति तत्र तदुल्लङ्घनमेवेत्याह इच्छामात्रेणोपपत्तिता
क्रियात्मत्वमासाद्यत इति ।
२ योगिनश्च शरीरप्राणाद्यारूपितमपि चैतन्यं तावन्नैर्मल्यान्निर्मातृ
स्वशरीरप्राणादिसहितप्रमात्रन्तरापेक्षया बाह्यत्वेन तस्यार्थस्य चित्तत्त्वमेव
सर्वत्र निर्मातृ । ३ प्रत्यक्षसिद्धम् । ४ प्रत्यक्षत एवार्थक्रियाकारित्वात् ।
५ भगवदिच्छेति, चित्तत्त्वं यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाशविमर्शं
ततस्तस्य यदाभासनं, तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः
प्रकाशात्मकत्वादुपपन्नमाभासनमित्यर्थः ।
आ०-१ ] शिवदृष्टि: २७
एवमेतदप्यग्रे वक्ष्यते इत्याह--
एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥ ४६ ॥
नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता ।
सच्चित्त्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥ ४७ ॥
उक्तं तावत्--
'पदार्थत्वेन भगवान्.........।' (४१)
इत्यादिना तत्त्वभूतमुखेन सर्वस्य शिवरूपत्वम् । इदानीं यथा घटपटादिष्वपि
भावेषु शिवता, तद्रूपत्वाच्च १ परिमितरूपैर्नीरूपत्वं, निर्वृति:२, इच्छादि-
योगिता, सच्चित्त्वमजडत्वं च सम्यगेव स्थितमुपपन्नम् ३, तथाग्रतोऽवश्यं
कथनीयम् ॥ ४७ ॥
एवं स्थिते ४ यद्ब्रूवति, तदाह--
एवं सर्वपदार्थानां समैव शिवता स्थिता ।
परापरादिभेदोऽत्र ५ श्रद्धानैरुदाहृतः ॥ ४८ ॥
परमशिवात्प्रभृति घटाद्यन्तानामपि पदार्थानां समैवान्यूना अनति-
रिक्ता च शिवता पूर्णचिद्रूपानतिरेकान्नियता ६ सर्वेषां तथा सामरस्या-
सादनात् कापि स्थिति: ७ स्यादित्यर्थः । एवं च सर्वस्य शिवरूपसामरस्यात्
तदख्यातिमयशुद्धयशुद्धिरूपपरापरादिभेदो भावानामुक्तः । तत्र श्रद्धा-
मात्रेणोपपत्तिरहितेन जन्तूनां, न तु वस्तूनां शुद्धिरशुद्धिर्वा काचित् ॥ ४८ ॥
एवं सर्वेषां सत्यत्वमाह--
१ तत्र सर्वेषां भावानां तथा शिवता भवति, यदि तद्धर्मयोगस्तत्रापि
भवति, नान्यथा,-इत्यतः सर्वं तत्समर्थकं समर्थयति तद्रूपत्वादिति ।
२ कर्माविच्छिन्ना औन्मुख्यरूपा । ३ युक्त्यानुभूतम् । ४ सर्वपदार्थानां सर्व-
शक्तिसंपूर्णशिवत्वे स्थिते । ५ ननु यदि संपूर्णैव तेष्वपि शिवता, तत्कि-
मित्यागमेषु परापरादिभेदो नियमेन कथ्यत इत्याशङ्क्याह परापरेत्यादि ।
६ सर्वस्य पदार्थजातस्यावश्यंभाविनी । ७ ननु च भवतु सर्वत्र पूर्णशिव-
तत्त्वोपयोगस्तथापि स्वात्मनि स्थितत्वात्कश्चमत्कारातिशय इत्यत आह
स्थितिरिति । योगिनो हीदृशी यदि स्थितिस्तदा सर्वचमत्कार एवेत्यर्थः ।
२८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् ।
तथा तस्य व्यवस्थानान्नानाऽरूपेऽपि सत्यता ॥ ४९ ॥
उक्तक्रमेण १ भेदात्मकं, न तु २ भावभेदपृथग्भूतम् । भेदा अपि
तदात्मकाः ३, अत एव तदनन्तकं भिन्नार्थसद्भावे सति अन्तः स्यात् तद्रूपाना-
क्रमणात् । एवं व्यवस्थानात्स्वभावत्वात् तस्य परमेश्वरस्य नानारूपेऽपि
विश्वस्मिन् सत्यतैवेति ॥ ४६ ॥
इति श्रीशिवदृष्टौ श्रीमदुत्पलदेवप्रभुपादनिर्मितायां वृत्तौ
प्रथममाह्निकम्
१ रूपप्रसाररसत् इत्यादिना । २ अनेन न तेषां स्वकीयं रूपं
किंचिदिति द्योतितम् । ३ ननु भेदोऽपि भाति, किं चात्र शरणमित्याह
तदात्मका इति ।
अथ
द्वितीयमाह्निकम्
ईश्वराद्वयवाद¹ एव युक्तियुक्तो², न तु शब्दपरब्रह्माद्वयवाद इति
वक्तुं, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण आह--
अथास्माकं³ ज्ञानशक्तिर्या सदाशिवरूपता ।
वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥
पश्यन्ती यद्यपि⁴ नादरूपतया विश्वमामृशन्ती क्रियाशक्तिरूपतया
समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात् उपचारिज्ज्ञानशक्ति-
रूपत्वेऽप्याश्रीयमाणे⁵ परमशिवरूपताया अत्यन्तदूरवर्तिनी न तु पर्यन्त-
१ तदेवमियता सर्वशासनार्थसंक्षेपार्थसूचकेन पीठिकाबन्धरूपेणो-
पोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर एक एव तावत् स्वरूपप्रसारेण
परापरादिरूपतया भासते, तथात्वेऽपि न खण्डितव्यपदेशव्यवहार्यः ।
तथाहि-परावस्थायां तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसार-
रसादेव न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः प्राकृतप्रजा-
यामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम्। तदेतत्त्रिधात्व-
मप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव भाति । तस्मिन् हि
निरसिते सर्वमिदं मेघावरणविगमेनेव स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं
भासते नान्यथा, पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो
भाति । तत्र प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च
शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव कणनिरसनमिति तन्निरा-
सनायाह न शब्दब्रह्मेत्यादि । २ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः ।
३ अथेति स्वसिद्धान्तकथनानन्तरं परप्रक्रियारम्भे । ४ ज्ञानशक्तौ हीच्छायां
यद्बीजतयावस्थितं तदेव विकसितं, ततश्चात्रामर्शासंभवात् कथं ज्ञान-
शक्तित्वमिहाप्युक्तं ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञान-
शक्तिः पश्यन्तीति मत्वाह् यद्यपीति । ५ अपिशब्दोऽत्रोपरोधेनैव ज्ञान-
शक्तित्वं न तु वस्तुत इति द्योतयति ।
३० उत्पलदेवकृतवृत्त्योपेता [ आ०-२
दशासौ ज्ञानशक्तेः सदाशिवरूपत्वात् परापरव्यवस्थात्र । तेषां पुनः सा
परावस्था मता । सदाशिवरूपत्वे¹ च क्रियाशक्तिरपि न परित्यक्ता ।
यदुक्तं--
'ज्ञानक्रिये सादाख्यम्'
इति । शक्तिशक्तिमतोरभेदात्² ज्ञानशक्तिमान् सदाशिवः, उद्रिक्तक्रिया-
शक्तिरीश्वर इति । अत³ एवेच्छाशक्तिमयः शिवो यावच्चित्स्वातन्त्र्य-
शक्तिमान् पर्यन्ते परमशिवः । अत्रान्तरे चौन्मुख्यनिवृत्त्यपेक्षयाधिकतत्त्व-
संभवः । तदस्तु, मा वा भूत्, नैतदिह मुख्यवृत्त्या प्रतिपाद्यम्, अत
एवाधिकशक्तिप्रदर्शने कृतेऽप्युक्तं 'षट्त्रिंशत्तत्त्वरूपतां बिभ्रत्' इति ।
शिवभेदतात्पर्यं⁴ तु न खण्ड्यत इति नियमः । मायोत्तीर्णेऽप्यध्वनि⁵
विद्योन्मेषेऽपि कार्ममलानुल्लासात् संसारासंपर्केऽपि परमेश्वरऽभेदाख्यातेः
सर्वथैवाविच्छेदादागमावगतेश्वरेच्छावशोत्यपरापरदशाव्यपदेश्योक्ततत्त्वोप -
गमः⁶ । वैयाकरणसाधूनामिति साधुग्रहणमेषां⁷ जाड्यख्यापनाय । परमपि
हि रूपं यदि पश्यन्त्याः यदुक्तं--
'प्रतिलब्धसमाधाना⁸ च ।'
इति,
'विशुद्धा९ च ।'
१ ननु यदि भवद्भिः पश्यन्त्या नादशक्तिरूपतया क्रियाशक्तिरेवाभ्यु-
पगता येन यद्यपीत्याद्युक्तं, सूत्रकारेण कथं ज्ञानशक्तिः सदाशिवरूपतेति
महानयं स्वकटकक्षोभः संपन्न इत्याशङ्क्याह सादाशिवरूपत्वे चेतिः ज्ञान-
शक्तियोग्यता क्रियाशक्तिप्रारम्भः सदाशिवत्वमित्यर्थः । २ ननु ज्ञानशक्तिः
सदाशिवतेति कोऽयं निर्देश इत्यत आह शक्तीति । ३ प्रसङ्गागतमाह अत
एवेति । ४ ननु किं तर्हि अत्र प्रतिपाद्यं सर्वथा हि निःशेषतः कथिते प्रकृतं
साध्यं सिद्ध्यत्यत आह शिवाभेद इति, सर्वथा हि शिवाभेदतात्पर्यमिह साध्य-
मिति नियमः । तच्च, अस्तु वाधिक्यं मास्तु वा, न खण्ड्यत इत्यर्थः ।
५ ननु व सर्वत्र हि मायाया उच्छेद एवाङ्गीकृतः, स च ज्ञानशक्ता-
वप्यस्ति ततोऽलमनेन ज्ञानशक्तिरस्माकं तेषां परा स्थितिरिति शङ्कित्वाह
मायोत्तीर्ण इति । ६ तेन नात्र परतत्त्वस्थितिरित्यर्थः । ७ यथा लौकिकेऽपि
अत्यन्तमूर्खेऽपि साधुरयमिति । ८ केवलशब्दार्थरहितस्वरूपसमाहितिः ।
९ ग्राह्यग्राहककल्लोलरहिता ।
आ०-२ ] शिवदृष्टिः ३१
इति,
'प्रशान्तप्रत्यवभासा १ च ।'
इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २
रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव ।
यदुक्तं--
'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः
पश्यन्ती ।'
इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता,
परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥
तथा ४ च त एवमाहुरित्याह--
इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ ।
तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥
यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् ।
सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो-
ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन-
मुच्यत इत्याहुस्ते ॥ २ ॥
१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या
यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे
निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां
वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति
नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु
तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति,
पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं-
कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक-
त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति ।
'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती ।
नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥'
इति भर्तृहरिपादाः ।
९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द-
रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां
३२ उत्पलदेवकृतवृत्त्योपेता [ आ०-२
स एव चात्मेत्याह--
स¹ एवात्मा सर्वदेहव्यापकत्वेन वर्तते² ।
अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्³ ॥ ३ ॥
या अन्तः पश्यदवस्था⁴ भोक्तृतारूपा ज्ञेयरूपशून्यं चिद्रूपत्वं चैतन्य-
मात्रं स एवात्मा कथ्यते, सर्वदेहव्यापकस्तद्भोगायतनावस्थितो⁵ भोग्यं
भुङ्क्ते ॥ ३ ॥
स एव⁶ परमात्मा सर्वज्ञ इत्याह--
तावद्यावत्परा⁷ काष्ठा यावत्पश्यत्यनन्तकम् ।
अभ्यासप्रकर्षात्तथा काष्ठा⁸ प्राप्ता सा पश्यन्त्येव भवति, यथा
अनन्तं सर्वमेव विश्वं पश्यति येन दर्शनक्रियार्थोऽस्याः पूर्यते ॥ ४ ॥
तदैवाविद्योपशमात् परमार्थोऽसावित्याह⁹--
अक्षादिवृत्तिभिर्हीनं¹⁰ देशकालादिशून्यकम् ॥ ४ ॥
सर्वतः क्रमसंहारमात्रमाकारवर्जितम्¹¹ ।
ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव¹² सः ॥ ५ ॥
विनेत्यादि । न, चिद्रूपस्य यच्चिद्रूपत्वं तदेव वाग्रूपतेति यतस्तन्मतमित्याह
प्रत्यवमर्शनमेवेति । १ नन्वस्त्वेतादृल्लक्षणं शब्दब्रह्मानाद्यन्तं पूर्णं, तथापि
कस्य बन्धः कस्य मोक्षः, तदर्थमेव व्यवहारप्रवृत्तिरिति तावद्भोक्तारं बन्ध-
मोक्षाधिकारिणमविद्योपरागात् स्वतःस्वच्छं समर्थयति स एवेति । २ भोग्यं
प्रति प्रवर्तते । ३ ज्ञेयेदन्ताविषयम् । ४ भोक्तृरूपत्वेन तस्यावस्थितिस्तेना-
वस्थैव तावज्जीवता सिद्धा । ५ तस्य भोक्तुः । ६ अवस्थाया अवस्थातुर-
व्यतिरिक्तत्वाद्भोग्यरूपावस्थानिवृत्तौ पुनरपि केवलमवस्थातैवावशिष्यत
इत्याह । ७ अत्र परा काष्ठा इत्यावृत्तिपक्षेण योजनीयम् । तथाच यावत्परा
काष्ठा प्राप्ता, तावदेवानन्तकं पश्यन्तीमयमेव सर्वं विश्वं पश्यति ।
यावदित्यवधारणे, ततः परा काष्ठा पश्यन्त्येव भवतीत्यर्थः । ८ भोग्य
प्रवृत्तिरहिता च । ९ अविद्यालक्षणं तदवस्थारूपं भोक्तृतालक्षणं
संसारिणं जीवमुपपाद्य तदनुषङ्गेण च शुद्धमपि परमात्मलक्षणं
सर्वज्ञमुपपाद्य परमूपेय इत्याह परमार्थोऽसावित्यादि । १० सर्वतोऽवच्छेद-
विरहात् । ११ ग्राह्यग्राहकाकारेण, नियतस्वरूपत्वस्यादिना गृहीतत्वाद् ।
१२ एवकारो भिन्नक्रमः स इत्यन्तरं योज्यः ।